भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 787, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 787

७७६ तैत्तिरीये आरण्यके

स्व॒स्ति नौ॑ म॒घवा॑ करोतु हन्तु॑ पा॒प्मानं॒ योऽस्मा- न्द्वेष्टि॑ । सोमा॑न॒ꣳ स्वर॑णं कृणुहि ब्रह्मणस्पते । क॒क्षी- वन्तं॒ य औशि॒जम् । शरीरं॑ य॒ज्ञशम॑लं कुसी॑द॒ तस्मि॑न्त्सी- दतु॒ योऽस्मान्द्वेष्टि॑ । चर॑णं प॒वित्रं॒ वित॑तं पुरा॒णं येने॑ पूतस्तर॑ति दुष्कृ॒तानि॑ । तेने॑ प॒वित्रे॑ण शु॒द्धेन॑ पू॒ता अति॑पा॒प्मान॒मरा॑तिन्तरेम । स॒जोषा॑ इन्द्र॒ सग॑णो म॒रुद्भिः॒ सोमं॑ पिब वृत्रहञ्शूर वि॒द्वान् । ज॒हि शत्रू॒ꣳ रप॒मृधो॑ नु॒दस्वाथाभ॑यं कृणुहि वि॒श्वतो॑ नः^{(४४)। (४५)*}सु- मि॒त्रा न॒ आप॒ ओष॑धयः सन्तु दुर्मि॒त्रास्तस्मै॑ भूया- सुर्योऽस्मान्द्वेष्टि॒ यञ्च॑ व॒यं द्वि॒ष्मः^{(४५)} । ^{(४६)}आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन ॥ ११ ॥


नाभिदघ्ने जले प्रविश्य जलाभिमन्त्रणमन्त्रमाह । ^{(४५)}“सु- मित्रा न आपः • यं च वयं द्विष्मः”^{(४५)*} इति । या एताः ‘आपः’, ता एताः, तज्जन्या व्रीहियवाद्योषधयः,’ च ‘नः’ अस्मान् प्रति, ‘सुमित्राः’ स्नानपानभोजनादावनुकूलाः, ‘सन्तु’ । ‘यः’ शत्रुः,


* असमल्लब्धचतुर्षु मूलपुस्तकेषु अङ्कानुक्रमेण मन्त्रा लिखिताः । परन्तु भाष्यकारः प्रथमं ४७ मन्त्रं व्याख्याय ततः ४५ मन्त्रं व्याख्यातवान् । अत एवात्र मन्त्रक्रमस्थापनाय भाष्यपाठव्यतिक्रमः कृतोऽस्माभिः ।