भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 755, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 755

तैत्तिरीये आरण्यके

नवमप्रपाठके प्रथमोऽनुवाकः ।


हरिः ॐ ।

स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । तेज॒स्वि ना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै॑ । ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

भृगु॒र्वै वा॑रु॒णिः । वरु॑णं॒ पितर॒मुप॑ससार । अधी॑हि भगवो॒ ब्रह्मेति॑ । तस्मा॑ ए॒तत्प्रौ॑वाच । अन्नं॑ प्रा॒णं चक्षुः॒ श्रोत्रं॒ मनो॒ वाच॒मिति॑ । तग्ँ हो॑वाच । यतो॑ वा इ॒मानि॒ भूता॑नि॒ जाय॑न्ते । येन॒ जाता॑नि॒ जीव॑न्ति । यत्प्रय॑न्त्य॒भिसंवि॑शन्ति । तद्विजि॑ज्ञासस्व । तद्ब्रह्मेति॑ । स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा ॥ अनु० १ ॥


अथ द्वितीयोऽनुवाकः ।

अन्नं॒ ब्रह्मेति॒ व्य॑जानात् । अन्ना॒द्ध्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते । अन्ने॑न॒ जाता॑नि॒ जीव॑न्ति ।