तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 606, कुल 940 में से
संदर्भ में पढ़ें५ प्रपाठके २ अनुवाकः । ५६३
अथ द्वितीयोऽनुवाकः ।
(१)सा॒वि॒त्रं जु॑होति प्रसूतयै॑ । च॒तुर्गृ॑हीतेन जुहोति ।
चतु॑ष्पादः प॒शवः॑ । प॒शूने॒वाव॑रुन्द्धे । चत॑स्रो॒ दिशः॑ ।
दिक्ष्वे॒व प्रति॑तिष्ठति^(१) । ^(२)छन्दाँ॑सि दे॒वेभ्योऽपा॑क्रामन् ।
न वो॑ भागा॒नि ह॒व्यं व॑क्ष्याम॒ इति॑ । तेभ्य॑ ए॒तच्च॑तुर्गृहीत-
म॑धारयन् । पु॒रोऽनु॒वाक्या॑यै या॒ज्या॑यै ॥ १ ॥
दे॒वता॑यै वषट्का॒राय॑ । यच्च॑तुर्गृहीतं जु॒होति॑ ।
छन्दाँ॑स्येव तत् प्री॑णाति । तान्य॑स्य प्री॒तानि॑ दे॒वेभ्यो॑
ह॒व्यं वह॑न्ति^(२) । ^(३)ब्रह्म॑वा॒दिनो॑ वदन्ति । होत॒व्य॑न्दी-
क्षि॒तस्य॑ गृहा३ इन् हौत॒व्या३मिति॑ । ह॒विर्वै दी॑क्षि॒तः ।
यज्जु॑हु॒यात् । ह॒विष्कृतं यज॑मानम॒ग्नौ प्रद॑ध्यात् । यन्न
जु॑हु॒यात्^(३) ॥ २ ॥
^(४)य॒ज्ञप॑रु॒रन्त॑रियात् । यजु॑रेव व॑देत् । न ह॒विष्कृतं
यज॑मानम॒ग्नौ प्रद॑धाति । न य॒ज्ञप॑रु॒रन्त॒रेति॑^(४) । ^(५)गा॒-
| १ | एतन्मन्त्रस्य भाष्यं | ३७८ | पृष्ठे द्रष्टव्यं |
|---|---|---|---|
| २ | " | ३७६ | " |
| ३ | " | ३८० | " |
| ४ | " | ३८० | " |
| ५ | " | ३८१ | " |
4 c 2