तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 681, कुल 940 में से
संदर्भ में पढ़ें६६८ तैत्तिरीये आरण्यके
र्वत॑नुं पुनामि^{(११)} । ^{(१२)}या रा॒ष्ट्रात् प॒न्नाद॒पय॑न्ति॒ शाखा॑ अ॒भिमृ॑ता नृ॒पति॑मि॒च्छमा॑नाः। धातु॒स्ताः सर्वाः॒ पव॑नेन पू॒ताः प्र॒जया॒ऽस्मान् र॒य्या वर्च॑सा॒ सꣳसृ॑जाथ^{(१२)}। ^{(१३)}उ॒द्व॒यन्त॑म॑स॒स्परि॒पश्य॑न्तो॒ ज्योति॒रुत्त॑रं। दे॒वं दे॑व॒त्रा
न भवति तथा शोधितवान् । ‘तेन’ शुल्बेन, ‘अहं’, प्रेतस्य ज्ञातिं ‘मां’ मद्रूपां, ‘सर्वतनुं’ कृत्स्नशरीरं, ‘पुनामि’ शोधयामि ॥
कल्पः । जघन्यो व्युदस्यति, या राष्ट्रात् पन्नादपयन्ति शाखा अभिमृता नृपतिमिच्छमानाः। धातुस्ताः सर्वाः पवनेन पूताः प्रजयाऽस्मान् रय्या वर्चसा सꣳसृजायेति। (१२ मन्त्रः ।) शुल्बस्याधस्तात् ये ज्ञातयो निर्गच्छन्ति तेषां मध्ये पश्चात् निर्गच्छन् दहनकर्ता पुरुषः शाखाद्वयमनेन मन्त्रेण व्युदस्येत्। ‘अभिमृताः’ अनुक्रमेण पूर्वं मृताः पुरुषाः, ‘नृपतिमिच्छमानाः’ मनुष्याणां पालकं स्वामिनमिच्छन्तः, ‘पन्नात्’ प्राप्तात्, ‘राष्ट्रात्’, ‘याः’ ‘शाखाः’, ‘अपयन्ति’ अपसारयन्ति, ‘ताः’ सर्वाः शाखाः, ‘धातुः’, सम्बन्धिना ‘पवनेन’ शुद्धिहेतुना, ‘पूताः’ शोधिताः । तादृश्यः हे शाखाः, ‘अस्मान्’, प्रजादिभिः संयोजयत ॥
कल्पः । उदयन्तमसस्परीत्यादित्यमुपस्थायेति । पाठस्तु । (१३)“उद्वयन्तमसस्परि ॰ ज्योतिरुत्तमं”(१३) इति । ‘वयं’, ‘तमसः उत्तरं ज्योतिः’ तमसो विनाशकत्वेन उत्कृष्टं सूर्यसम्बद्धं ज्योतिः,