भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 760, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 760

६ प्रपाठके १० अनुवाकः । ७४६

योः । विमुक्तिरिति॒ पायौ । इति मानुषीः समा॒ज्ञाः । अथ दैवीः। तृप्ति॒रिति वृ॒ष्टौ । बल॒मिति वि॒द्युति ॥ २ ॥

यश॒ इति प॒शुषु । ज्योति॒रिति नक्ष॑त्रेषु । प्रजातिरमृतमानन्द॒ इत्युपस्थे॑ । सर्व॒मित्याका॒शे । तत्प्रतिष्ठेत्युपासीत । प्रतिष्ठा॑वान् भवति । तन्मह॒ इत्युपासीत॑ । म॒हान् भवति । तन्मन॒ इत्युपासीत॑ । मान॑वान् भवति ॥ ३ ॥

तन्नम॒ इत्युपासीत॑ । नम्यन्ते॑ऽस्मै का॒माः । तद्ब्रह्मेत्युपासीत॑ । ब्रह्म॑वान् भवति । तद्ब्रह्मणः परिमर इत्युपासीत॑ । पर्य्येनं॒ म्रियन्ते द्विषन्तः॑ स॒पत्नाः । परि येऽप्रिया॑ भ्रातृ॒व्याः । स यश्चायं पुरुषे । यश्चासावादि॒त्ये । स एकः॑ ॥ ४ ॥

स य॑ एवं॒वित् । अस्माल्लोकात्प्रेत्य॑ । एतमन्नमयमात्मानमुपसङ्क्रम्य॑ । एतं प्राणमयमात्मानमुपसङ्क्रम्य॑ । एतं मनोमयमात्मानमुपसङ्क्रम्य॑ । एतं विज्ञानमयमात्मानमुपसङ्क्रम्य॑ । एतमानन्दमयमात्मानमुपसङ्कम्य॑ । इमाँल्लोकान् कामान्नी कामरूप्यनुसञ्चरन्॑ । एतत्साम गायन्नास्ते । हा३ वु हा३ वु हा३ वु॑ ॥ ५ ॥