भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 756, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 756

६ प्रपाठके ४ अनुवादः । ७४५

अन्नं॒ प्रय॑न्त्य॒भिसंवि॑श॒न्तीति॑ । तद्वि॒ज्ञाय॑ । पुन॑रे॒व वरु॑णं पि॒तर॒मुप॑ससार । अधी॑हि भगवो॒ ब्रह्मेति॑ । तꣳ हो॑वाच । तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ । स तपॊऽतप्यत । स तप॑स्त॒प्त्वा ॥ अनु० २ ॥


अथ तृतीयोऽनुवाकः ।

प्रा॒णो ब्रह्मेति॒ व्य॑जानात् । प्रा॒णाद्ध्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते । प्रा॒णेन॒ जाता॑नि जी॒वन्ति॑ । प्रा॒णं प्रय॑न्त्य॒भिसंवि॑श॒न्तीति॑ । तद्वि॒ज्ञाय॑ । पुन॑रे॒व वरु॑णं पि॒तर॒मुप॑ससार । अधी॑हि भगवो॒ ब्रह्मेति॑ । तꣳ हो॑वाच । तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ । स तपॊऽतप्यत । स तप॑स्त॒प्त्वा ॥ अनु० ३ ॥


अथ चतुर्थोऽनुवाकः ।

मनो॒ ब्रह्मेति॒ व्य॑जानात् । मन॑सो॒ ह्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते । मन॑सा॒ जाता॑नि जी॒वन्ति॑ । मनः॒ प्रय॑न्त्य॒भिसंवि॑श॒न्तीति॑ । तद्वि॒ज्ञाय॑ । पुन॑रे॒व वरु॑णं पि॒तर॒मुप॑ससार । अधी॑हि भगवो॒ ब्रह्मेति॑ ।

4 x 2