तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 761, कुल 940 में से
संदर्भ में पढ़ें७५० तैत्तिरीये आरण्यके
अ॒हमन्न॑(१)* म॒हमन्न॑(१)* म॒हमन्नं॑(१)* । अ॒हमन्ना॒दो(२)* ऽअ॒हमन्ना॒दो(२)* ऽअ॒हमन्ना॒दः॑ । अ॒हꣵ श्लो(१)*क॒कृदहꣵ श्लो(१)*कृदहꣵ श्लो(१)*कृत् । अ॒हमस्मि प्रथमजा ऋ॒ता३स्य॑ । पूर्वं॑ दे॒वेभ्यो॑ऽमृतस्य ना३भा॒यि॑ । यो मा ददा॑ति॒ स इ॒देव मा३ऽऽवाः॑ । अ॒हमन्न॒मन्न॒मद॑न्त॒मा३ऽद्मि॑ । अ॒हं विश्वं॒ भुव॑नम॒भ्य॑भ॒वा३म् । सुव॒र्न ज्योतीः॑† । य ए॒वं वेद॑ । इत्युप॒निष॑त् ॥ ६ ॥
अनु० १० ॥
राध्यते, विद्युति, मानवान् भवति, एकः, हा३वु, य एवं वेद, एकञ्च‡ ॥
भृगुः, तस्मै, यतो वै, विशन्ति तद्विजिज्ञासस्व तत्, त्रयोदश(१) । अन्नं,(२) । प्राणः,(३) । मनः,(४) । विज्ञानं, तद्विज्ञाय, तं, तपसा, द्वादश, द्वादश,(५) । आनन्दः, इति, सैषा, दश,(६) । अन्नं न निन्द्यात्, प्राणः, शरीरं,(७) । अन्नं न परिचक्षीत, आपः,
* एते अङ्काः B, J चिह्नितपुस्तकद्वये न सन्ति ।
† ज्योतिरिति ह्रस्वेकारान्तः पाठो भाष्यसम्मतः ।
‡ राध्यते इत्याद्यनुवाकसङ्ग्रहः B, J चिह्नितपुस्तकद्वये नास्ति ।