तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 894, कुल 940 में से
संदर्भ में पढ़ें१० प्रपाठके ६२ अनुवाकः। ८८३
ग्नय॒ आधा॑तव्याः॑⁽८⁾ (९)अ॒ग्निहो॒त्रमित्या॑हु॒ स्तस्मा॑दग्नि- हो॒त्रे र॑मन्ते⁽९⁾ (१०)य॒ज्ञ इति॑ य॒ज्ञेन॒ हि दे॒वा दिवं॑ ग॒ता- स्तस्मा॑द्य॒ज्ञे र॑मन्ते*(१०) (११)मान॒समिति॑ विद्वाꣳ॑स॒स्तस्मा॑- द्विद्वाꣳ॑स ए॒व मान॑से रमन्ते⁽११⁾ (१२)न्यास इति॑ ब्र॒ह्मा
'अग्नयः' गार्हपत्यादयः, उत्तमा मुक्तिहेतवः 'इति', कश्चिद्वेदा- र्थपरः 'आह' । 'तस्मात्', गृहस्थैरग्नयः 'आधातव्याः', भवन्ति ॥
नवमं मतमाह । ⁽९⁾“अग्निहोत्रं ० रमन्ते”⁽९⁾ इति ! आहितेष्वग्निषु सायंम्प्रातश्चानुष्ठेयो होमः 'अग्निहोत्रं', तदुत्तमं मोक्षसाधनं 'इति', अपरः कश्चिद्वेदार्थपरः 'आह' । 'तस्मात्', केचित् 'अग्निहोत्रे रमन्ते' ।
दशमं मतमाह । ⁽१०⁾“यज्ञ इति ० तस्माद्यज्ञे रमन्ते”⁽१०⁾ । दर्शपूर्णमासज्योतिष्टोमादिकः 'यज्ञः', उत्तमो हेतुः 'इति', अपरे वेदार्थपरा मन्यन्ते । यस्मादिदानीं वर्त्तमानाः 'देवाः', पूर्वानुष्ठितेन 'यज्ञेन', 'दिवङ्गताः' स्वर्गलोकं प्राप्ताः, 'तस्मात्' कारणात्, केचन वैदिका विद्वांसः 'यज्ञे रमन्ते' ॥
एकादशं मतमाह । ⁽११⁾“मानसमिति ० मानसे रमन्ते”⁽११⁾ इति। मनसैव निष्पाद्यमुपासनं 'मानसं', तदेवोत्तमं साधनं 'इति', 'विद्वां- सः' सगुणब्रह्मविदः, मन्यन्ते । 'तस्मात्' कारणात्, केचन 'विद्वांसः' वेदगर्भोपास्तिभागतात्पर्य्यविदः, 'मानस एव', उपासने 'रमन्ते'॥
द्वादशं मतमाह । ⁽१२⁾“न्यास इति ० एवात्यरेचयत”⁽१२⁾
* यज्ञ इति यज्ञाद्धि देवास्तस्माद्यज्ञे रमन्ते इति J, N, O, चिङ्कितपुस्तकपाठः ।