तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 665, कुल 940 में से
संदर्भ में पढ़ें६५२ तैत्तिरीये आरण्यके
मर्त्य॒ प्रेत॑म् । विश्वं॑ पु॒राणमनु॑पा॒लय॑न्ती॒ तस्यै॑ प्र॒जां द्रवि॑ण॒ञ्चेह धे॑हि^{(१३)} । ^{(१४)}उदी॑र्ष्व नार्य॒भि जी॑वलो॒कम॑- तासु॑मे॒तमुप॑शेष॒ एहि॑ । ह॒स्त॒ग्रा॒भस्य॑ दिधि॒षोस्त्वेमेत- त्पत्यु॑र्जनि॒त्वम॒भिसम्ब॑भूव^{(१४)} । ^{(१५)}सुव॑र्णँ॒ हस्ता॑दा॒द- दाना मृ॒तस्य॑ श्रियै॒ ब्रह्म॑णे॒ तेज॑से॒ बला॑य । अत्रै॑व त्व- मि॒ह व॒यꣳ सु॒शेवा॒ विश्वा॒ स्पृधो॑ अ॒भिमा॑तीर्जयेम^{(१५)} ।
कल्पः । तां प्रति गतः सव्ये पाणावभिपाद्योत्थापयति, उदीर्ष्व नार्यभि जीवलोकमितासुमेतमुपशेष एहि । हस्तग्राभस्य दिधिषोस्त्वेमेतत्पत्युर्जनित्वमभिसम्भूव इति । (१४ मन्त्रः) । हे 'नारि', त्वं 'इतासुं' गतप्राणं, 'एतं' पतिं, 'उपशेषे' उपेत्य शयनं करोषि, 'उदीर्ष्व' अस्मात्पतिसमीपादुत्तिष्ठ, 'जीवलोकमभि' जीवन्तं प्राणिसमूह मभिलक्ष्य, 'एहि' आगच्छ । 'त्वं', 'हस्तग्राभस्य' पाणिग्राहवतः, 'दिधिषोः' पुनर्विवाहेच्छोः, 'पत्युः', 'एतत्', 'जनित्वं' जायात्वं, 'अभिसम्भूव' आभिमुख्येन सम्यक् प्राप्नुहि ॥
कल्पः । सुवर्णेन हस्तौ सम्मार्ष्टि, सुवर्णँ हस्तादाददाना मृतस्य श्रियै ब्रह्मणे तेजसे बलाय । अत्रैव त्वमिह वयꣳ सुशेवा विश्वा स्पृधो अभिमातीर्जयेम इति । (१५ मन्त्रः) । हे नारि त्वं 'श्रियै' सम्पदर्थं, 'ब्रह्मणे' ब्राह्मणजात्यर्थं, 'तेजसे' कान्त्यर्थं, 'बलाय' शरीरबलार्थं, 'मृतस्य' पुरुषस्य, 'हस्तात्', 'सुवर्णं', 'आददाना', सती 'अत्रैव' लोके, तिष्ठ । 'वयं', अपि 'इह' लोके, 'सुशेवाः' सुखं