तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 101, कुल 345 में से
संदर्भ में पढ़ें७२ (१.२.१) तैत्तिरीयब्राह्मणम् कल्पः-“सिकतानामर्धं द्वैधं विभज्यार्धं गार्हपत्यायतने निवपत्यर्धं दक्षिणाग्नेरर्धं त्रेधं विभज्य पूर्वेष्टेनेव कल्पेन सर्वान्पार्थिवान्निवपति । अग्नेर्भस्मासीति सिकता निवपति” इति । पाठस्तु - अ॒ग्नेर्भस्मा॑स्य॒ग्नेः पुरी॑षमसि, इति । हे सिकतेऽग्नेर्भस्म भासमानहेतुस्त्वमसि तथाऽग्ने पुरीषं पूरणहेतुस्त्वमसि । कल्पः-“संज्ञानमित्यूषांस्तानिवपन्यददश्चन्द्रमसि कृष्णं तदिहास्त्विति मनसा ध्यायति” इति । पाठस्तु- सं॒ज्ञान॑मसि काम॒धरण॑म् । मयि॑ 'ते काम॒धरणं॑ भूयात्, इति । हे ऊष संज्ञानं सम्यग्ज्ञानहेतुः कामधरणं धारणहेतुश्च त्वमसि । ते त्वदीयं यत्कामधारणं सामर्थ्यं तन्मय्यपि भूयात् । सं वः॑ सृजामि॒ हृद॑यानि । सा ँ सृ॑ष्टं मनो॑ अस्तु वः । स ँसृ॑ष्टः प्रा॒णो अ॑स्तु वः । कल्पः-“सं या वः प्रियास्तनुव इत्येषा । संवः सृजामि हृदयानि स ँ सृष्टं मनो अस्तु वः स ँसृष्टः प्राणो अस्तु व इत्येताभ्यां बानस्पत्यान्सँसृज्य सिकतावद्विभज्य निवपति” इति । अत्र “सं वः सृजामि” इति मन्त्रः पूर्वमाम्नातः । हे वानस्पत्यसंभारा वो युष्माकं हृदयानि संसृजामि परस्परमनुरक्तानि करोमि । तथा वो युष्माकं मनो वचश्च संसृष्टमस्तु । हृदयवाक्येन परस्परस्नेहोऽपि विवक्षितः । मनोवाक्येन कार्यैकैकमत्यम् । तथा वो युष्माकं प्राणश्च संसृष्टोऽस्तु । अनेनैकविद्या प्रवृत्तिर्विवक्षिता । “सं या वः” इति मन्त्रस्य संहितायामाम्नातत्वात्प्रतीकमात्रं सूत्रे दर्शितम् । इह तु सर्वोऽप्येवमाम्नातः- सं या वः॑ प्रि॒यास्तनुवः॑ । सं प्रि॒या हृद॑यानि वः । आ॒त्मा वो॑ अस्तु॒ सं प्रियः॑ सं प्रि॒यास्त॒नुवो॒ मम॑ (१७) इति । हे वानस्पत्यसंभारा वो युष्माकं याः प्रियास्तनुवस्ताः संसृज्यन्तामेकस्मिन्नैव कार्ये प्रवर्तन्ताम् । तथा वो युष्माकं प्रियाणि