भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 909, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 909

९६८ तैत्तिरीये आरण्यके

रंसि वर्चो॒दास्त्वम॑सि॒ सूर्य॑स्य द्यु॒म्नोदा॒स्त्वम॑सि च॒न्द्र- म॑स उपया॒मगृ॑हीतोऽसि॒ ब्रह्म॑णे त्वा॒ महसे॑⁽१०⁾ । २१)ओ॒मित्या॒त्मानं॑ युञ्जीत॑⁽११⁾ । ⁽१२⁾एतद्वै म॑होप॒निष॑दं


वायुरूपे, जीवात्मनः 'सन्धाता' संयोजयिता 'त्वमसि'। विश्वं सरति प्राप्नोतीति 'विश्वसृट्' सर्वजगद्व्यापी, 'त्वमसि'। भूलोकवर्त्तिनः 'अग्नेः', 'तेजोदाः' प्रकाशप्रदः, 'त्वमसि'। द्युलोकवर्त्तिनः 'सूर्यस्य', 'वर्चोदाः' प्रकाशप्रदः, 'त्वमसि'। तथा 'चन्द्रमसः', 'द्युम्नोदाः' प्रकाशरूपधनप्रदः, 'त्वमसि'। तथा यागेषु सोमरूपः सन् 'उपयामेन' पार्थिवेन मृण्मयदारुमयपात्रेण, 'गृहीतोऽसि'। उपयामशब्दस्य पृथिवीपरत्वं षष्ठकाण्डे मन्त्रव्याख्याने समाम्नातं, "उपयामगृहीतोऽसीत्याहेयं वा उपयामः" इति । उक्तप्रकारं सर्वकर्त्तारमन्तर्यामिणं त्वां 'महसे ब्रह्मणे' चैतन्यज्योतिस्वरूपब्रह्मतत्वाभिव्यक्त्यर्थं, भजामीति शेषः ॥

अनेन प्रकारेणान्तर्यामिणं स्तुत्वा परिहृतविघ्नस्य सन्न्यासिनः समाधिं विधत्ते । (११)“ओमित्यात्मानं युञ्जीत”(११) इति । त्रिमात्रं प्रणवमुच्चारयन् सर्ववेदान्तेषु निर्णीतं परमात्मानं चिद्रूपत्वेन चित्ते समादध्यात् ॥

समाधिसाधनमोङ्कारं प्रशंसति । (१२)“एतद्वै महोपनिषदं देवानां गुह्यं”(१२) इति । यत् प्रणवस्वरूपमस्ति 'एतत्', एव 'महोपनिषदं' महत्यो बह्व्य उपनिषदः प्रतिपादिकाः यस्य परमात्मवाचकस्य प्रणवरूपस्य तत्, 'महोपनिषदं' । अकारान्तत्वं छान्दसं ।