भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 661, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 661

६४८ तैत्तिरीये आरण्यके

मेन नेषत्। स्व॒स्ति॒दा अघृ॑णिः सर्व॑वीरोऽप्रयुच्छन् पुर ए॑तु प्रवि॒द्वान्॥ १॥ ^{(७)}आयु॑र्विश्वा॑युः परि॑पासति त्वा पू॒षा त्वा॑ पातु प्र- प॑थे पु॒रस्ता॑त्। यत्राऽऽस॑ते सु॒कृतो॒ यत्र॒ ते य॒युस्तत्र॑ त्वा


सोऽयं 'इमाः' सर्वाः, 'आशाः' दिशः, 'अनुवेद' इयमनुकूला दिगिति जानाति, 'सः' देवः, 'अस्मान्', अत्यन्तं भयरहितेन मार्गेण 'नेषत्' नयतु । 'कीदृशः पूषा, 'स्वस्तिदाः' क्षेमप्रदः, 'अघृणिः' अदीप्तः, अस्मास्वनुग्राही,* 'सर्ववीरः' सर्वेभ्यः प्रतिकूलेभ्यः अत्यन्तं शूरः, सः तादृशः असौ 'अप्रयुच्छन्' प्रमादमकुर्वन्, 'प्रविद्वान्' मार्गं प्रकर्षेण जानन्, अस्माकं पुरतः 'एतु' गच्छतु।

कल्पः। अथैनमाददत आदीीयमानमनुमन्त्रयते, आयुर्विश्वा- युः परिपासति त्वा पूषा त्वा पातु प्रपथे पुरस्तात्। यत्राऽऽसते सु- कृतो यत्र ते ययुस्तत्र त्वा देवः सविता दधातु इति, समस्तवमेत- स्याध्वनो गत्वा निदधाति इति। (७मन्त्रः)। विश्वस्मिन् कर्मण्यागच्छति इति 'विश्वायुः' अग्निः, स च 'आयुः' आयुष्मन्तं, आ- गतवन्तं, त्वां प्रेतं 'परिपासति' परिपालयितुमिच्छति, दह- नार्थमागच्छन्तं त्वां प्रतीक्षते इत्यर्थः। अयं 'पूषा', 'प्रपथे' प्रकृष्टे मार्गे, त्वां 'पुरस्तात् पातु' पुरतो गच्छन् प्रतिबन्धकेभ्यो


* अस्मास्वननुग्रहयुक्त इति E चिह्नितपुस्तकपाठः।