भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 662, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 662

६ प्रपाठके १ अनुवाकः। ६४८

दे॒वः स॑वि॒ता द॑धातु^(७) । ^(८)भुव॑नस्य पत इ॒दꣳ ह॒विः^(८) । ^(९)अ॒ग्नये॑ रयि॒मते॒ स्वाहा॑^(९) । ^(१०)पुरु॑षस्य सयावर्यपेद॒- घानि॑ मृज्महे । यथा॑ नो॒ अत्र॒ नार्परः॑ पु॒रा ज॒रस॑


रक्षोभ्यः पालयतु । 'यत्र' यस्मिन् उत्तमलोके, 'सुकृतः' पूर्वे पुण्यकृतः, 'आसते', 'यत्र' च मार्गे, 'ते' पुण्यकृतः, 'ययुः', 'सविता', 'देवः', 'तत्र', त्वां 'दधातु' स्थापयतु ॥

कल्पः । अत्र राजगवीमुपाकरोति, भुवनस्य पते इति जरतीं मुख्यां, तज्जघन्यां कृष्णां कृष्णाक्षीं कृष्णवालां कृष्णखुरापि वा अजां, बालखुरमेव कृष्णं, एवं स्यादिति। पाठस्तु । ^(८)“भुवनस्य पते इदꣳ हविः”^(८) इति। हे 'भुवनस्य', 'पते' पालक देव, तव 'इदं' राजगवीरूपं, 'हविः', उपाकरोमीति शेषः ॥

अथास्य हविषः स्वकाले प्राप्तो होमः कर्त्तव्यः । तद्धोममन्त्रोऽत्रैव प्रसङ्गादाम्नातः । कल्पः । तच्चैतद्धविरिडापात्र्या चमसेन वा जुहो- ति, अग्नये रयिमते स्वाहा इति । (९ मन्त्र )। 'रयिमते' धनवते, 'अग्नये', स्वाहुतमिदमस्तु ॥

कल्पः । तां घ्नन्ति उत्सृजन्ति वा, यदि विघ्नन्ति तस्यां निघ्न्य- मानायां सव्यानि जानून्यनुनिघ्नन्तः पांसूनवमृजन्ते, पुरुषस्येति । पाठस्तु । ^(१०)“पुरुषस्य सयावरि० जरस आयति^(१०) इति । सह यातुं गन्तुं शीलं यस्याः राजगव्याः सा सयावरी, “पुरुषस्य”

4 1 2