तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 663, कुल 940 में से
संदर्भ में पढ़ें६५० तैत्तिरीये आरण्यके
आय॑ति^{(१०)}। ^{(११)}पु॒रु॒षस्य॑ सयावरि॒ वि ते॑ प्रा॒णम॑सिस्रसं। शरी॑रेण म॒हीमि॑हि॒ स्वध॑येहि पि॒तॄनुप॑ प्र॒जया॒ऽस्मानि॒- हाव॑ह^{(११)}। ^{(१२)}मैवं मा॑ङ्स्ता प्रिये॒ऽहं दे॒वी स॒ती पि॑तृ-
मृतस्य सम्बन्धिनि हे ‘सयावरि’, ‘अघानि’ पापानि, ‘अपैतु’ अपनोद्यैव, ‘मृज्महे’ अस्मान् शोधयामः, “नः” अस्माकं, ‘जरसः’ वयोहानेः, ‘पुरा’, ‘अपरः’ पाप्मा कश्चिदपि, ‘यथा’, ‘नायति’ नागच्छति, तथा मृज्महे इति पूर्वत्रान्वयः ।
कल्पः । अथास्याः प्राणान्विस्रंसमानानानुमन्त्रयते, पुरुषस्य स- यावरि वि ते प्राणमसिस्रसं । शरीरेण महीमिहि स्वधयेहि पितॄनुप प्रजयाऽस्मानिहावह इति । (११मन्त्रः) । हे ‘पुरुषस्य’, ‘सयावरि’ राजगवि, ‘ते’ तव, ‘प्राणं’, ‘व्यसिस्रसं’ विस्रस्तं शिथिलं कृत- वानस्मि । त्वं ‘शरीरेण’, ‘महीं’ भूमिं, ‘इहि’ प्राप्नुहि । ‘स्वधया’ अन्नेन हविःस्वरूपेण, यद्वा अमृतवाची स्वधाशब्दः, अमृतेन जीवरूपेण, ‘पितॄन्’, ‘उपेहि’ । ‘इह’ अस्मिन् लोके, ‘प्रजया’ पुत्रादिकया सह, ‘अस्मान्’, ‘आवह’ क्षेमं प्रापय ॥
कल्पः । उपोत्थाय* पांसूनवमृशन्ते, मैवं माङ्स्ता प्रियेऽहं देवी सती पितृलोकं यदेषि । विश्ववारा नभसा संव्ययन्त्युभौ नो लोकौ पयसाऽभ्यावृत्स्व इति । (१२मन्त्रः ।) हे ‘प्रिये’ राजगवि, ‘अहं’, ‘एवं’ हतास्मीति, ‘मा माङ्स्ता’ मनसि मननं मा कार्षीः,
* उदादायेति E चिह्नितपुस्तकपाठः ।