तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 616, कुल 940 में से
संदर्भ में पढ़ें५ प्रपाठके ४ अनुवाकः। ६०३
स्या॒त्(१), य॒त् प्रव॑र्ग्यः(२), छन्दो॑भिः करोति(३), वी॒र्य॑सम्मितं(४), छन्दाँ॑सि॒ निष्पत्(५), पृ॒णोत्या॑ह(६), सु॒क्षितिः(७), अना॑च्छृणं(८), छन्दाँ॑ स्याच्छृ॑णत्ति(९), अ॒ष्टौ च॑ ॥ अनु० ३ ॥
अथ चतुर्थोऽनुवाकः ।
^(१)ब्रह्म॑न् प्रचरिष्यामो॒ होत॑र्घ॒र्मम॑भिष्टुहीत्या॑ह । ए॒ष वा ए॒तर्हि॒ बृह॒स्पति॑ः । यद् ब्रह्मा॑ । तस्मा॑ ए॒व प्रति॑प्रोच्य॒ प्रच॑रति । आ॒त्मनोऽना॑र्त्यै^(१) । ^(२)य॒माय॑ त्वा म॒खाय॑ त्वेत्या॑ह । ए॒ता वा ए॒तस्य॑ दे॒वता॑ः । ता- भि॑रे॒वैनं॑ सम॒र्धय॑ति^(२) । ^(३)मद॑न्तीभिः प्रोक्ष॑ति । तेज॑ ए॒वास्मि॑न् दधाति^(३) ॥ १ ॥
^(४)अ॒भि॒पूर्वं प्रोक्ष॑ति । अ॒भि॒पूर्व॑मे॒वास्मिं॒स्तेजो॑ दधाति^(४) । ^(५)त्रिः प्रोक्ष॑ति । त्र्यावृ॑द्धि य॒ज्ञः । अथो॑
| १ | एतन्मन्त्रस्य भाष्यं | ४१२ पृष्ठे | द्रष्टव्यं । |
|---|---|---|---|
| २ | ,, | ४१३ | ,, |
| ३ | ,, | ४१३ | ,, |
| ४ | ,, | ४१३ | ,, |
| ५ | ,, | ४१३ | ,, |