तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 907, कुल 940 में से
संदर्भ में पढ़ें८६६ तैत्तिरीये आरण्यके
सवमि॒दं जग॑त्स॒ भूतं॒ स भव्य॑ञ्जिज्ञासक्लृ॒प्त ऋ॑तजा रयिष्ठाः श्रद्धा स॒त्यो मह॑स्वांस्त॒मसो॒वरि॑ष्टात्*(१७) । (१८)ज्ञात्वा तमे॒वं मन॑सा हृ॒दा च॒ भूयो॑ न मृ॒त्युमुप॑या-
तथा ‘भूतं’ अतीतञ्च, जगत् ‘सः’, एव । ‘भव्यं’ भविष्यदपि, जगत् स एव । ननु तत्त्ववित् पुरुषो मूढवद्धस्तपादादियुक्तदेहरूप एव दृश्यते, न तु सर्वजगत्स्वरूप इति चेत् । मैवं । यतः अयं ‘जिज्ञासक्लृप्तः’ जिज्ञासया वेदान्तविचारेण सर्वात्मकतया निश्चितो भवति । ‘ऋतजाः’ ऋतेन सत्येन प्रामाणिकेन ज्ञानेन सर्वात्मा जातः, जिज्ञासाकाले भ्रान्तिज्ञानरूपेषु पूर्वपक्षेषु निराकृतेषु प्रामाणिकेन सिद्धान्तज्ञानेन तादृशो† भवति । स च ‘रयिष्ठाः’ रयिर्धनं, गुरूपदेशः, तत्रैव तिष्ठति, न तूपदेशरहितानां प्रतीयत इत्यर्थः‡ । ईदृशस्वरूपविज्ञानस्य श्रद्धया लभ्यत्वादसौ ‘श्रद्धारूपः’ । “श्रद्धावान् लभते ज्ञानं” इति श्रुतेः । सत्यं अबाध्यं यत् ब्रह्म, तत्स्वरूपत्वादयं ‘सत्यः’ । ‘महस्वान्’ तेजस्वान्, स्वयं प्रकाशत इत्यर्थः । अत एव ‘तमसा’ संसारकारणेनाज्ञानेन, वियुक्तत्वात् उपरिष्टात् वर्त्तते§ ॥
इत्थं संन्यासपूर्वकज्ञानयुक्तं पुरुषं प्रशस्य ज्ञानफलं दर्श-
* उपरिष्ठा इति N, O, चिह्नितपुस्तकपाठः ।
† ईदृशो जातो भवति इति F चिह्नितपुस्तकपाठः ।
‡ तदुपदेशरहितानां तथा न प्रतीयत इत्यर्थः । इति Q चिह्नितपुस्तकपाठः ।
§ उपरिष्टाद्वर्त्तमान इति Q चिह्नितपुस्तकपाठः ।