भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 657, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 657

तैत्तिरीये आरण्यके षष्ठप्रपाठके प्रथमोऽनुवाकः ।


हरिः ॐ । सं त्वा॑ सिञ्चामि॒ यजु॑षा प्र॒जामायु॒र्धन॑ञ्च ॥ ॐ शान्तिः॒ शान्तिः॒ शा॒न्तिः॑ ॥ ओम् ॥


तैत्तिरीये आरण्यकभाष्ये षष्ठप्रपाठके प्रथमोऽनुवाकः ।


श्रीगणेशाय नमः ।

यस्य निश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरं ॥
प्रवर्ग्यब्राह्मणं प्रोक्तं पञ्चमे हि प्रपाठके ।
पितृमेधस्य मन्त्रास्तु दृश्यन्तेऽस्मिन् प्रपाठके ॥

तेषाञ्च पितृमेधमन्त्राणां विनियोगो भरद्वाजकल्पे बौधायन-
कल्पे चाभिहितः । तत्राचिताग्नेर्मरणसंशये दहनदेशञ्छोषयते
दक्षिणा प्रत्यक्प्रवणमित्यारभ्य भरद्वाज आह, अन्वारब्धे मृत
आहवनीये स्रुगाहुतिं* जुहोति, परे युवांसमिति ॥ बौधाय-
नोप्येवमेवाह, अथ गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं
गृहीत्वा प्रेतस्य दक्षिणं बाहुमन्वारभ्य जुहोति, परे युवांसमिति ।


* स्रुवाहुतिमिति E चिह्नितपुस्तकपाठः ।