भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 594, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 594

४ प्रपाठके ४२ अनुवाकः । ५८१

यु॒ञ्जते॒,* ब्रह्म॑न् प्र॒चरि॑ष्यामः, अप॑श्यं गो॒पां, सं- मु॒द्राय॑, वय॒मनु॑क्रामाम, पू॒ष्णे, धु॒निश्च॑, यदे॒तहू॒तानि॑, तच्छं॒केयं॑ अ॒ष्टाशी॑तिः* ॥ ८८ ॥ नमः॑, अनु॑मदन्तु ॥ ॥*॥ ओम् शान्तिः॒ शान्तिः॒ शान्तिः॑॥०॥ हरिः॑ ओम्॥*॥


एतानि नामान्यकुरुत" इति। (५ प्र० । ११ अ० । २ म०)। अस्य प्रवर्ग्यस्य तत्तदवस्थाभेदेन प्रजापत्यादीनि नामानि सम्पद्यन्ते। यदा मृद्वराहविहतवल्मीकवपादिसम्भारैः 'सम्भ्रियमाण'त्व-दशापन्नो भव-


* एतत्परिसङ्ख्याने प्रथमोऽनुवाको न गणितः। युञ्जत इत्यारभ्य दशदशतिपरिगणनया द्वितीयानुवाकस्य पञ्चदशत्या अतिरिक्तनवकण्डिकाः दशतित्वेन परिगणिताः। ब्रह्मन् प्रचरिष्यामः इत्यारभ्य दशदशतो षष्ठानुवाकस्य अतिरिक्तनवकण्डिका दशतित्वेन परिसङ्ख्याताः। अपश्यं गोपा इत्यारभ्य दशदशत्यां अष्टमानुवाकस्य अतिरिक्तनवकण्डिका दशतित्वेन परिगृहीताः। B, G चिह्नितपुस्तकद्वये दशत्याः समष्टिर्ह्यशीतिरेव निर्णीता। J चिह्नितपुस्तकेऽपि तथैव। परन्तु उभयत्र प्रतीकाः विभिन्नाः वर्त्तन्ते।
B, G चिह्नितपुस्तकद्वयस्य दशदशतिप्रतीकाः यथा, नमः, युञ्जते, ब्रह्मन् प्रचरिष्यामः, अपश्यं गोपाः, समुद्राय, वयमनुक्रामाम, पूष्णे, अहोरात्रे, अग्निणा त्वा, आपो जनयथाचन, ह्यशीतिः ॥ ८२ ॥
J चिह्नितपुस्तकस्य दशतिप्रतीकाः यथा, नमः, युञ्जते, ब्रह्मण षट् षट्, उत्तुदाष्टौ, भूः षट्, समुद्राय, वयमनुक्रामाम, पूष्णे, अहोरात्रे, अग्निना त्वा, आपो जनयथाचन, ह्यशीतिः ॥ ८२ ॥
अत्र उभयत्र पाठे दशदशगणनया दशतीनां क्रमेण परिसङ्ख्यानं न कृतं। कुत्रचित् दशदशतिसङ्ख्याया न्यूनाधिकं दृश्यते। अतएव तदुभयविधपाठेऽशुद्ध इति अनुमीयते।