भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 749, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 749
७६८तैत्तिरीये आरण्यके

ज्ञान॒मयः॑ । तेनै॒ष पूर्णः॑ । स वा ए॒ष पु॒रुष॑विध ए॒व । तस्य॑ पुरु॒षवि॒धतां॑ । अन्वयं॑ पुरु॒षवि॒धः । तस्य॒ श्रद्धै-व॒ शिरः॑ । ऋ॒तं दक्षि॑णः प॒क्षः । स॒त्यमुत्त॑रः प॒क्षः । यो॑ग आ॒त्मा । महः॒ पुच्छं॒ प्रति॑ष्ठा । तद॒प्येष॒ श्लोको॑ भवति ॥ अनु० ४ ॥


अथ पञ्चमोऽनुवाकः ।

वि॒ज्ञानं॑ य॒ज्ञं त॑नुते । कर्मा॑णि तनु॒तेऽपि॑ च । वि॒ज्ञानं॑ दे॒वाः सर्वे॑ । ब्रह्म॒ ज्येष्ठ॒मुपा॑सते । वि॒ज्ञानं॑ ब्रह्म॒ चेद्वेद॑ । तस्मा॒चेन्न प्रमाद्य॑ति । श॒रीरे॑ पाप्म॑नो हि॒त्वा । सर्वान् कामान्त्स॒मश्नु॑त इ॒ति । तस्यैष एव शा॒रीर॑ आ॒त्मा । यः पूर्व॑स्य । तस्माद्वा ए॒तस्माद्वि॑ज्ञान॒मया॑त् । अ॒न्योऽन्तर आ॒त्माऽऽन॑न्द॒मयः॑ । तेनै॒ष पूर्णः॑ । स वा ए॒ष पु॒रुष॑विध ए॒व । तस्य॑ पुरु॒षवि॒धतां॑ । अन्वयं॑ पुरु॒षवि॒धः । तस्य प्रि॒यमे॒व॒ शिरः॑ । मोदो॑ दक्षि॑णः प॒क्षः । प्र॒मोद॒ उत्तरः॑ प॒क्षः । आन॑न्द आ॒त्मा । ब्रह्म॒ पुच्छं॒ प्रति॑ष्ठा । तद॒प्येष॒ श्लोको॑ भवति ॥ अनु० ५ ॥

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद) · पृष्ठ 749, कुल 940 में से · BharatKosha