तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 650, कुल 940 में से
संदर्भ में पढ़ें५ प्रपाठके १० अनुवाकः । ६३७
तत्साम्नः॒ पय॑ः । यद॒जायै॒ पय॑ः । तद्दे॒वानां॒ पय॑ः । त- स्माद्यच्चैतैर्यजु॑र्भि॒श्चर॑न्ति । तत्पय॑सा चरन्ति । प्रजा॑- प॑तिमेव तद्दे॒वान् पय॑सान्नाद्ये॑न समर्द्धयन्ति॑^{(१)} । ^{(२)}एष ह॒ वै साक्षात् प्रव॒र्ग्यं भ॑क्षयति । यस्यै॒वं वि॒दुष॑ः प्रव- र्ग्य॑ः प्रवृ॒ज्यते॑^{(२)} । ^{(३)}उ॒त्त॒र॒वे॒द्यामुद्वा॑सयेत् तेज॑स्कामस्य । तेजो॒ वा उ॑त्तरवेदिः॑ ॥ २ ॥ तेज॑ः प्रव॒र्ग्यः॑ । तेज॑सै॒व तेज॑ः समर्द्धयति^{(३)} । ^{(४)}उ॒- त्त॒र॒वे॒द्यामुद्वा॑सयेदन्न॑कामस्य । शिरो॒ वा ए॒तद्य॒ज्ञस्य॑ । यत् प्रव॒र्ग्यः॑ । मुख॑मुत्तरवेदिः॑ । शी॒र्ष्णैव मुख॒ꣳ सम्द॑- धात्यन्नाद्या॑य । अन्नाद एव भ॑वति^{(४)} । ^{(५)}यच्च॒ खलु॒ वा ए॒तमुद्वा॑सितं॒ वया॑ꣳसि पर्य्यासं॑ते । परि॒ वै ताꣳ समां॑ प्र॒जा वया॑ꣳस्यासते ॥ ३ ॥ तस्मा॑दुत्तरवे॒द्यामे॒वोद्वा॑सयेत् । प्र॒जानां॑ गोपीथा- य॑^{(५)} । ^{(६)}पुरो॒ वा प॒श्चाद्वादोद्वा॑सयेत् । पु॒रस्ता॑दा ए॒त- ज्ज्योति॒रुदे॑ति । तत्प॒श्चान्निम्रो॑चति । स्वामे॒वैनां॒ योनि॑-
| २ | एतन्मन्त्रस्य भाष्यं | ५२१ | पृष्ठे द्रष्टव्यं । |
| ३ | ,, | ५२१ | ,, |
| ४ | ,, | ५२१ | ,, |
| ५ | ,, | ५२१ | ,, |
| ६ | ,, | ५२२ | ,, |