भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 659, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 659

६७६ तैत्तिरीये आरण्यके

न्^(१) । ^(२)अपैतदू॑ह॒ यदि॒हाबि॑भः पु॒रा । इ॒ष्टापू॒र्तमनु॒सम्पश्य॒ दक्षि॑णां॒ यथा॑ ते द॒त्तं ब॑हु॒धा वि ब॑न्धु॒षु^(३) । ^(४)इ॒मौ यु॑नज्मि ते॒ वह्नी॑ असुनी॒थाय॑ वो॒ढवे॑ । याभ्यां॑ य॒मस्य॒ साद॑नग्ँ सु॒कृता॑ञ्चापि॑ ग॒च्छता॑त्^(४) । ^(५)पू॒षा


अन्यो वा प्रत्यासन्नबन्धुः प्रतीतः परिधायेति । पाठस्तु । (१)“अपैतदूह • बहुधा वि बन्धुषु”(२) इति। हे प्रेत ‘यत्’ वस्त्रं, ‘पुरा’, त्वं ‘अबिभः’ धारितवानसि, ‘एतत्’, ‘अपोह’ अपसारय, ‘इष्टापूर्त्तं’ त्वया अनुष्ठितं श्रौतं स्मार्त्तञ्च यत् कर्म तत्, ‘अनुसम्पश्य’ अनुक्रमेण स्मर, ‘दक्षिणां’, च ब्राह्मणेभ्यो दत्तां ‘अनुसम्पश्य’, ‘ते’ त्वदीयन्धनं, ‘बन्धुषु’, प्रीतिदानरूपेण ‘बहुधा’, ‘यथा’ विशेषेण, ‘दत्तं’, तमपि प्रकारं ‘अनुसम्पश्य’, ततस्तदनुरूपं पुण्यलोकं गच्छेदित्यभिप्रायः ।

कल्पः । अथैनमेतया आसन्द्या सह तन्तल्पेन कटेना वा संवेष्ट्य दासाः प्रवयसो वहेयुः ; अथैनं अनसा वहन्तीत्येकेषां अनस्येद्युञ्ज्यात्, इमौ युनज्मि ते वह्नी असुनीथाय वोढवे । याभ्यां यमस्य सादनग्ँ सुकृताञ्चापि गच्छतात् इति । (४ मन्त्रः ।) हे प्रेत ‘ते’ तव, ‘असुनीथाय’ प्राणसदृशस्य शरीरस्य नयनाय, ‘वोढवे’ शकटं वोढुं, ‘वह्नी’ वोढारौ, ‘इमौ’ बलीवर्दौ, ‘युनज्मि’ शकटे योजयामि । ‘याभ्यां’ बलीवर्दाभ्यां, ‘यमस्य’, ‘सादनं’ स्थानं, ‘सुकृताञ्चापि’ पुण्यकृतां पुरुषाणामपि, स्थानं ‘गच्छतात्’ गमिष्यसि, तादृशौ ‘युनज्मि, इत्यन्वयः ।