तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 102, कुल 345 में से
संदर्भ में पढ़ेंतैत्तिरीयब्राह्मणम् (१.२.१) ७३ हृदयानि च संसृज्यन्ताम् । तथा वो युष्माकं प्रिय आत्मा जीवश्च संसृज्यताम् । तथा ममप्रियास्तनुवोऽपि संसृज्यन्ताम् । एकस्मिन्कार्ये प्रवर्त्तन्ताम् । ऋत्विग्भिः सह शरीरं बहुत्वम् । कल्पः-“क्लृप्तिसामनसीभ्यामग्नीन्यजमान उपतिष्ठते- कल्पेतां द्यावापृथिवी येऽग्नय समनसः” इति । तत्र क्लृप्त्यभिधायिकाया ऋचः पाठस्तु- कल्पै॑तां॒ द्यावा॑पृथि॒वी । कल्प॑न्ता॒माप॒ ओष॑धीः । कल्प॑न्ताम॒ग्नयः॒ पृथ॑क् । मम॒ ज्यैष्ठ्या॑य॒ सव्र॑ताः, इति । द्यावापृथिव्यादयः सर्वे मम ज्यैष्ठयायोत्तमफलसिद्धये सव्रता व्रतेन कर्मणा युक्ताः सन्तः । स्वस्वव्यापारक्षमा भवन्तु । सामनस्याभिधायिकाया ऋचः पाठस्तु- येऽग्नयः॒ सम॑नसः । अ॒न्तरा द्यावा॑पृथि॒वी । वा॒स॒न्ति॒कावृ॒तू अ॒भिकल्प॑मानाः । इन्द्र॑मिव दे॒वा अ॒भिसंवि॑शन्तु, इति । हेऽग्ने द्यावापृथिव्योर्मध्ये त्वया सह समानमनस्काऽग्नयः सन्ति ते सर्वेऽपि वासन्तिकावृतू ऋत्ववयवौ वासन्तिकमासौ चैत्रवैशाखाख्यावभिकल्पमानाः सर्वतः संपादयन्तस्तामभितः संविशन्तु । यथा देवा इन्द्रमभिसं विशन्ति तद्वत् । अनन्तरमन्त्रस्तु गार्हपत्याधानमन्त्राणां मध्ये सूत्रकारेणोदाहृतः । पाठस्तु- दि॒वस्त्वा॑ वी॒र्ये॑ण । पृ॒थि॒व्यै म॑हि॒म्ना (१८) । अ॒न्तरि॑क्षस्य॒ पोषे॑ण । सर्व॑पशु॒माद॑धे, इति । हे गार्हपत्य द्युलोकस्य यद्वीर्यं पृथिव्याश्च यो ऽन्तरिक्षस्य यत्पोषं सामर्थ्यं तैः सर्वैरपि सर्वपशुप्रदानसमर्थं त्वामिहायतन आदधे । अजी॑जनन्न॒मृतं॒ मर्त्या॑सः । अ॒स्त्रेमा॑णं त॒रणिं॑ वी॒ळुज॑म्भम् । दश॒ स्वसा॑रो॒ अग्रु॑वः । समीचीः॑ । पुमां॑ ँ सं जा॒तम॑भिसं॒रभ॑न्ताम् ।