भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 66, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 66

१ प्रपाठके ८ अनुवादः। ६१

ति^{(२०)}। ^{(२१)}कश्य॑पः पश्य॑को भवति। यत्स॒र्वं परि॒प- श्यतीति॑ सौक्ष्म्यात्^{(२१)}। ^{(२२)}अथाग्ने॑रष्टपु॑रुष॒स्य। तस्यै॒- षा भव॑ति^{(२२)}। ^{(२३)}अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान्। विश्वा॑नि देव व॒युना॑नि वि॒द्वान्। यु॒यो॒ध्य॒स्मज्जु॑हुरा॒ण- मेनः॑। भूयि॑ष्ठां ते॒ नम॑उक्तिं विधेमेति॑^{(२३)}॥ ८॥


अथ ब्राह्मणमुच्यते। ^{(२१)}“कश्यपः ० सौक्ष्म्यात्”^{(२१)} इति। योऽयमष्टमः सूर्यः रूढ्या ‘कश्यपः’, इति नाम्नाभिधीयते स एवावयवार्थपर्यालोचनायामाद्यन्तयोरक्षरयोर्व्यत्यासेन ‘पश्यकः’, भवति। ‘यत्’ यस्मात् कारणात्, अत्यन्तसूक्ष्मत्वेन दिव्यदृष्ट्या ‘सर्वं’ अतीतानागतादिकं, परितः ‘पश्यति’॥

तदेवं कश्यपप्रकरणं समाप्याग्निप्रकरणमारभते। ^{(२२)}“अथाग्नेरष्टपुरुषस्य ० भवति”^{(२२)} इति। ‘अथ’ कश्यपमहिमाकथनानन्तरं, ‘अष्टपुरुषस्य’, ‘अष्टसङ्ख्याकमूर्त्तियुक्तस्य, ‘अग्नेः’, महिमा कथ्यत इति शेषः। ‘तस्य’ अग्नेः, महिमप्रतिपादिकेयमृग्विद्यते॥

तामेतामृचं दर्शयति। ^{(२३)}“अग्ने नय ० विधेमेति”^{(२३)} इति। हे ‘अग्ने’, ‘राये’ धनप्राप्त्यर्थम्, ‘अस्मान्’, ‘सुपथा नय’ शोभनेन मार्गेण प्रापय। हे ‘देव’, त्वं ‘विश्वानि वयुनानि’ सर्वान् मार्गान्, जानन् सन् वर्त्तसे। ‘जुहुराणं’ कुटिलम्, ‘एनः’ पापम्, ‘अस्मत् युयोधि’ अस्मत्सकाशाद्वियोजय, ‘ते’ तुभ्यं, ‘भू-

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद) · पृष्ठ 66, कुल 940 में से · BharatKosha