तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 645, कुल 940 में से
संदर्भ में पढ़ें६३२ तैत्तिरीये आरण्यके
प्रा॒ञ्चमुद्वा॑सयति । तस्मा॑द॒सावा॑दि॒त्यः पु॒रस्ता॒दुदै॑ति^(७) । ^(८)श॒फोप॑यमा॒न् धृवि॑त्राणि॒ धृष्टी॒ इत्य॒न्व॑वहरन्ति । सा॒त्मान॑मे॒वैनँ॑ सत॒नुं क॑रोति^(८) । ^(९)सा॒त्माऽमुष्मिँ॑ल्लो॒के भ॑वति । य ए॒वं वेद॑^(९) । ^(१०)औदु॑म्बराणि भवन्ति । ऊर्जा उ॑दु॒म्बरः॑ । ऊर्ज॑मे॒वाव॑रुन्धे^(१०) । ^(११)व॒र्त्म॑ना॒ वा॒ अन्वि॑त्य॒ ॥ ३ ॥
य॒ज्ञꣳ रक्षाँ॑सि जिघाँसन्ति । साम्ना प्रस्तो॒ताऽन्ववै॑ति । साम॒ वै र॑क्षो॒हा । रक्ष॑सामप॑हत्यै^(११) । ^(१२)त्रि॒र्निध॑नमुपै॑ति । त्रय॑ इ॒मे लो॒काः । एभ्य॑ एव लो॒केभ्यो॒ रक्षाँ॒स्यप॑हन्ति^(१२) । ^(१३)पुरु॑षः पुरुषो॒ निधन॑मुपै॑ति । पुरु॑षः पुरु॒षो हि रक्ष॑स्वी । रक्ष॑सामप॑हत्यै^(१३) ॥ ४ ॥
^(१४)यत् पृ॑थि॒व्यामु॑द्वा॒सये॑त् । पृ॒थि॒वीꣳ शु॒चार्प॑येत् । यद॒प्सु । अ॒पः शु॒चार्प॑येत् । यदोष॑धीषु । ओष॑धीः शु॒चार्प॑येत् । यद्वन॒स्पति॑षु । वन॒स्पतीँ॑ञ्छु॒चार्प॑येत् । हि- र॑ण्यं नि॒धायोद्वा॑सयति । अ॒मृतं॒ वै हिर॑ण्यं ॥ ५ ॥
| ८ | एतन्मन्त्रस्य भाष्यं | ५०३ पृष्ठे | द्रष्टव्यं । |
|---|---|---|---|
| ९ | ,, | ५०४ | ,, |
| १० | ,, | ५०४ | ,, |
| ११ | ,, | ५०४ | ,, |
| १२ | ,, | ५०४ | ,, |
| १३ | ,, | ५०५ | ,, |
| १४ | ,, | ५०५ | ,, |