भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 908, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 908

१० प्रपाठके ६३ अनुवाकः। ८५७

हि वि॒द्वान्^(१८) । ^(१९)तस्मा॒न् न्यास॑मेषां तप॑साम- तिरि॑क्तमाहु॑:^(१९) । ^(२०)वसु॑रण्वो वि॒भूर॑सि प्रा॒णे त्वम॑- सि॒ सन्धाता ब्रह्म॑न् त्वम॑सि॒ विश्व॑सृत्तेजोदा*स्त्वम॑स्य॒ग्ने-


यति । ^(१८)"ज्ञात्वा तमेवं ॰ उपयाहि विद्वान्"^(१८) इति । हे आरुणे त्वं 'तं' परमात्मानं, 'हृदा' हृत्पुण्डरीकनियमितत्वात्† हृदयरूपेण, 'मनसा', 'एवं' पूर्वोक्तसन्यासरूपसाधनप्रकारेण, 'ज्ञात्वा', 'विद्वान्' तेन ज्ञानेन युक्तः सन्, 'भूयः' पुनः, 'मृत्युं', 'न उपयाहि' मा प्राप्नुहि । ज्ञानिनो वर्त्तमानदेहपाते सति जन्माभावात् पुनर्मृत्युर्नास्तीत्यर्थः ॥

बहुधाप्रशस्तं सन्यासमुपसंहरति । ^(१९)"तस्मान् न्यासमेषां तपसामतिरिक्तमाहुः"^(१९) इति । यस्मात् परमपुरुषार्थस्यान्तरङ्गं साधनं, तस्मात् 'एषां' सत्यादीनां, 'तपसां', मध्ये सन्यासं 'अति- रिक्तं' अत्युत्कृष्टं साधनं, मनीषिणः 'आहुः' ॥

सन्यासाद्दूर्ध्वं प्रणवेनात्मनि समाधिर्विधेयः । तस्मिन् समाधौ विघ्नपरिहारार्थमादावन्तर्यामिणः सर्वकारणत्वेन स्तुतिं दर्श- यति । ^(२०)"वसुरण्वो विभूरसि ॰ ब्रह्मणे त्वा महसे"^(२०) इति । हे 'ब्रह्मन्' अन्तर्यामिन्, 'वसुरण्वः' वसूनां वस्तुतत्त्वस्य, 'रण्वः' रणिता, कथयिता, अस्मदनुग्रहार्थमुपदेष्टा, 'असि' । तथा 'विभूः' हिरण्यगर्भविराडादिविविधरूपेणोत्पन्नः, 'असि' । 'प्राणे'


* विश्वसृष्ट्कतेजोदा इति B, N, O, Q, चिह्नितपुस्तकपाठः ।
† हृत्पुण्डरीकेण नियमितत्वादिति Q, चिह्नितपुस्तकपाठः ।
R 2

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद) · पृष्ठ 908, कुल 940 में से · BharatKosha