तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 628, कुल 940 में से
संदर्भ में पढ़ें५ प्रपाठके ६ अनुवाकः। ६१५
(२६)गर्भो॑ दे॒वाना॑मि॒त्याह॑ । गर्भो॒ ह्येष दे॒वानां॑(२६) । (२७)पि॒ता म॑ती॒नामि॒त्याह॑ । प्र॒जा वै म॒तयः॑ । तासा॑- मे॒ष एव पि॒ता । यत्प्र॑व॒र्ग्यः॑ । तस्मा॑दे॒वमाह॑(२७) । (२८)पतिः॑ प्र॒जाना॑मि॒त्याह॑ । पति॒र्ह्येष प्र॒जानां॑(२८) । (२९)म॒तिः क॑वी॒नामि॒त्याह॑ ॥ ८ ॥
म॒तिर्ह्येष क॑वी॒नां(२९) । (३०)सं दे॒वो दे॒वेन॑ सवि॒- त्रार्ऽय॑तिष्ठ॒ सं सूर्ये॑णारु॒क्तेत्याह॑ । अ॒मुञ्चै॒वादि॒त्यं प्र॑व॒र्ग्यञ्च॒ संशा॑स्ति(३०) । (३१)आयु॑र्दास्त्वम॒स्मभ्यं॑ घर्म वर्चो॒दा अ॒सीत्याह॑ । आ॒शिष॑मे॒वैतामाशा॑स्ते(३१) । (३२)पि॒ता नौ॑ऽसि पि॒ता नो॑ बो॒धीत्याह॑ । बो॒धय॑त्ये॒वै- न॑म्(३२) । (३३)नवै॒तेऽव॑का॒शा भ॑वन्ति । प॒त्न्यै दश॑मः । नव॒ वै पुरु॑षे प्रा॒णाः ॥ ९ ॥
नाभि॑र्दश॒मी । प्रा॒णाने॒व यज॑माने दधाति । अथो॒ दशा॑क्षरा वि॒राट् । अन्नं॑ वि॒राट् । वि॒राजै॒वान्नाद्य॑-
२६ एतन्मन्त्रस्य भाष्यं ४५० पृष्ठे द्रष्टव्यं ।
| २७ | ,, | ४५१ | ,, | | २८ | ,, | ४५१ | ,, | | २९ | ,, | ४५१ | ,, | | ३० | ,, | ४५२ | ,, | | ३१ | ,, | ४५२ | ,, | | ३२ | ,, | ४५२ | ,, | | ३३ | ,, | ४५५ | ,, |
4 F