तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 664, कुल 940 में से
संदर्भ में पढ़ें६ प्रपाठके १ अनुवाकः । ६५१
लो॒कं यदेषि॑ । वि॒श्ववा॑रा॒ नभ॑सा॒ संव्यय॑न्त्यु॒भौ नौ॑ लो॒कौ पय॑सा॒ऽभ्याव॑वृत्स्व⁽१२⁾ ॥ २ ॥
⁽१३⁾इ॒यं नारी॑ पतिलो॒कं वृ॑णा॒ना निप॑द्यत॒ उप॑ त्वा
'यत्' यस्मात्कारणात्, त्वं 'देवी' देवतात्मिका, 'सती', 'पितृलोकं', प्रति 'एषि' आगच्छसि । 'विश्ववारा' सर्वैर्वरणीया, प्रार्थनीया, 'नभसा' आकाशमार्गेण, 'संव्ययन्ती' द्युलोकं संवृण्वती । हे राजगवि तथाविधा त्वं 'नः' अस्माकं, 'उभौ' 'लोकौ' एतल्लोकपरलोकौ, 'पयसा' क्षीरेण, 'अभ्याववृत्स्व' अभित आवृत्तौ कुरु, क्षीरपूर्णौ कुरु इत्यर्थः ॥
कल्पः । अथास्य भार्यामुपसंवेशयति, इयं नारी पतिलोकं वृणाना निपद्यत उप त्वा मर्त्य प्रेतं। विश्वं पुराणमनुपालयन्ती तस्यै प्रजां द्रविणं चेह धेहि इति । (१३ मन्त्रः।) हे 'मर्त्य' मनुष्य, या 'नारी' मृतस्य तव भार्या, सा 'पतिलोकं', 'वृणाना' कामयमाना, 'प्रेतं' मृतं त्वां, 'उपनिपद्यते' समीपे नितरां प्राप्नोति । कीदृशी, 'पुराणं विश्वं' अनादिकालप्रवृत्तं कृत्स्नं स्वोधर्म, 'अनु'क्रमेण, 'पालयन्ती', पतिव्रतानां स्त्रीणां पत्या सहैव वासः परमो धर्मः । 'तस्यै' धर्मपत्न्यै, त्वं 'इह' लोके, निवासार्थमनुज्ञां दत्वा 'प्रजां' पूर्वं विद्यमानां पुत्रादिकां, 'द्रविणं' धनं, 'च', 'धेहि' सम्पादय, अनुजानीहीत्यर्थः ॥