तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 666, कुल 940 में से
संदर्भ में पढ़ें६ प्रपाठके १ अनुवाकः । ६५३
(१६)धनु॒र्हस्ता॑दाददा॒ना मृ॒तस्य॑ श्रि॒यै क्ष॒त्रायौज॑से॒ बला॑य । अत्रै॒व त्वमि॒ह वय॑ꣳ सु॒शेवा॒ विश्वा॒ स्पृधो॑ अ॒भिमा॑तीर्जयेम(१६) । (१७)म॒णिꣳ हस्ता॑दाददा॒ना मृ॒तस्य॑ श्रि॒यै विशे॑ पु॒ष्ट्यै बला॑य । अत्रै॒व त्वमि॒ह वय॑ꣳ सु॒शेवा॒ विश्वा॒ स्पृधो॑ अ॒भिमा॑तीर्जयेम(१७) ॥ ३ ॥
(१८)इ॒मम॑ग्ने च॒मसं॒ मा विजी॑ह्वरः प्रि॒यो दे॒वाना॑-
सेवमानाः सन्तः, ‘स्पृधः’ अस्माभिः सह स्पर्द्धमानाः, ‘विश्वाः’ ‘अभिमातीः’ सर्वान् शत्रून्, ‘जयेम’ ॥
कल्पः । धनुर्हस्तादादाना मृतस्य श्रियै क्षत्रायौजसे बलाय । अत्रैव त्वमिह वयꣳ सुशेवा विश्वा स्पृधो अभिमातीर्जयेम इति राजन्यस्य । मणिꣳ हस्तादाददना मृतस्य श्रियै विशे पुष्ट्यै बलाय । अत्रैव त्वमिह वयꣳ सुशेवा विश्वा स्पृधो अभिमातीर्जयेम इति वैश्यस्य इति । (१६, १७ मन्त्रौ) । एतौ मन्त्रौ पूर्वोक्तब्राह्मणमन्त्रवत् व्याख्येयौ ॥
कल्पः। अथ मुखादिष्वस्य पात्राणि नियुञ्ज्यादिति दध्ना सर्पिर्मिश्रेण पूरयित्वा मुखे अग्निहोत्रहवणीं, नासिकयोः स्रुवौ, अक्षणोर्हिरण्यशकलौ, आज्यस्रुवौ वा, प्रत्यस्य कर्णयोः प्राशित्रहरणं, भित्वा शिरसि कपालानि, ललाट एककपालं, शिरस्तः प्रणीताप्रणयनं, चमसन्निदधाति इति, इममग्ने चमसं मा विजीह्वरः प्रियो देवानामुत सोम्यानां । एष यज्ञमसो देवयपानस्तस्मिन् देवा अमृता मादयन्तामिति । (१८ मन्त्रः) हे ‘अग्ने’, ‘इमं चमसं’,