तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 757, कुल 940 में से
संदर्भ में पढ़ें७४६ तैत्तिरीये आरण्यके
तꣳ हो॑वाच । तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ । स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा ॥ अनु० ४ ॥
अथ पञ्चमोऽनुवाकः ।
वि॒ज्ञानं॒ ब्रह्मेति॒ व्य॑जानात् । वि॒ज्ञाना॒द्धये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते । वि॒ज्ञाने॑न जा॒तानि॒ जीव॑न्ति । वि॒ज्ञानं॒ प्रय॑न्त्य॒भिसंवि॑श॒न्तीति॑ । तद्वि॒ज्ञाय॑ । पुन॑रे॒व वरु॑णं पि॒तर॒मुप॑ससार । अधी॑हि भगवो॒ ब्रह्मेति॑ । तꣳ हो॑वाच । तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ । स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा ॥ अनु० ५ ॥
अथ षष्ठोऽनुवाकः ।
आ॒न॒न्दो ब्रह्मेति॒ व्य॑जानात् । आ॒नन्दा॒द्धये॑व ख॒ल्विमा॑नि॒ भूता॑नि॒ जाय॑न्ते । आ॒नन्दे॑न जा॒तानि॒ जीव॑न्ति । आ॒नन्दं॒ प्रय॑न्त्य॒भिसंवि॑श॒न्तीति॑ । सैषा भा॒र्ग॑वी वा॑रु॒णी वि॒द्या । प॒र॒मे व्योम॒न्प्रति॑ष्ठिता । स य ए॒वं वेद॒ प्रति॑तिष्ठति । अन्न॑वानन्ना॒दो भ॑वति ।