तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 758, कुल 940 में से
संदर्भ में पढ़ें६ प्रपाठके ८ अनुवाकः। ७४१
म॒हान् भ॑वति प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेन॑ । म॒हान् की॒र्त्त्या ॥ अनु० ६ ॥
अथ सप्तमोऽनुवाकः ।
अन्नं॒ न नि॑न्द्यात् । तद्व्र॒तं । प्रा॒णो वा अन्न॑म् । शरी॑रम॒न्नाद॑म् । प्रा॒णे शरी॑रं प्रति॑ष्ठितं । शरी॑रे प्रा॒णः प्रति॑ष्ठितः। तदे॒तदन्न॒मन्ने॒ प्रति॑ष्ठितं । स य ए॒तदन्न॒मन्ने॒ प्रति॑ष्ठितं॒ वेद॒ प्रति॑तिष्ठति । अन्न॑वानन्ना॒दो भ॑वति । म॒हान् भ॑वति । प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेन॑ । म॒हान् की॒र्त्त्या ॥ अनु० ७ ॥
अथाष्टमोऽनुवाकः ।
अन्नं॒ न परि॑चक्षीत । तद्व्र॒तं । आपो॒ वा अन्न॑म् । ज्योति॑रन्ना॒दं । अ॒प्सु ज्योतिः॒ प्रति॑ष्ठितं । ज्योति॒ष्यापः॒ प्रति॑ष्ठिताः । तदे॒तदन्न॒मन्ने॒ प्रति॑ष्ठितं । स य ए॒तदन्न॒मन्ने॒ प्रति॑ष्ठितं॒ वेद॒ प्रति॑तिष्ठति । अन्न॑वानन्ना॒दो भ॑वति । म॒हान् भ॑वति प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेन॑ । म॒हान् की॒र्त्त्या ॥ अनु० ८ ॥