तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 919, कुल 940 में से
संदर्भ में पढ़ें६१० तैत्तिरीये आरण्यके
[ एतदुपनिषदः प्रारम्भे भाष्यकारेण लिखितमेतत्, यदस्याः शाखाभेदेन अनुवाकसङ्ख्याभेदो वर्त्तते । तत्र द्राविडैरस्याश्चतुःषष्टिसङ्ख्याकानुवाकाः पठ्यन्ते । आन्ध्रैरस्या अशीत्यनुवाकाः, कर्णाटकैस्तुःसप्तत्यनुवाकाः, अन्यैरेकोननवत्यनुवाकाः परिपठ्यन्ते । परन्तु अस्मत्सङ्घे विभिन्नदेशसमानीते भाष्यपुस्तकत्रये चतुःषष्ट्यनुवाकपर्यन्तमेव व्याख्यानं दृश्यते । एतदेव सम्पूर्णतया वर्णितं प्रत्यक्षमुपलभ्यते । अथास्मत्सङ्घे मूलपुस्तकचतुष्टये तु अशीत्यनुवाका विन्यस्ताः । अनुवाकसङ्ग्रहेऽपि तेषामशीत्यनुवाकानामेव प्रतीकानि लिखितानि । पुनरेतेषामनुवाकानां ये अनुवाका भाष्यकारेण व्याख्याताः, न तेषु कतिपयेषु मूलपुस्तकधृतपाठक्रमस्ता जायते । कुत्रचिदनुवाकद्वयस्यैकत्वमपि प्रतिपादितम् । कुत्रचिच्चानुवाकांशीभूतकण्डिकैकाप्यनुवाकत्वेन परिगृहीता । एतदवलोक्य व्याख्यानानुरोधेनास्माभिर्भाष्यपुस्तकत्रयानुसारिणी सभाष्या निखिलापीयं मुद्रापिताऽभूत् । अथ इदानीं भाष्यकारपरित्यक्ताः कतिपयमूलानुवाका मुद्रापिता भवन्ति । मूलभाष्ययोः परस्परमनुवाकसङ्ख्याभेदज्ञानार्थं तयोरनुवाकसमन्वयतालिका मुद्रापिता भवन्ति ॥ ]