तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 658, कुल 940 में से
संदर्भ में पढ़ें६ प्रपाठके १ अनुवाकः । ६४५
(१)परे॑यु॒वाꣳसं॑ प्र॒वतो॑ म॒हीरनु॑ ब॒हुभ्यः॑ प॒न्थाम॑नप-
स्पशा॒नम् । वै॒व॒स्वत॑ꣳ स॒ङ्गम॑नं॒ जना॑नां य॒मꣳ राजा॑-
नꣳ ह॒विषा॑ दुवस्यत(१) । (२)इदन्त्वा॒ वस्त्रं॑ प्रथ॒मं न्वा॒ग॑-
पाठस्तु । (१)“परेयुवाꣳस०हविषा दुवस्यत”(१) इति । हे पितृमेध-
कर्त्तारः पितॄणां ‘राजानं’, ‘यमं’, ‘हविषा’, ‘दुवस्यत’ प्रीणयत ।
कीदृशं, ‘प्रवतः’ प्रकृष्टकर्मवतः, भूलोकवर्त्तिभोगसाधनं पुण्यमनु-
ष्ठितवतः पुरुषान्, ‘महीः’ तत्तद्भागोचित*भूप्रदेशविशेषान्, ‘अनु’,
‘परे युवाꣳसं’ क्रमेण मरणादूर्ध्वं प्रापितवन्तं, तथा ‘बहुभ्यः’
स्वर्गार्थिभ्यः पुण्यकृद्भ्यः, पुण्यकृतामर्थे, ‘पन्थां’ स्वर्गस्योचितं मार्गं,
‘अनपस्पशानं’ अबाधमानं, पापिन एव पुरुषान् स्वर्गमार्गबाधेन
नरकं प्रापयति नतु पुण्यकृत इत्यर्थः । ‘वैवस्वतं’ विवस्वतः सूर्य्यस्य
पुत्रं, ‘जनानां सङ्गमनं’ पापिनां गन्तव्यस्थानरूपं ॥
कल्पः । औदुम्बर्यामामन्द्यां कृष्णाजिनं दक्षिणाग्रीवमधर-
लोम आस्तीर्य तस्मिन् एनमुत्तानं निपात्योपान्तदशेनाहतेन
वाससा प्रोर्णोति, इदन्त्वा वस्त्रमिति । पाठस्तु । (२)“इदन्त्वा वस्त्रं
प्रथमं न्वागन्”(२) इति । हे प्रेत त्वां ‘इदं’, ‘वस्त्रं’, ‘प्रथमं नु’
प्रथममेव, ‘आगन्’ आगच्छतु ॥
कल्पः । अथास्येतरदपादत्ते, अपैतद्दुहेति, तत्पुत्रो भ्राता वा
* तत्तद्भोगोचितेति E, F, चिह्नितपुस्तकद्वयपाठः ।