तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 883, कुल 940 में से
संदर्भ में पढ़ें८४२ तैत्तिरीये आरण्यके
अथ एकपञ्चाशोऽनुवाकः।
(१)प्रा॒णा॒पा॒न॒व्या॒नो॒दा॒न॒स॒मा॒ना मे॑ शुध्यन्तां॒ ज्योति॑र॒हं वि॒रजा॑ वि॒पाप्मा॑ भूयास॒ँ स्वाहा॑(१) ॥ अनु० ५१ ॥
अथ एकपञ्चाशोऽनुवाकः।
ब्रह्मज्ञानप्रतिबन्धकानि यानि महापातकानि तन्निवृत्तये जप्यस्त्रिसुपर्णमन्त्रास्त्रयोऽभिहितास्तत्र ब्राह्मणजातिमात्रबधो ब्रह्महत्या पञ्चसु महापातकेषु मध्ये प्रबलं महापातकं । ततोऽप्यधिकं भ्रूणहननं । तस्मादप्यधिकं वीरहननं । ईदृशानामपि निवर्त्तको यावज्जीवं त्रिसुपर्णं जपस्तत्र अर्वाचीनानां सुरापानादिपातकानां निवर्त्तक इति किमु वक्तव्यं । इत्थं प्रतिबन्धन्निवृत्युपायमुक्ता ज्ञानयोग्यतायै स्वावयवशुद्ध्यर्थं होमार्थानैकादशमन्त्रानैकादशस्वनुवाकेषु क्रमेण विवक्षुराद्यं मन्त्रमाह । “(१)प्राणापान • भूयासँ स्वाहा”(१) इति । ‘प्राणादयः पञ्च वायवः प्रसिद्धाः । ते सर्वेऽपि अनेन आज्यहोमेन शुद्धा भवन्तु । ततः ‘अहं’, ‘विपाप्मा’ प्रतिबन्धकोपपापकरहितः, ‘विरजाः’ पापकारणभूतरजोगुणेनापि रहितः सन्, यद् ‘ज्योतिः’ जगत्कारणं परंब्रह्म तदस्तु, ‘भूयासं’, तदर्थमिदमाज्यं स्वाहुतमस्तु ॥
इति एकपञ्चाशोऽनुवाकः ।