तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 643, कुल 940 में से
संदर्भ में पढ़ें| ६३० | तैत्तिरीये आरण्यके |
|---|
(४६)संव॒त्स॒रं न मा॒ꣳसम॑श्नीयात् । न रा॒मामुपे॑यात् । न मृ॒न्मये॑न पिबेत् । नाऽस्य॑ राम उच्छि॑ष्टं पिबेत् । तेज॑ ए॒व तत् सꣳश्य॑ति^(४६) । (४७)दे॒वा॒सु॒राः सं॑य॒त्ता आ॑सन् । ते दे॒वा वि॑ज॒यमु॑पय॒न्तः । वि॒भ्राजि॑ सौ॒र्ये ब्रह्म॑ स॒न्दध॑त । यत्किञ्च॑ दिवाकी॒र्त्य॑म् । तदे॒तेनैव व्र॒तेना॑ऽगोपायन् ॥ तस्मा॑दे॒तद् व्र॒तं चर्य॑म् । तेज॑सो गोपीथा॒य । तस्मा॑दे॒तानि॒ यजूं॑षि वि॒भ्राज॑ : सौ॒र्येत्याहुः^(४७)। (४८)स्वाहा॑ त्वा॒ सूर्य॑स्य र॒श्मिभ्य॒ इति॑ प्रातः सꣳसा॑दयति । स्वाहा॑ त्वा॒ नक्ष॑त्रेभ्य॒ इति॑ सा॒यं । ए॒ता वा ए॒तस्य॑ दे॒वता॑: । ताभि॑रे॒वैनं॑ सम॒र्धय॑ति^(४८) ॥ १३ ॥
अ॒कः(१), अ॒श्विनेत्या॑ह(२), प्र॒दिशो॒ गच्छेत्या॑ह(३), पि॒तॄणां(४), अ॒न्तःप॒रि॒धि पि॑न्व्यति(५), धार॒येत्या॑ह(६), वाचः॑(७), घ॒र्म्म॒पास्तेभ्य॑ ए॒वैनं॑ जुहोति(८), अ॒न्वीक्षे॑त(९), होत॒व्या३मिति॑(१०), अ॒त्रावि॒त्या॑ह(११), दध॑ते(१२), अगोपायत्, स॒प्त च॑(१३) ॥ अनु० ८ ॥
४६ एतन्मन्त्रस्य भाष्यं ४८६ पृष्ठे द्रष्टव्यं ।
४७ " " ४८६ "
४८ " " ४८७ "