भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 669, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 669

६५६ तैत्तिरीये आरण्यके

व॒शनीर्भव॑ति।(२१)। (२२)सूर्य॑न्ते॒ चक्षु॑र्गच्छतु॒ वात॑मा॒त्मा द्याञ्च॑ गच्छ पृथि॒वीं च॒ धर्म॑णा । अ॒पो वा॑ गच्छ॒ यदि॑ तत्र॑ ते हि॒तमोष॑धीषु॒ प्रति॑तिष्ठा॒ शरी॑रैः।(२२)। (२३)अ॒जोऽ-

प्राप्नोति, 'अथा' अनन्तरं, 'देवानां', 'वशनीर्भवति' वशं प्राप्तो भवति ॥

कल्पः । अत्र षष्ठोतारं व्याचष्टे, सूर्यन्ते चक्षुर्गच्छतु वातमात्मा द्याञ्च गच्छ पृथिवीञ्च धर्मणा । अपो वा गच्छ यदि तत्र ते हितमोषधीषु प्रतितिष्ठा शरीरैः इति । (१ २ मन्त्रः ।) सूर्यन्ते इत्यादिमन्त्रस्य षष्ठोता इति नामधेयं । हे प्रेत 'ते' त्वदीयं, 'चक्षुः', इन्द्रियं 'सूर्य', 'गच्छतु' । 'आत्मा' प्राणः, बाह्यवायुं 'गच्छतु' । त्वमपि 'धर्मणा' सुकृतेन, तत्फलं भोक्तुं द्युलोकं भूलोकं च 'गच्छ', 'वा', जलं 'गच्छ'* । चक्षुरादीन्द्रियसामर्थ्यं पुनर्देहग्रहणपर्यन्तं, तत्तदधिष्ठातृदेवता तया द्युलोकादिषु शरीरे स्वीकृते पश्चात् त्वामेव प्राप्स्यति । यत्र यस्मिँल्लोके 'ते' तव, 'हितं' सुखमस्ति, 'तत्र', गत्वा 'ओषधीषु', प्रविश्य तद्द्वारा पितृदेहमातृदेहो प्रविश्य तत्र तत्रोचितानि शरीराणि स्वीकृत्य तैः 'शरीरैः', प्रतिष्ठितो भव ।

कल्पः । अत्र एतं अजं चित्यन्ते अबलेन शूल्बेन बध्नाति, अजोऽभागस्तपसा तन्तपस्व । तन्ते शोचिस्तपतु तन्ते अर्चिः । यास्ते शिवास्तनुवो जातवेदस्ताभिर्वहेमँ सुकृतां यत्र लोकाः इति । (१ ३ मन्त्रः ।) यत्र चितेः पश्चिमभागे समीपे केनचित् अबलेन

* 'अपो वा गच्छ', इति K चिह्नितपुस्तकपाठः

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद) · पृष्ठ 669, कुल 940 में से · BharatKosha