तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 81, कुल 940 में से
संदर्भ में पढ़ें७६ तैत्तिरीये आरण्यक
मृ॒त्वां अ॒वाहा॑: । तमू॑हथुर्नौ॒भिरा॒त्मन्व॑ती॑भिः । अ॒न्त॒-
रि॒क्षप्रुद्भि॒रपो॑दकाभिः^(५) ॥ २ ॥
^(६)ति॒स्रः क्षपा॑स्त्रि॒रहा॑ऽतिव्र॒जद्भिः॑ । नास॑त्या भु॒ज्यु-
मूहथुः पत॒ङ्गैः । स॒मु॒द्रस्य॒ धन्व॑न्ना॒र्द्रस्य॑ पा॒रे । त्रि॒भी र-
'भुज्युं' पालकं, 'तं' उदकसङ्घं, 'ऊहथुः' वहथः, सम्पादयथः । कीदृशमुदकसङ्घं, 'नौभिः', तरणीयमिति शेषः । कीदृशीभि- र्नौभिः, 'आत्मन्वतीभिः' दृढस्वरूपयुक्ताभिः, 'अन्तरिक्षप्रुद्भिः' भूमिस्पर्शमन्तरेण जलस्योपर्यन्तरिक्षे प्लवनशीलाभिः, 'अपोद- काभिः' उदकप्रवेशरहिताभिः, निश्छिद्राभिरित्यर्थः । अश्विनो रुदकस्य वहने दृष्टान्तः, 'त्युग्रः' अत्युग्रो मूर्खः, 'कश्चित्' पुमान्, 'ममृवान्' मरणं प्राप्यमाणोऽपि, 'रयिं' धनं, 'न', प्रयच्छति किन्तु 'अवाहाः' आवहत्येव, यद्वा स्वयमेवापहरति । यथा स लुब्धोऽत्यादरेण धनं सम्पादयति, एवमश्विनावप्यादरेण वृष्टिं सम्पादयत इत्यर्थः ॥
अथ षष्ठीमाह । ^(६)“तिस्रः • षडश्वैः”^(६) इति । 'नास- त्या' असत्यभाषणरहितावश्विनौ देवौ, 'तिस्रः क्षपाः' रात्रित्रयं, 'त्रिरहाः' अहस्त्रयञ्च नैरन्तरेण, 'अतिव्रजद्भिः' अतिशयेन गच्छद्भिः, 'पतङ्गैः' पक्षिषदृशैरितस्ततः सञ्चारिभिर्मेघैः, 'भुज्युं' पालकं जलसमूहं, 'ऊहथुः' युवां वहथः । कुत्रदेश इति तदुच्यते । 'आर्द्रस्य' जलपूर्णस्य, 'समुद्रस्य', 'पारे' परभागे,