तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 906, कुल 940 में से
संदर्भ में पढ़ें१० प्रपाठके ६३ अनुवाकः । ८६५
ए॒ष* पु॒रु॑षः पञ्च॒धा प॑ञ्चा॒त्मा येन॒ सर्व॑मि॒दं प्रोतं॑ पृथि॒वी चा॒न्तरि॑क्षञ्च॒ द्यौश्च॒ दिश॑श्चावान्तरदि॒शाश्च॒ स वै
परमानन्दरूपो भूत्वा, ‘ब्रह्म’ वेदान्तप्रतिपाद्यं, ‘योनिः’ जग- त्कारणं। यद्वा ‘ब्रह्मणो वेदस्य, ‘योनिः’ कारणं, तादृग्रूपः स्वयं भवति ॥
यथोक्तं सन्न्यासमेव स्तोतुं तेन सन्न्यासेन प्राप्ततत्त्वज्ञानं पुरुषं प्रशंसति । $^{(१०)}$“स वा एष पुरुषः ० सत्यो महस्वा- न्तपसोवरिष्टात्”$^{(१०)}$ इति। यः पुरुषः सन्न्यासपुरःसरं तत्त्व- ज्ञानं सम्पादयति ‘सः’, एव ‘एष पुरुषः’ सर्वात्मकः सन्, ‘पञ्चधा’ पञ्चभिः प्रकारैः, ‘पञ्चात्मा’ पञ्चविधवस्तुस्वरूपः, भवति । शब्दस्पर्शादिकं गुणपञ्चकं, पृथिव्यादिकं भूतपञ्चकं, चक्षुश्रोत्रादिकं ज्ञानेन्द्रियपञ्चकं, वाक्पाण्यादिकं कर्मेन्द्रियपञ्चकं, प्राणापाना- दिकं वायुपञ्चकं, एतावतां वस्तूनां स्वरूपभूत इत्यर्थः । यद्वा । पञ्चभिरात्मभिर्युक्तः ‘पञ्चधा’ वर्तते । तथा च पुराणे अभिहितं ।
“भूतात्मा चेन्द्रियात्मा च प्रधानात्मा तथा भवान्। आत्मा च परमात्मा च त्वमेकः पञ्चधा स्थितः” ॥ इति ॥
‘येन’ ब्रह्मस्वरूपेण पुरुषेण, ‘सर्वं’, ‘इदं’ जगत्, सूत्रे मणिगणा इव ‘प्रोतं’ प्रकर्षेण स्यूतं,† व्याप्तमित्यर्थः । तदेव सर्वं पृथिवी चेत्यादिना प्रपञ्च्यते । ‘सः’ एव पृथिव्यादिवस्तुव्यापी पुरुषः’ ‘सर्वं,’ ‘इदं’ वर्त्तमानं, ‘जगत्’, तच्छदृश्याव्यतिरेकेणाभावात्,
* स एष इति N चिह्नितपुस्तकपाठः ।
† प्रकर्षेण ओतमिति Q चिह्नितपुस्तकपाठः ।
5 R