तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 619, कुल 940 में से
संदर्भ में पढ़ें६०६ तैत्तिरीये आरण्यके
शीर्ष॑त ए॒व य॒ज्ञस्य॒ यज॑मान॒ आशिषोऽव॑रुन्धे^(२१) । (२२)-
आयुः॑ पु॒रस्ता॑दाह । प्र॒जां द॑क्षिण॒तः । प्रा॒णं प॒श्चात् ।
श्रोत्र॑मुत्तर॒तः । विधृ॑तिमुप॒रिष्टा॑त् । प्रा॒णाने॒वास्मै॑
समीचो॑ दधाति^(२२) । (२३)ईश्वरो वा ए॒ष दिशो॒ऽनुन्म॑-
दितोः । यं दिशो॒ऽनु॒ व्यास्थापय॑न्ति ॥ ७ ॥
मनो॒रश्वा॑सि भूरि॑पु॒त्रेतीमा॒मभि॑मृशति । इ॒यं वै
मनो॒रश्वा॒ भूरि॑पुत्रा । अ॒स्यामे॒व प्रति॑तिष्ठत्यनुन्मा-
दाय^(२३) । (२४)सूप॒सदो॑ मे भूया॒ मा मा॑ हिꣳसीरित्या॑-
हाहि॑ꣳसायै^(२४) । (२५)चित॑ꣳ स्थ परि॒चित॒ इत्या॑ह ।
अप॑चितिमे॒वास्मि॑न् दधाति^(२५) । (२६)शिरो॒ वा ए॒त-
द्य॒ज्ञस्य॑ । यत्प्र॑व॒र्ग्यः॑ । अ॒सौ खलु॒ वा आ॑दि॒त्यः
प्र॑व॒र्ग्यः॑ । तस्य॑ म॒रुतो॑ र॒श्मयः॑ ॥ ८ ॥
स्वाहा॑ म॒रुद्भिः॒ परि॑श्रय॒स्वेत्या॑ह । अ॒मुमे॒वादि॒त्यꣳ
र॒श्मिभिः॒ पर्य्यू॑हति । तस्मा॑द॒सावा॑दि॒त्योऽमुष्मिं॑ल्लो॒के
र॒श्मिभिः॒ पर्य्यू॑ढः । तस्मा॒द्राजा॑ वि॒शा पर्य्यू॑ढः । तस्मा॒द्
| २२ | एतन्मन्त्रस्य भाष्यं | ४२२ | पृष्ठे द्रष्टव्यं । |
|---|---|---|---|
| २३ | ,, | ४२३ | ,, |
| २४ | ,, | ४२३ | ,, |
| २५ | ,, | ४२४ | ,, |
| २६ | ,, | ४२४ | ,, |