भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 644, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 644

५ प्रपाठके ६ अनुवाकः। ६३१

• अथ नवमोऽनुवाकः ।

^(१)घ॒र्म॒ या ते॑ दि॒वि शुगिति॑ ति॒स्र आहु॑तीर्जुहोति । छन्दो॑भिरे॒वास्यै॒भ्यो लो॒केभ्यः॒ शुच॒मव॑यजते^(१) । ^(२)इ॒य॒त्यग्रे॑ जुहोति । अ॒थेय॒त्यथेय॑ति । त्रय॑ इ॒मे लो॒काः । ए॒भ्य ए॒व लो॒केभ्यः॒ शुच॒मव॑यजते^(२) । ^(३)अनु॑ नो॒ऽद्यानु॑म॒तिरित्याहा॑नुम॒त्यै^(३) । ^(४)दि॒वस्त्वा॑ प॒र॒स्याया इत्या॑ह । दि॒व ए॒वैमाँल्लो॒कान् दा॑धार^(४) । ^(५)ब्रह्म॑णस्त्वा प॒र॒स्याया इत्या॑ह ॥ १ ॥

ए॒ष्वेव लो॒केषु॑ प्र॒जा दा॑धार^(५) । ^(६)प्रा॒णस्य॑ त्वा प॒र॒स्याया इत्या॑ह । प्र॒जास्वे॒व प्रा॒णान् दा॑धार^(६) । ^(७)शिरो॒ वा ए॒तद्य॒ज्ञस्य॑ । यत् प्र॑व॒र्ग्यः॑ । अ॒सौ खलु॒ वा आ॑दि॒त्यः प्र॑व॒र्ग्यः॑ । तं यद्द॑क्षि॒णा प्रत्य॑ञ्चमुद॑ञ्चमुद्वा॒सये॑त् । जि॒ह्मं य॒ज्ञस्य॒ शिरो॑ हरेत् । प्राञ्च॑मुद्वा॑सयति । पु॒र॒स्ता॑दे॒व य॒ज्ञस्य॒ शिरः॒ प्रति॑दधाति ॥ २ ॥


एतन्मन्त्रस्य भाष्यं४६६पृष्ठे द्रष्टव्यं ।
,,५००,,
,,५००,,
,,५०१,,
,,५०२,,
,,५०३,,
,,५०३,,

4 H