भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 759, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 759

७४८ तैत्तिरीये आरण्यके

अथ नवमोऽनुवाकः ।

अन्नं॒ बहु॑ कु॒र्वीत॑ । तद्ब्र॒तम् । पृ॒थि॒वी वा अन्न॑म् । आ-
का॒शोऽन्ना॑दः । पृ॒थि॒व्यामा॑का॒शः प्रति॑ष्ठितः । आ-
का॒शे पृ॑थि॒वी प्रति॑ष्ठिता । तदे॒तदन्न॒मन्ने॒ प्रति॑ष्ठितम् ।
स य ए॒तदन्न॒मन्ने॒ प्रति॑ष्ठितं॒ वेद॒ प्रति॑तिष्ठति । अ-
न्न॑वा॒नन्ना॑दो भ॑वति । म॒हान् भ॑वति प्र॒जया॑ प॒शु-
भि॑र्ब्रह्मवर्च॒सेन॑ । म॒हान् की॒र्त्त्या ॥ अनु० ९ ॥


अथ दशमोऽनुवाकः ।

न कञ्चन वस॒तौ प्र॒त्याच॑क्षीत । तद्ब्र॒तम् । तस्मा-
द्यया कया च वि॒धया॑ ब॒ह्वन्नं॑ प्राप्नुयात् । अराध्यस्मा
अन्न॒मित्याच॑क्षते । ए॒तद्वै मुखतो॑ऽन्नꣳ राद्ध॑म् । मुख-
तो॑ऽस्मा॒ अन्नं॑ꣳ राध्यते । ए॒तद्वै मध्यतो॑ऽन्नꣳ राद्ध॑म् ।
मध्य॒तो॑ऽस्मा॒ अन्नं॑ꣳ राध्यते । ए॒तद्वा अ॒न्ततो॑ऽन्नꣳ
राद्ध॑म् । अन्त॒तो॑ऽस्मा॒ अन्नं॑ꣳ रा॒ध्यते ॥ १ ॥
य ए॒वं वेद॑ । क्षेम॒ इति॑ वा॒चि । यो॒गक्षे॒म इति॑
प्रा॒णापा॒नयोः॑ । कर्मेति॒ हस्त॑योः । गति॒रिति॑ पाद-