तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 818, कुल 940 में से
संदर्भ में पढ़ें१० प्रपाठके १० अनुवाकः। ८०७
ऋ॒त॒जा अ॑द्रि॒जा ऋ॒तं बृ॒हत्^(१)। [*^(७)यस्माज्जाता॒ न परा॑ नैव किञ्च॒नास॒ य आ॒विवेश॒ भुव॑नानि॒ विश्वा॑ ।
मनुष्येषु कर्माधिकारिजीवरूपेण सीदतीति 'नृषत्' । वरे श्रेष्ठे क्षेत्रे काशीद्वारावत्यादौ पूजनीयदेवरूपेण सीदतीति 'वरसत्' । ऋते सत्ये वैदिके कर्मणि फलरूपेण सीदतीति 'ऋतसत्' । व्योम्नि आकाशे नक्षत्रादिरूपेण सीदतीति 'व्योमसत्' । अद्भ्यो नदीसमुद्रादिगताभ्यः शङ्खमकरादिरूपेण जायत इति 'अब्जाः' । गोभ्यः क्षीरादिरूपेण जायत इति 'गोजाः' । ऋतं सत्यवचनं तस्मात् कीर्त्तिरूपेण जायत इति 'ऋतजाः' । अद्रिभ्यः पर्वतेभ्यो वृक्षादिरूपेण जायत इति 'अद्रिजाः' । हंस इत्यारभ्य अद्रिजा इत्यन्तेनोक्तं यज्जगदस्ति तज्जगत् 'ऋतं' सत्यं, 'बृहत्' ब्रह्म, अज्ञानिदृष्ट्या जगद्रूपेण भासमानं सर्वं ज्ञानिदृष्ट्या ब्रह्मैवेत्यर्थः ॥
सप्तमीमृचमाह । ^(७)“यस्माज्जाता ० स षोडशी”^(७) इति । हंसादेः सर्वस्य जगतो ब्रह्मरूपत्वं यदुक्तं तदत्र प्रतिपाद्यते । ब्रह्मव्यतिरिक्तं वस्तु किञ्चिदस्तीति वदन्वादी प्रष्टव्यः । किमचेतनं जगद् ब्रह्मव्यतिरिक्तं ? आहोस्वित् चेतनो जीवः । अचेतनत्वपक्षेऽपि किं सृष्टेरूर्द्धभावि वस्तु ब्रह्मव्यतिरिक्तं उत पूर्वभावि । न तावदूर्द्धभाविनो व्यतिरिक्तत्वमित्युच्यते। 'जाता' सृष्टेरूर्द्धमुत्पन्ना
* [ ] एतच्चिह्नक्रोडीकृताः सप्तमन्त्रा अस्मत्सम्बन्धेषु B, J, N, O चिह्नितेषु मूलपुस्तकेषु न पठिताः। एतेषामत्र निवेशे दशतिसङ्ख्या वृद्धिर्जायते । परन्तु E, M, Q चिह्नितभाष्यपुस्तकत्रयेषु एषां व्याख्यानात् अत्र परिगृहीताः ।
5 F