तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
७२ (१.२.१) तैत्तिरीयब्राह्मणम् कल्पः-“सिकतानामर्धं द्वैधं विभज्यार्धं गार्हपत्यायतने निवपत्यर्धं दक्षिणाग्नेरर्धं त्रेधं विभज्य पूर्वेष्टेनेव कल्पेन सर्वान्पार्थिवान्निवपति । अग्नेर्भस्मासीति सिकता निवपति” इति । पाठस्तु - अ॒ग्नेर्भस्मा॑स्य॒ग्नेः पुरी॑षमसि, इति । हे सिकतेऽग्नेर्भस्म भासमानहेतुस्त्वमसि तथाऽग्ने पुरीषं पूरणहेतुस्त्वमसि । कल्पः-“संज्ञानमित्यूषांस्तानिवपन्यददश्चन्द्रमसि कृष्णं तदिहास्त्विति मनसा ध्यायति” इति । पाठस्तु- सं॒ज्ञान॑मसि काम॒धरण॑म् । मयि॑ 'ते काम॒धरणं॑ भूयात्, इति । हे ऊष संज्ञानं सम्यग्ज्ञानहेतुः कामधरणं धारणहेतुश्च त्वमसि । ते त्वदीयं यत्कामधारणं सामर्थ्यं तन्मय्यपि भूयात् । सं वः॑ सृजामि॒ हृद॑यानि । सा ँ सृ॑ष्टं मनो॑ अस्तु वः । स ँसृ॑ष्टः प्रा॒णो अ॑स्तु वः । कल्पः-“सं या वः प्रियास्तनुव इत्येषा । संवः सृजामि हृदयानि स ँ सृष्टं मनो अस्तु वः स ँसृष्टः प्राणो अस्तु व इत्येताभ्यां बानस्पत्यान्सँसृज्य सिकतावद्विभज्य निवपति” इति । अत्र “सं वः सृजामि” इति मन्त्रः पूर्वमाम्नातः । हे वानस्पत्यसंभारा वो युष्माकं हृदयानि संसृजामि परस्परमनुरक्तानि करोमि । तथा वो युष्माकं मनो वचश्च संसृष्टमस्तु । हृदयवाक्येन परस्परस्नेहोऽपि विवक्षितः । मनोवाक्येन कार्यैकैकमत्यम् । तथा वो युष्माकं प्राणश्च संसृष्टोऽस्तु । अनेनैकविद्या प्रवृत्तिर्विवक्षिता । “सं या वः” इति मन्त्रस्य संहितायामाम्नातत्वात्प्रतीकमात्रं सूत्रे दर्शितम् । इह तु सर्वोऽप्येवमाम्नातः- सं या वः॑ प्रि॒यास्तनुवः॑ । सं प्रि॒या हृद॑यानि वः । आ॒त्मा वो॑ अस्तु॒ सं प्रियः॑ सं प्रि॒यास्त॒नुवो॒ मम॑ (१७) इति । हे वानस्पत्यसंभारा वो युष्माकं याः प्रियास्तनुवस्ताः संसृज्यन्तामेकस्मिन्नैव कार्ये प्रवर्तन्ताम् । तथा वो युष्माकं प्रियाणि
तैत्तिरीयब्राह्मणम् (१.२.१) ७३ हृदयानि च संसृज्यन्ताम् । तथा वो युष्माकं प्रिय आत्मा जीवश्च संसृज्यताम् । तथा ममप्रियास्तनुवोऽपि संसृज्यन्ताम् । एकस्मिन्कार्ये प्रवर्त्तन्ताम् । ऋत्विग्भिः सह शरीरं बहुत्वम् । कल्पः-“क्लृप्तिसामनसीभ्यामग्नीन्यजमान उपतिष्ठते- कल्पेतां द्यावापृथिवी येऽग्नय समनसः” इति । तत्र क्लृप्त्यभिधायिकाया ऋचः पाठस्तु- कल्पै॑तां॒ द्यावा॑पृथि॒वी । कल्प॑न्ता॒माप॒ ओष॑धीः । कल्प॑न्ताम॒ग्नयः॒ पृथ॑क् । मम॒ ज्यैष्ठ्या॑य॒ सव्र॑ताः, इति । द्यावापृथिव्यादयः सर्वे मम ज्यैष्ठयायोत्तमफलसिद्धये सव्रता व्रतेन कर्मणा युक्ताः सन्तः । स्वस्वव्यापारक्षमा भवन्तु । सामनस्याभिधायिकाया ऋचः पाठस्तु- येऽग्नयः॒ सम॑नसः । अ॒न्तरा द्यावा॑पृथि॒वी । वा॒स॒न्ति॒कावृ॒तू अ॒भिकल्प॑मानाः । इन्द्र॑मिव दे॒वा अ॒भिसंवि॑शन्तु, इति । हेऽग्ने द्यावापृथिव्योर्मध्ये त्वया सह समानमनस्काऽग्नयः सन्ति ते सर्वेऽपि वासन्तिकावृतू ऋत्ववयवौ वासन्तिकमासौ चैत्रवैशाखाख्यावभिकल्पमानाः सर्वतः संपादयन्तस्तामभितः संविशन्तु । यथा देवा इन्द्रमभिसं विशन्ति तद्वत् । अनन्तरमन्त्रस्तु गार्हपत्याधानमन्त्राणां मध्ये सूत्रकारेणोदाहृतः । पाठस्तु- दि॒वस्त्वा॑ वी॒र्ये॑ण । पृ॒थि॒व्यै म॑हि॒म्ना (१८) । अ॒न्तरि॑क्षस्य॒ पोषे॑ण । सर्व॑पशु॒माद॑धे, इति । हे गार्हपत्य द्युलोकस्य यद्वीर्यं पृथिव्याश्च यो ऽन्तरिक्षस्य यत्पोषं सामर्थ्यं तैः सर्वैरपि सर्वपशुप्रदानसमर्थं त्वामिहायतन आदधे । अजी॑जनन्न॒मृतं॒ मर्त्या॑सः । अ॒स्त्रेमा॑णं त॒रणिं॑ वी॒ळुज॑म्भम् । दश॒ स्वसा॑रो॒ अग्रु॑वः । समीचीः॑ । पुमां॑ ँ सं जा॒तम॑भिसं॒रभ॑न्ताम् ।
७४ (१.२.१) तैत्तिरीयब्राह्मणम् कल्पः-“अजीजन्मृतं मर्त्यासोऽस्रेमाणं तरणिं वीळुजम्भं दश स्वसारो अग्रुवः समीचीः पुमांसं जातमभिसँरभन्तामिति जातमञ्जलिनाऽभिगृह्य” इति मर्त्यासो मनुष्यऋत्विजोऽमृतं मरणरहितमग्निं देवमजीजनन्नुत्पादितवन्तः · । कीदृशमग्नि- मस्रेमाणमगम्यमशोषणीयं वा । स्त्रिवु गतिशोषणयोरिति धातुः तरणिं दुःखेभ्यस्तारकं वीळुजम्भं दृढदन्तमूलमग्रुवोऽङ्गुलयस्ताश्च शरीरेण सहोत्पन्नत्वात्स्वसारो भगिनीसमानाः । दशसंख्याकास्ता अङ्गुलयः समीचीरनुकूला भूत्वा जातमभिरूपं पुमांसमभिसंरभन्तामभितः संगृह्णन्तु । प्रजाप॑तेस्त्वा प्रा॒णेना॒भिप्रा॑णिमि । पू॒ष्णः पोषे॑ण॒ मह्य॑म् । दी॒र्घा॒यु॒त्वाय॑ श॒तशा॑रदाय । श॒त ँ॑शरद्भ्य॒ आयु॑षे॒ वर्च॑से (१९)। जी॒वात्वै॑ पु॒ण्या॑य । कल्पः-“जातं यजमानोऽभिप्राणिति-प्रजापतेस्त्वा प्राणेनाभि- प्राणिमि पूष्णः पोषेण मह्यं दीर्घायुत्वाय शतशारदाय शत ँ शरद्भ्य आयुषे वर्चसे जीवात्वै पुण्याय” इति । हेऽग्ने प्रजापतेः प्राणेन प्राणवायुना त्वामभिलक्ष्य प्राणिमि श्वासं करोमि । तथा पूष्णो देवस्य पोषेण सामर्थ्येन वाऽभिप्राणिमि । किमर्थं मह्यं मम शतशारदाय दीर्घायुत्वाय शतसंवत्सरपरिमितं यद्दीर्घायुस्तत्सिद्धये । किंच, शतं शरद्भ्यः शतसंख्याकेभ्यः संवत्सरेभ्य ऊर्ध्वमप्यायुःसिद्धये वर्चसे बलाय जीवात्वै जीवनौषधाय पुण्याय सुकृतसिद्धये च । अ॒हं त्वद॑स्मि॒ मद॑सि॒ त्वमे॒तत् । ममा॑सि॒ योनि॒स्तव॒ योनि॑र॒स्मि । ममै॑व॒ सन्वह॑ ह॒व्यान्य॑ग्ने । पु॒त्रः पि॒त्रे लौ॑कृ॒ज्वातवेदः । कल्पः-“अहं त्वदस्मि मदसि त्वमेतन्ममासि योनिस्तव योनिरस्मि ममैव सन्वह हव्यान्यग्ने पुत्रः पित्रे लोकृजातवेद इत्याधीयमानमनुमन्त्रयते यजमानः” इति । ह आहवनीयाग्नेऽहं त्वत्तो हेतोरस्मि । यदा त्वमासीस्तदानीमहमस्मि । यदा तु त्वं नाऽऽसीस्तदानीं विद्यमानोऽप्यहं निष्प्रयोजनत्वेन नास्मि । त्वं च मदसि मत्तो हेतोर्जायसे । एतच्च प्रत्यक्षम् । एवमुक्तप्रकारेण मम योनिः कारणं त्वमसि । तवापि योनिः कारणमहमस्मि । तस्मान्ममैव बन्धुः सन्मदीयानि हव्यानि वह । हे जातवेदो यथा लोके पुत्रः पित्रे लोककृत्पुण्यलोकसंपादको भवति तद्वदतिस्नेहेन मम लोककृद्भव ।
तैत्तिरीयब्राह्मणम् (१.२.१) ७५ अनन्तरमन्त्रौ गार्हपत्याधानमन्त्रेषु सूत्रकृतोदाहृतः । पाठस्तु- प्रा॒णे त्वा॒ऽमृत॒माद॑धामि । अ॒न्नादम॒न्नाद्या॑य । गो॒प्तारं॑ गुप्त्यै॑, इति । हे गार्हपत्य प्राणेऽस्मदीये निमित्तभूते सति तद्रक्षार्थममृतं त्वामादधामि । ममान्नाद्यसिद्धयेऽन्नादं मम गुप्त्यै रक्षणसिद्धये गोप्तारं त्वाऽऽ दधामि । सु॒गार्ह॑पत्यो वि॒दह॒न्नरा॑तीः । उ॒षसः॑ श्रेय॑सीः श्रेय॑सी॒र्दध॑त् (२०) । अग्ने॑ स॒पत्नँ॑ अप॒बाध॑मानः । रा॒यस्पोष॒मिष॒मूर्ज॑म॒स्मासु॑ धेहि । कल्पः-‘‘सुगार्हपत्यो विदहन्नरातीरुषसः श्रेयसीः श्रेयसीर्दधदग्ने सपत्नाँ अपबाधमानो रायस्पोषमिषमूर्जमस्मासु धेहीत्याधीयमानम- भिमन्त्रयते यजमानः’’ इति । शोभनो गार्हपत्योऽयमग्निररातीद्वेषिणो विशेषेण दधन्नुषसो दिवसाञ्छ्रेयसीः श्रेयसीर्दधदुत्तरोत्तरश्रेष्ठान्कुर्वन्वर्तते । हेऽग्ने गार्हपत्य सपत्नास्मदीयाञ्शत्रूनपबाधमानः पीडयन्ध्नन्पुष्टिमन्नरसं चास्मासु संपादय । इ॒मा उ॒ मामुप॑तिष्ठन्तु रा॒यः । आ॒भिः प्र॒जाभि॑रि॒ह संव॑सेय । इ॒हो इडा॒ तिष्ठ॑तु वि॒श्वरू॑पी । मध्ये॒ वसो॑र्दीदिहि जात॑वेदः । कल्पः-‘‘इमा उ मामुपतिष्ठन्तु राय आभिः प्रजाभिरिह संवसेयेहो इडा तिष्ठतु विश्वरूपी मध्ये वसोर्दीदिहि जातवेद इति प्राञ्चोऽश्वप्रथमा अभिप्रव्रजन्ति’’ इति । इमा उ रायो लोके दृश्यमानानि सर्वाण्यपि धनानि मामुपतिष्ठन्तु प्राप्नुवन्तु । आभिः पुत्रपौत्रादिभिः प्रजाभिः सहेहास्मिञ्जन्मनि संवसेय सम्यक् तिष्ठामि । किंचेहेहैव जन्मनि विश्वरूपी महिष्याद्यनेकपशुरूपयुक्तेडा गौस्तिष्ठतु । हे जातवेदस्त्वस्मदीयस्य वसोर्मध्ये स्वामित्वेन स्थित्वा दीदिहि दीप्यस्व । ओर्ज॑से बला॑य त्वोद्य॑च्छे । वृष्णे॒ शुष्मा॑याऽऽयु॑षे वर्च॑से । स॒प॒त्न॒तूर॑सि वृत्र॒तूः । यस्तै॑ दे॒वेषु॑ महि॒मा सु॑व॒र्गः (२१) ।
७६ (१.२.१) तैत्तिरीयब्राह्मणम् यस्त॑ आ॒त्मा प॒शुषु॒ प्रवि॑ष्टः । पु॒ष्ट्या॑ ते मनु॒ष्ये॑षु पप्र॒थे तया॑ । नो अग्ने जु॒षमा॑ण ऐहि॑ । कल्पः- "गार्हपत्ये प्रणयनीयमाश्वत्थमिध्ममादीप्य सिक्तश्चोपय- मनीरुपकल्पयते तमुद्यच्छति-ओजसे बलाय त्वोद्यच्छे वृषणे शुष्मायाऽऽयुषेवर्चसे सपत्नतूरसि वृत्रतूर्यस्ते देवेषु महिमा सुवर्गो यस्त आत्मा पशुषुपविष्टः पुष्ट्या ते मनुष्येषु पप्रथे तया नो अग्ने जुषमाण एहि" इति। हेऽग्नेत्वामोजः प्रभृतिसिद्ध्यर्थमुद्यच्छे ओजो बलहेतुरष्टमो धातुः । बलं शरीरसामर्थ्यम् । वृषञ्शब्दः सेचनसामर्थ्यवाची । शुष्माशब्दोऽत्र सहकारिसंपादितां शक्तिमाचष्टे । आयुः प्रसिद्धम् । वर्चः कान्तिः । हेऽग्ने त्वं सपत्नतूरसि वैरिहिंसकोऽसि । तथा वृत्रतूर्धर्मबुद्धंरावकाणां पापानां हिंसकोऽपि सोऽयमेको मन्त्रः। हेऽग्ने देवेषु मध्ये कर्मफलभूतः स्वर्गरूपो यस्ते महिमा पशुषु क्षीरादिहविः स्वरूपंण प्रविष्टो यस्तवाऽऽत्माऽत्यन्तप्रियः पदार्थो मनुष्येषूराग्निजनिता या त्वदीया पुष्टिः पप्रथे प्रसिद्धा वर्तते तया पुष्ट्या तदुपलक्षितस्वर्गक्षीराभ्यां च नोऽस्माञ्जुषमाण एहि । असौ द्वितीयो मन्त्रः- दि॒वः पृ॑थि॒व्याः पर्य॒न्तरि॑क्षात् । वाता॑त्प॒शुभ्यो॒ अध्योष॑धीभ्यः । यत्र॑ यत्र जातवेदः संब॒भूर्थ॑ । ततो॑ नो अग्ने जु॒षमा॑ण एहि॑, इति । दिवः पृथिव्या अन्तरिक्षाद्धोपरि वातात्पशुभ्य ओषधिभ्यश्चोपरि तथा यत्र यत्र देशविशेषे हे जातवेदः संभूयोत्पन्नोऽसि । हेऽग्ने ततः सर्वस्मात्स्थानान्नोऽस्माञ्जुषमाण एहि । अनन्तरभाविनस्त्रयो मन्त्राः प्रणयनकाले गमनार्थाः। तत्र प्रथममाह- प्राची॒मनु॑ प्र॒दिशं॒ प्रेहि॑ वि॒द्वान् । अग्ने॑रग्ने पुरो अ॒ग्निर्भ॑वे॒ह । विश्वा॒ आशा॑ दीद्या॒नो वि॑भाहि (२२) । ऊर्जं॑ नो धेहि॒ द्विप॑दे॒ चतु॑ष्पदे, इति । हेऽग्ने प्राचीं पूर्वा प्रदिशं प्रकृष्टां दिशमनुलक्ष्य विद्वान्मार्गाभिज्ञः प्रेहि प्रकर्षण गच्छ । अग्नेर्गार्हपत्यस्येह पुरोऽग्निर्भवास्मिन्देवयजने पूर्वदिग्वर्ती वह्निर्भव । दीद्यानः स्वयं प्रकाशमानो विश्वा आशा विभाहि सर्वा दिशः प्रकाशय । नोऽस्मदीयाय द्विपदे मनुष्याय चतुष्पदे
तैत्तिरीयब्राह्मणम् (१.२.१) ७७ पशवे चोर्जं रसं धेहि संपादय । अयं मन्त्रो "धर्मः शिरः" इत्यनुवाकेऽपि समाम्नातः । प्रयोजनं तु द्विराम्नातस्य सूत्रान्तरे द्रष्टव्यम् । अथ द्वितीयमाह- अन्व॒ग्निरु॒षसा॒मग्र॑मख्यत् । अन्वह॑ानि प्रथ॒मो जा॒तवे॑दाः । अनु॒ सूर्य॑स्य पु॒रुत्रा च॑ र॒श्मीन् । अनु॒ द्यावा॑पृथि॒वी आर्त॑तान, इति । अयमग्निरुपसामग्रं प्राप्तोऽन्वख्यदनुक्रमेण प्रकाशितवान् । प्रथमो देवेषु मुख्योऽयं जातवेदा अहानि दिवसानन्वख्यत् । किंच सूर्यस्य पुरुत्रा सर्वानपि रश्मीनन्वख्यत् । तथा द्यावापृथिव्यावनुक्रमेणाऽऽ ततान् सर्वतो व्याप्तवान् । यद्यप्ययं मन्त्रो नाऽऽपस्तम्बेन विनियुक्तस्तथाऽपि सूत्रान्तरानुसारेणात्र विनियोगो द्रष्टव्यः । अथ तृतीयमाह- वि॒क्रम॑स्व म॒हाँ ँअ॑सि । वे॒दि॒षन्मानु॑षेभ्यः । त्रि॒षु लो॒केषु॑ जागृ॑हि, इति । हेऽग्ने विक्रमस्वानिष्टनिवारणे पराक्रमं कुरु । त्वं महानस्यधिक शक्ति युक्तोऽसि । मानुषेभ्यो मनुष्याणामर्थे वेदिषन्वेद्यामुपविष्टः संस्त्रिषु लोकेषु जागृहि यजमानं नेतुं सावधानो भव । यदि॒दं दि॒वो यद॒दः पृ॑थि॒व्याः । सं॒वि॒दा॒ने रोद॑सी संब॑भूव॒तुः (२३) । तयोः॑ पृ॒ष्ठे सी॑दतु जा॒तवे॑दाः । शंभूः प्र॒जाभ्य॑स्त॒नुवे॑ स्यो॒नः । कल्पः-“यदिदं दिवो यददः पृथिव्याः संविदाने रोदसी संबभूवतुस्तयोः पृष्ठे सीदतु जातवेदाः शंभूः प्रजाभ्यस्तनुवे स्योन इत्यभिमन्त्रय" इति । यदिदमूषाख्यं दिवो यज्ञियं पृथिव्यां वर्तते यच्चादः कृष्णाख्यं पृथिव्या यज्ञियं दिवि चन्द्रमसि वर्तते तेनोभयेन वयमेनं मन्यामहे । रोदसीद्यावापृथिव्यौ संविदान ऐकमत्यं गते संबभूवतुः। पूर्वमेकी बभूवतुरिति तयोस्तादृश्योर्द्यावापृथिव्योः पृष्ठ उपरि जातवेदाः सीदतु । कीदृशः प्रजाभ्यः शंभूः प्रजानां सुखस्य भावयिता तनुवे स्योनः स्वशरीराय च सुखकरः। अनन्तरमन्त्रा आहवनीयाधाने सूत्रकारेणोदाहृताः । तत्पाठस्तु-
७८ (१.२.१) तैत्तिरीयब्राह्मणम् प्रा॒णं त्वा॒ऽमृते॒ आद॑धामि । अ॒न्नाद॒मन्नाद्या॑य । गो॒प्तारं॑ गु॒प्त्यै॑ । यत्तै॑ शु॒क्रं शु॒क्रं वर्च॑: शु॒क्रा त॒नूः । शु॒क्रं ज्योति॒रज॑स्रम् । तेन॑ मे दीदि॒हि तेन॑ त्वाऽऽद॑धे । अ॒ग्निना॑ऽग्ने॒ ब्रह्म॑णा । आन॑शे व्या॑न॒शे सर्व॒मायु॒र्व्या॑निशे (२४), इति । ह आहवनीय प्राणरूपं त्वाममृते स्थाने विनाशरहित आदधामि। अस्माकमन्नाद्यसिद्ध्यर्थमन्नादं त्वाऽऽदधामि। रक्षणार्थं गोप्तारं त्वामादधामि । सोऽयमेको मन्त्रः । हे शुक्र दीप्यमानाग्ने तव यच्छुक्रं वर्चो निर्मला कान्तिर्या च शुक्रा तनूर्निर्मलो देहो यच्चाजस्रं निरन्तरं शुक्रं ज्योतिर्निर्मलमितरभासकत्वं तेन सर्वेण युक्तो मे मदर्थं दीदीहि प्रकाशस्व । तेन कारणेन हेऽग्नेऽग्निना ब्रह्मणाऽग्निप्रकाशकेन मन्त्रेण त्वामादधे । अयं द्वितीयो मन्त्रः। अयमग्निरानशे भोक्तृदेहं व्याप्तवान् । व्यानशे विविधं भोग्यजातं व्याप्तवान् । तथा सर्वमायुरपमृत्युपरिहारेण व्याप्तवान् । अयं तृतीयो मन्त्रः । तावेतौ द्वितीयतृतीयौ “धर्मः शिरः ” इत्यनुवाकेऽप्याम्नातौ । तयोः प्राचीमितिमन्त्रवत्पृथगुपयोगः सूत्रान्तरे द्रष्टव्यः । यद्वाऽस्यानुवाकस्य मन्त्रकाण्डानुरूपत्वाद् धर्मः शिर इत्यादिकमप्यत्रत्यमेवेति दर्शयितुं तदेकदेशोऽत्र पठति । ब्राह्मणसंबन्धार्थं तत्राऽऽम्नातं (नं) द्रष्टव्यम् । यदुक्तं सूत्रकारेण-“अथ विराट् कर्मयजमान उपतिष्ठते ” इति, तत्र प्रथमं विराट् क्रममन्त्रमाह- नर्य॑ प्र॒जां मे॑ गोपाय । अ॒मृ॒त॒त्वाय॑ जी॒वसै॑ । जा॒तां ज॑नि॒ष्यमा॑णां च । अ॒मृते॑ स॒त्ये प्रति॑ष्ठिताम्, इति । हे नर्य मनुष्येभ्यो हित गार्हपत्य मे मदीयां प्रजां गोपाय । किमर्थममृतत्वाय जीवसेऽपमृत्युरहितजीवनाय । कीदृशीं प्रजाम् । पूर्वमुत्पन्नामितः परमुत्पत्स्यमानां च । तथाऽमृतत्वहेतौ सत्ये प्रतिष्ठितां सर्वदा सत्यवादिनीमित्यर्थः । अथ द्वितीयमाह- अथ॑र्व पि॒तुं मे॑ गोपाय । रस॒मन्न॑मि॒हाऽऽयु॑षे । अद॑ब्धायो॒ऽशी॑ततनो । अवि॑षं नः पि॒तुं कृ॑णु, इति ।
तैत्तिरीयब्राह्मणम् (१.२.१) ७९ अथर्व पूर्वमथर्वाख्येन (ण) महर्षिणा मथितत्वात्तद्रूपत्वम् । तथा चान्यत्राऽऽम्नातम्-“अथर्वा त्वा प्रथमो निरमन्थदग्ने ” इति । तादृश हे दक्षिणाग्ने मे पितुं मदीयमन्र्नं गोपाय । यो रसः क्षीरादिर्यच्चान्नं व्रीहियवादिकं तदुभयमिह शरीर आयुष आयुर्थ स्थापयेति शेषः । हेऽदब्धायो केनाप्यहिंसिताग मन, न खलु त्वदीयमानगमनं केनचिदपि निवारयितुं शक्यम् । हेऽशीततनो, उष्ण शरीर नोऽस्मदीयं पितुमन्नमविषं विषरहितं कुरु । अथ तृतीयमाह- शᳵस्य॑ प॒शून्मे॑ गोपाय । द्वि॒पादो॒ ये चतु॑ष्पदः (२५) । अ॒ष्टाश॑फाश्च॒ य इ॒हाग्नै॑ । ये चैक॑शफा आशु॒गाः, इति । हे शंस्यर्त्विग्भिः प्रशस्यमानाऽऽहवनीय मे पशून्गोपाय । ये पशवो द्विपादो मनुष्यरूपा येऽपि चतुष्पदो गवादिरूपास्तेऽप्यपि चतुष्पात्स्वष्टाशफा गोमहिष्यादय एकशफा आशुगामिनश्चाश्वादयो ये सन्ति तान्सर्वानिह लोके हेऽग्ने गोपाय । अथ चतुर्थमाह- सप्रथ स॒भां मे॑ गोपाय । ये च॒ सभ्याः॑ सभा॒सदः॑ । ताविन्द्रि॒याव॑तः कुरु । सर्व॒मायु॒रुपा॑सताम्, इति । प्रथया ख्यातया सहितः सप्रथः । तादृश हे सभ्य मे सभामधिदेवनस्थानं गोपाय । ये चं सभ्याः सभायोग्यः सभासदः सभायामुपविष्टाः सन्ति तान्सर्वानिन्द्रियावतश्चक्षुरादीन्द्रियपाट- वयुक्तान्कुरु । ते च सभ्याः सर्वमायुः शतसंवत्सरमायुरुपासतां सेवन्ताम् । अत्र पञ्चममाह- अहे॑ बु॒ध्निय॒ मन्त्रं॑ मे गोपाय । यमृष॑यस्त्रयी॒वि॒दा वि॒दुः । ऋचः॒ सामा॑नि॒ यजू॑ᳵषि । सा हि श्रीरमृ॑ता स॒ताम्, (२६), इति । हेऽहेऽहिंसितव्य बुध्निय बुध्ने मूले जगदादावुत्पन्नाऽऽवसथ्य मे मदीयम्ऋगादिरूपं मन्त्रं गोपाय । यं मन्त्रं त्रयिविदा वेदत्रयाभिज्ञा ऋषयोऽ- तीन्द्रियद्रष्टारो विदुर्जानन्ति । तं मन्त्रं गोपायेति पूर्वत्रान्वयः । वेदत्रयोक्ता
८० (१.२.१) तैत्तिरीयब्राह्मणम् मन्त्रविशेषा ऋगादयः । गृहक्षेत्रादिपालनं परित्यज्य मन्त्रपालनप्रार्थने कारयेत्युच्यते । सतां सन्मार्गवर्तिनामृगादिरूपा सा खल्वमृता श्रीः । धनादिरूपायाः श्रियो बहुधा विनाशः संभावितः ऋगादिरूपायास्तु पुनः पुनरभ्यासेनाभिवृद्धिरेव न तूपक्षयः । चतुः॑शिखण्डा युव॒तिः सु॒पेशा॑: । घृ॒तप्र॑तीका॒ भुव॑नस्य मध्यै॑ । म॒मृ॒ज्यमा॑ना मह॒ते सौभ॑गाय । मह्यं॑ धुक्ष्व॒ यज॑मानाय॒ कामा॑न् । कल्पः-“चतुःशिखण्डा युवतिः सुपेशा घृतप्रतीका भुवनस्य मध्ये मर्मृज्यमाना महते सौभागाय मह्यं धुक्ष्व यजमानाय कामानिति वेदिं संमृज्यमानाम्” इति । अनुमन्त्रयत इति शेषः । अस्य च दर्शपूर्णमासगतयाजमानत्वात्तस्याङ्ग एवायं मन्त्र उत्तरे द्रष्टव्यः । बालानां मूर्धगताः शिखण्डाश्चत्वारः । शिखण्डवदुन्नताः श्रोणिद्वयांसद्वयप्रदेश यस्या वेदेः सा चतुःशिखण्डा युवतिर्मिश्रयित्री । सर्वाणि हवींषि वेद्यां मिश्री भवन्ति । तत्राऽऽहितत्वात् । सुपेशाः सुपर्णं तद्वच्छोभमानं यस्याः सा सुपेशाः । घृतप्रतीका घृतमेव प्रतीके मुखे यस्याः सा घृतप्रतीका आदावाज्यमेव वेद्यामासद्यते । तादृशी वेदिर्भुवनस्य मध्येऽस्माकं महते सौभागाय मर्मृज्यमानाऽतिशयेन शोध्यमाना वर्तते । हे वेदे यजमानाय मह्यं कामान्धुक्ष्व संपादय । इ॒हैव सन्तंत्र॒ सतो॑ वो अग्नयः । प्रा॒णेन॑ वा॒चा मन॑सा बिभर्मि । तिरो मा॒ सन्त॒मायु॒र्मा प्रहा॑सीत् । ज्योति॑षा वो वैश्वान॒रेणोप॑तिष्ठे । कल्पः-“इहैव सन्तत्र सतो वो अग्नयः प्राणेन वाचा मनसा बिभर्मि तिरो मा संतमायुर्मा प्रहासीज्ज्योतिषा वो वैश्वानरेणोपतिष्ठ इति यद्यनुपस्थाय प्रवसेदेतयैवोपत्तिष्ठेत” इति । अग्निहोत्रिणो ग्रामान्तरगमने प्राप्ते सत्यग्न्युपस्थानं कृत्वा पश्चाद्गन्तव्यम् । यदि कदाचिन्महत उपस्थानस्यावसरो न स्यात्तदानीमेतयैवैकयोपतिष्ठेत । हेऽग्नय इहैव देशे सन्नहं तत्र तत्र गृहविशेषे सतो वर्तमानान्युष्मान्प्राणेन वाचा मनसा बिभर्मि धारयामि । ग्रामान्तरे गतस्यापि मम प्राणादयो भवद्विषयदेशवर्तित्वेन तिरोभूय सन्तमवस्थितं मामायुर्मा प्रहासीन्मा परित्यजतु । वैश्वानरेण सर्वमनुष्यहितेन ज्योतिषा युक्तान्वो युष्मानुपतिष्ठे यत्र तत्र स्थितोऽप्यहं सेवे । अयं मन्त्रोऽग्न्युपस्थानप्रकरणेऽग्निहोत्रविषये नेतव्यः ।
तैत्तिरीयब्राह्मणम् (१.२.१) ८१ प॒ञ्च॒धाऽग्नीन्व्य॑क्रामत् । वि॒राट्सृ॒ष्टा प्र॒जाप॑तेः । ऊ॒र्ध्वाऽऽरौ॑हद्रोहि॒णी । योनि॑र॒ग्नेः प्र॒ति॑ष्ठितिः ( २७) । विश॑न्तु नः पु॒रूची॒र्विधे॑म नि॒धाय॑ यत्ते॒ऽप्र॑दाहाय बृ॒हत्यौ ब्रह्म॑णा दुवस्यत वि॒श्ववा॑र इ॒ममृ॑ञ्जते पुरो॒गां प्र॑ज॑नयि॒ष्यथौ॑ जनिष्य॒तैऽस्मै॑ मर्म महिम्ना वर्च॑से दध॑त्सुव॒र्गां मा॑हि संबभूवतुरायुर॒र्त्यान॑शे चतु॑ष्पदः स॒तां प्र॒जाप॑तेर्द्धं च॑ । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके द्वितीयाध्याये प्रथमोऽनुवाकः ॥ १ ॥ कल्पः-“पञ्चधाऽग्नीन्व्यक्रामद्विराट् सृष्टा प्रजापतेरूर्ध्वाऽऽरोह- द्रोहिणी योनिरग्नेः प्रतिष्ठितिरिति सर्वान्” इति । यजमान उपतिष्ठत इत्यनुवर्तते । प्रजापतेः संबन्धिनी येयं सृष्टा विराड्विशेषेण राजमाना गोशरीरधारिणी तानेतानग्नीन्पञ्चधा व्यक्रामद्विभज्य क्रान्तवती। अस्मिन्प्रदेशे गार्हपत्योऽस्मिन्नाहवनीय इत्येवं पदेनाऽऽक्रम्य दर्शितवतीत्यर्थः । सा पुनः स्वस्याः प्रयोजनविशेषमेव पश्यन्त्यूर्ध्वाऽभिमुखी द्युलोकमारोहत् । आरुह्य च रोहिण्यभूत् । सा चाग्नेर्योनिः कारणभूता प्रतिष्ठाहेतुश्च । रोहिणीनक्षत्रेऽग्नीनामाधेयत्वात् । अत्र विनियोगसंग्रहः- उद्धन्य भूमिमुद्धन्ति शं नो देवीरवोक्षति । वैश्वेति सिकता न्युप्य यदेत्युषान्वपेत्तथा ॥ १ ॥ ऊतीराखुकरीषं चोर्जं वल्मीकवपां प्रजाम् । सूदं यस्य तु वाराहीमृदं यत्पद्यपत्रकम् ॥ २ ॥ याभिस्तु शर्करा अग्नेः स्वर्णमश्वेति पिप्पलम् । ऊर्ज औदुम्बरं गायद्द्वाभ्यां पर्ण यया शमीम् ॥ ३ ॥ यत्ते विकङ्कतं यत्तेऽशनिदग्धं तरुं तथा । चित्रीयश्वत्थसमिधोऽश्वत्थादरणिमन्त्रणम् ॥ ४ ॥ यो अश्वावरण्युपादानं यं त्वां संभारसादनम् । प्रवे ब्रह्मौदने होमस्तत्रिभिः समिध क्षिपेत् ॥ ५ ॥ समित्रिभिस्तु राजन्यस्त्वां त्रयेण च वैश्यकः । प्रजा अजं प्रबध्नाति मही अरणीवीक्षणम् ॥ ६ ॥
(१.२.२) तैत्तिरीयब्राह्मणम् आगोऽरणी प्रगृह्णाति ऋत्विग्द्वाभ्यां तु मन्त्रणम् । अनु वाचं नियम्याथ शल्कै रात्रौ समिध्यते ।। ७ ।। जात द्वाभ्यां प्रातरग्नावरणी निष्पेत्तथा । अपेति स्थानमुद्धन्यादग्नेस्तु सिकता वपेत् ।। ८ ।। सं वो द्वाभ्यां तु संभारान्वानस्पत्यान्संसृजेत् । ऋग्द्वाभ्यामग्न्युपस्थानं दिवस्त्वापोश्वमानलम् ।। ९ ।। आधातेजीजनन्नाग्निमञ्जलौ धारयेत्तृजाः । जातं प्राणित्यहं पूर्वानिलाधानेऽभिमन्त्रयेत् ।। १० ।। प्राणे त्वा पश्चिमाधा नं सुगार्हेत्यभिमन्त्रणम् । इमाः प्राञ्चोऽभियान्त्योजस्त्रिभिरुद्यम्यतेऽनलः ।। ११ ।। प्राची त्रिभिः पूर्वयानं यदि वह्न्यभिमन्त्रणम् । प्राणं द्वाभ्या पूर्ववह्नेस्स्थानं ह्यनुमन्त्रयेत् ।। १२ ।। उपस्थितिर्नयं पञ्च चतुर्वेदिं समीक्षते । इह गन्तुरुपस्थानं पञ्च सर्वाग्निमन्त्रणम् ।। अत्राऽऽधानगता मन्त्रा द्वासप्ततिरुदीरिताः ।। १३ ।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे द्वितीयप्रपाठके प्रथमोऽनुवाकः ।। १ ।। अथ द्वितीयप्रपाठके द्वितीयोऽनुवाकः । प्रथमेऽनुवाक आधानमन्त्रा उक्ताः । तावताऽऽ धानं समाप्तम् । अथ पञ्चस्वनुवाकेषु गवामयने केचिद्विशेषा उच्यन्ते । तत्रास्मिन्ननुवाके विषुवन्नामकं मुख्यमहः । तदुभयपार्श्ववर्त्तीनि चत्वार्यहान्युच्यन्ते । तदेतद्विधत्ते - नवै॒तान्यहा॑नि भवन्ति । नव॒ वै सु॑व॒र्गा लो॒काः । यदे॒तान्यहा॑न्यु॒पयन्ति॑ । नव॑स्वे॒व तत्सु॑व॒र्गेषु॑ लो॒केषु॑ स॒त्रिणः॑ प्र॒तिति॑ष्ठन्तो यन्ति, इति । षष्ठे मासि षड्विंशतिसंख्याकेष्वहस्सु गतेष्ववशिष्टानि चत्वार्यहानि तत ऊर्ध्वं विषुवन्नामकमेकं मुख्यमहः । ततोऽप्यूर्ध्वमुत्तर- मासषट्कस्याऽऽदौ चत्वार्यहानीत्येवमेतानि नवसंख्याकान्य-
तैत्तिरीयब्राह्मणम् (१.२.२) ८३ हान्त्यनुष्ठेयानि । अष्टाभिर्लोकपालैःपरिपालिता अष्टसंख्याकाः स्वर्गा लोकास्तेषां मध्ये कश्चिदूर्ध्वदिग्वर्ती स्वर्ग इत्येवं नवसंख्याकाः स्वर्गाः । तेषु नवस्वपि तेन यथोक्तानुष्ठानेन प्रतिष्ठां प्राप्नुवन्तो गच्छन्ति । अत्र कंचिच्छाखान्तरीयं पक्षमुपन्यस्यति- अ॒ग्नि॒ष्टोमाः॑ परः॒ सामा॑नः का॒र्या ३ इत्या॑हुः । अ॒ग्नि॒ष्टोम॑संमितः सुव॒र्गो लो॒क इति॑ । द्वाद॑शाग्नि॒ष्टोम॑स्य स्तोत्रा॑णि । द्वाद॑श॒ मासाः॑ संवत्स॒रः, इति । परांस्युत्कृष्टतराणि सामानि येष्वहर्विशेषेषु ते परःसामानः । तेषु विषुवतोऽह्नः त्रयस्त्रयस्ते षडप्यग्निष्टोमात्मकाः कर्तव्या इति शाखान्तराध्यायिन आहुः । तत्रायं हेतुः । अग्निष्टोमेन सदृशः स्वर्गस्तत्कथमिति तदुच्यते । अग्निष्टोमस्य द्वादशसंख्याकानि स्तोत्राणि विद्यन्ते । प्रातः सवने बहिष्पवमानाख्यमेकं स्तोत्रं चत्वार्याज्यस्तोत्राणि । माध्यंदिने सवने माध्यंदिनपवमानाख्यमेकं स्तोत्रम् । पृष्ठस्तोत्राणि चत्वारि । तृतीयसवन आर्भभवपवमानाख्यमेकं स्तोत्रं यज्ञायज्ञियं द्वितीयम् । तदेवं द्वादश स्तोत्राणि । संख्यासाम्यन्मासद्वारा संवत्सरसंपत्तौ सत्यां स्वर्गवासिना संवत्सरदेवेनाग्निष्टोमः समो भवति । तमेतं शाखान्तरपक्षं दूषयित्वा स्वपक्षं विधत्ते- तत्तन्न सूर्क्ष्य॑म् । उ॒क्थ्या॑ ए॒व सं॑स॒दृशाः परः॑सामा॒नः का॒र्याः (१) । प॒शवो॒ वा उ॒क्थानि॑ । प॒शूना॒मव॑रुद्ध्यै, इति । परःसामारख्या अहर्विशेषा अग्निष्टोमरूपा इति यदन्यैरुक्तं तत्तथा न सूर्क्ष्यं न द्रष्टव्यम् । सूर्क्ष दर्शन इति धातुः । कथं तर्हीति तदुच्यते । उक्थ्यनामकानि द्वादशेभ्यःस्तोत्रेभ्य उपरितनानि त्रीणि स्तोत्राणि यस्मिन्क्रतौ सोऽयमुक्थ्यः । तादृश एव परःसामारख्या अहर्विशेषाः सप्तदशस्तोमयुक्ताः कर्तव्याः। यानि त्रीण्युक्थ्यस्तोत्राणि तानि पशुप्तिहेतुत्वात्पशव एव। तस्मादुक्थ्यानुष्ठानं पशुप्तये भवति । उभयपार्श्ववर्तिभ्यः परःसामारव्येभ्योऽहर्विशेषेभ्यः पुरस्तादु- परिष्टाच्च द्वे अहनी विधत्ते- वि॒श्व॒जि॒द॒भि॒जिता॑व॒ग्नि॒ष्टोमौ॒, इति ।
८४ (१.२.२) तैत्तिरीयब्राह्मणम् विश्वजिदाख्यो योऽयमेकाहः स उक्थ्येभ्यः पुरस्तात्कर्तव्यः स च षष्ठे मासि सप्तविंशे दिने प्राप्नोति । अभिजिदाख्योऽपर एकाहः स च पुरःसामभ्य उपरिष्टात्कर्तव्यः । तथा सति विषुवत उपरितने मासि चतुर्थदिने प्राप्नोति । तावेतावग्निष्टोमौ द्वादशस्तोत्रयुक्तावेव कार्यौ । अथ पूर्वोक्तान्यहानि प्रशंसति- उ॒क्थ्या॑: स॒प्तद॒शाः प॒रः सामा॑नः । ते सँस्तु॑ना वि॒राज॑म॒भिसंप॑द्यन्ते । द्वे च॒र्चौवि॑ति॒रिच्ये॑ते । एक॑या॒ गौर॑ति॒रिक्त॑: । एक॑याऽऽयु॒रून॑: । सु॒व॒र्गो वै लो॒को ज्योति॑: । ऊर्ध्वि॒राट् (२) । सु॒व॒र्गमे॒व तेन॑ लो॒कम॒भिज॑यन्ति, इति । विषुवतः पुरस्तादुपरिष्टाच्च सप्तदशस्तोमयुक्ताः परःसामाख्या अहर्विशेषा उक्थ्यरूपा ये पूर्वं विहिताः सन्ति तेषु विद्यमानाः स्तोत्रविशेषा विराजं दशसंख्यां संपद्यन्ते । तत्प्रकारस्तु सामवेदविहितप्रकारेण गणयित्वा द्रष्टव्यः । ते च परःसामानः पूर्वस्मिन्पक्षे ज्योतिर्गौरायुुरित्येवमनुक्रमेण कर्तव्याः । उत्तरस्मिन्पक्ष आयुर्गौर्ज्योतिरित्येवं व्युत्क्रमेण कर्तव्याः । तत्र तत्र सामवेदोक्तप्रकारेण गोनामकः क्रतुरेकया स्तोतृतया दशसंख्यातोऽतिरिच्यते । आयुर्नामकः क्रतुरेकया न्यूनः । तयोरुभयोर्मेलनेन पुनरपि षट् संख्या पूर्यते । किंचैतेषु योऽयं ज्योति राख्योऽहर्विशेषः स स्वर्गप्रकाशकत्वात्स्वर्ग एव । या च विराड्रूपा लक्षणभूता दशसंख्या सेयमूर्ध्वस्वरूपा । तेन तादृशेन परःसामानुष्ठानेन स्वर्गं लोकमभिजयनन्तीति । अथैतेषु षट्सु परःसामसु पृष्ठस्तोत्रगतानि क्रमेण विधत्ते- यत्पृ॒ ँरा॑थंतरम्॑ । तत्प्र॑थ॒मेऽह॑न्कार्यम्॑ । बृ॒हद्द्वि॒तीये॑ । वै॒रू॒पं तृ॒तीये॑ । वै॒राजं॑ च॑तु॒र्थे । शा॒क्व॒रं प॑ञ्च॒मे । रै॒वत॑ ँ षष्ठे॒ । त दु॑ पृ॒ष्ठेभ्यो॒ नय॑न्ति, इति । पूर्वपक्षवर्तिनि प्रथमे परः साम्नि ज्योतिराख्ये रथंतरेण निष्पाद्यं राथंतरं यत्पृष्ठस्तोत्रं तत्कर्तव्यम् । द्वितीयेऽह्नि गोनामके बृहत्साम्नि निष्पाद्यं पृष्ठस्तोत्रं कार्यम् । आयुर्नामके तृतीये वैरूपसामयुक्तं पृष्ठस्तोत्रं कार्यम् । विषुवत ऊर्ध्वभाविन्यायुर्नाम्नि चतुर्थे परः साम्नि वैराजसामयुक्तं पृष्ठस्तोत्रम् । पञ्चमे गोनाम्नि शाक्वरसामयुक्तं पृष्ठस्तोत्रम् । ज्योतिर्नाम्नि षष्ठे रैवतकसामयुक्तं पृष्ठस्तोत्रम् । तद् तेनैव प्रकारेणानुतिष्ठन्त एतान्यहानि
तैत्तिरीयब्राह्मणम् (१.२.२) ८५ पृष्ठेभ्यः पृष्ठ (ष्ठ्य) षडहगतेभ्योऽहोभ्य उपरि नयन्ति । यद्यप्येतानि ज्योतिरादीन्यभिप्लवषडहगतान्यहानि तथाऽपि रथंतरादिपृष्ठस्तो- त्रयोगात्पृष्ठ (ष्ठ्य) षडहगतान्येव संपद्यन्त इत्यर्थः । अथैतेष्वहःस्वतिग्राह्यविशेषान्विधत्ते- सं॒तन॑य ए॒ते ग्रहा॑ गृह्यन्ते (३) । अ॒ति॒ग्रा॒ह्याः॑ परः सामसु इ॒माने॒वैतैर्लो॒कान्त्संत॑न्वन्ति, इति । संहितायां तृतीयकाण्डे तृतीयप्रपाठके -“देवा वै यद्यज्ञेन नावारुन्धत" इत्यस्मिन्षष्ठेऽनुवाके परः शब्दाभियेयास्त्रयोऽतिग्राह्या विहिताः। तत्र" अद्भ्यस्त्वौषधीभ्यो गृह्णामि " इति प्रथमस्य मन्त्र । " ओषधीभ्यस्त्वा प्रजाभ्यो गृह्णामि " इति द्वितीयस्य मन्त्रः । “प्रजाभ्यस्त्वा प्रजापतये गृह्णामि" इति तृतीयस्य मन्त्रः । एभिर्मन्त्रैः परःसामसु ज्योतिर्गौरायुुरित्येतेष्वहःसु अतिग्राह्यनामकाः ग्रहाः संतनयः संतता ग्रहीतव्याः । प्रथमेऽह्नि प्रथमो द्वितीयेऽह्नि द्वितीयस्तृतीयेऽह्नि तृतीय इत्येवं सांतत्यम् । एतैः संततं गृहीतैरिमान्भूरादींस्त्रींल्लोकान्संततान्कुर्वन्ति । अथ विषुवत ऊर्ध्वभाविषु परः सामसु व्युत्क्रमेण तानेव ग्रहान्विधत्ते - मि॒थु॒ना ए॒ते ग्रहा॑ गृह्यन्ते । अ॒ति॒ग्रा॒ह्याः॑ प॒रःसाम॑सु । मि॒थु॒नमे॒व तैर्यज॑माना॒ अवरु॑न्धते, इति । एते ग्रहाः पूर्वेष्वहःस्वनुक्रमगता उत्तरेष्वहःसु व्युत्क्रमगताः । एतच्च संहितायामेव स्पष्टमाम्नातम्-“पूर्वेष्वहःस्वितः पराञ्चो गृह्यन्त उत्तरेष्वहः- स्वमुतोऽर्वाञ्चो गृह्यन्ते" इति । उत्तरगतान्यहान्यप्यायुर्गौर्ज्योतिरित्युेवं व्युत्क्रमगतानि । एवं च सति प्रथमषष्ठयोर्ज्योतिराख्ययोरह्लोरब्भ्य त्यादिमन्त्रयुक्तोऽतिग्राह्यो द्विरावृत्तः । गोनाम्नोर्द्वितीयपञ्चमयोरोषधीभ्य इतिमन्त्रयुक्तोऽ तिग्राह्यो द्विरावृत्तः । आयुर्नाम्नोस्तृतीयचतुर्थयोः प्रजाभ्य इतिमन्त्रयुक्तोऽतिग्राह्यो द्विरावृत्तः । एवं सत्येते मिथुनरूपाः संपद्यन्ते। तैर्यजमाना मिथुनं प्राप्नुवन्ति । अथ विषुवद्दिने पृष्ठस्तोत्रगतं साम विधत्ते- बृ॒हत्पृ॒ष्ठं भ॑वति । बृ॒हद्वै सु॑व॒र्गो लो॒कः । बृ॒हतै॒व सु॑व॒र्गं लो॒कं य॑न्ति, इति । बृहत्साम्नः स्वर्गप्राप्तिहेतुत्वात्तद्रूपत्वम् ।
८६ (१.२.२) तैत्तिरीयब्राह्मणम् पृष्ठस्तोत्रे सामविशेषं विधाय पवमानस्तोत्रे सामविशेषं विधत्ते- त्र॒यस्त्रिँ॑शी॒ नाम॒ साम॑ । मा॒ध्यं॒दि॒ने प॑व॒माने॑ भवति (४) । त्र॒य॑स्त्रि ँ शद्द्वै दे॒वता॑: । दे॒वता॑ ए॒वाव॑रुन्धते, इति । त्रयस्त्रिंशीति कस्यचित्साम्नो नामधेयम् । तच्च साम माध्यंदिने पवमानाख्ये स्तोत्रे गायेत् । देवतानामियं संख्या-“त्रिंशत्त्रयश्च गणिनः” इत्यादिमन्त्रे प्रसिद्धा । इदानीं विषुवत उत्तरेषु परः सामसु पूर्वोक्तविपरीतक्रमं विधत्ते- ये वा इ॒तः परा॑ञ्च ँ संवत्स॒रमु॑प॒यन्ति॑ । न हैन॑न् ते स्व॒स्ति सम॑श्नुवते । अथ॒येऽमुतो॒ऽर्वाञ्च॑मु॒पयन्ति॑ । ते हैन॑ ँ स्व॒स्ति सम॑श्नुवते । ए॒तद्वा अ॒मुतो॒ऽर्वाञ्च॑मु॒पय॑न्ति । यदे॒वम् । यो ह॒ खलु॒ वाव प्र॒जाप॑तिः । स उ॑ वे॒वेन्द्र॑: । तदु॑ दे॒वेभ्यो॒ नय॑न्ति (५), इति । कार्या॒ विराड् गृ॑ह्यन्ते पवमाने भवतीन्द्र॒ एकं॑ च । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके द्वितीयाध्याये द्वितीयोऽनुवाकः ॥ २ ॥ ये यजमान इतो भूलोकरूपादद्भ्य इत्यादिमन्त्रयुक्ताद- तिग्राह्यादारभ्य पराञ्चमनुक्रमगतमेव संवत्सरक्रतुमनुतिष्ठन्ति ते यजमाना एनं क्रतुं स्वस्ति क्षेमेण न समश्नुवते न सम्यक्प्राप्नुवन्ति । ये तु विषुवत् ऊर्ध्वममुतो द्युलोकरूपात्प्रजाभ्यस्त्वेत्यादिमन्त्रयुक्तात्तृतीया- दतिग्राह्यादारभ्यार्वाञ्चं व्युत्क्रमगतं संवत्सरक्रतुमनुतिष्ठन्ति त एव यजमाना एनं क्रतुं क्षेमेण समापयन्ति । एवमतिग्राह्याणां व्युत्क्रमानुष्ठानं यदस्त्येतेनैव प्रकारेणामुतोऽन्तादारभ्यार्वाञ्चं व्युत्क्रमगतं संवत्सरमनुष्ठितवन्तो भवन्ति । तस्मादेवमनुतिष्ठेदित्यर्थः । यः संवत्सरसत्रात्मकः प्रजापतिः स एवेन्द्रो देवानामधिपतिः । तस्मात्कारणाद्देवेभ्यो नयन्ति । देवार्थमेवैनं क्रतुमधिष्ठितवन्तो भवन्ति । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये द्वितीयप्रपाठके द्वितीयोऽनुवाकः ॥ २ ॥
तैत्तिरीयब्राह्मणम् (१.२.३) ८७ अथ द्वितीयप्रपाके तृतीयोऽनुवाकः द्वितीयेऽनुवाके नवाहानि विहितानि । अथ तृतीयेऽनुवाके तेषां मध्यमेऽह्नि विषुवति केचिद्विशेषा उच्यन्ते । पूर्वत्र षड् दिनेषु पराञ्चोऽर्वाञ्चश्च येऽतिग्राह्या विहितास्तानुभयविधानस्मिन्र्विषुवत्यह्नि विधत्ते- सं॒त॒तिर्वा ए॒ते ग्रहाः॑ । यत्परः॑ सा॒मानः॑ । वि॒षु॒वान्दि॑वाकी॒र्त्यम् । यथा॑ शा॒लायै॑ पक्ष॑सी । ए॒व ँ सं॑वत्स॒रस्य॒ पक्ष॑सी । यदे॒ते न गृ॒ह्ये॑रन् । विषू॑ची संवत्स॒रस्य॑ पक्ष॑सी॒ व्य॑वस्रँसेयाताम् । आर्ति॒मार्छे॑युः यदे॒ते गृ॒ह्यन्ते॑ । यथा॑ शा॒लायै॑ पक्ष॑सी मध्य॒मं व ँ॑शम॒भिस॑माय॒च्छति॑ । (१) । ए॒व ँ सं॑वत्स॒रस्य॒ पक्ष॑सी दिवाकी॒र्त्य॑ म॒भिसंत॑न्वन्ति । नाऽऽर्ति॒मार्छ॑न्ति, इति । परःसामशब्देन तदर्हगताः पूर्वोक्ताः । पराञ्चोऽर्वाञ्चश्चातिग्राह्या लक्ष्यन्ते । तादृशा ये सन्ति ते संततिरूपा । अविच्छेदकररज्जुस्थानीयाः। यत्तु दिवाकीर्त्यमहः सोऽहर्विशेषो विषूवान् । दिवाैव कीर्त्यं सर्वमनुष्ठेयं न तु रात्राविति दिवाकीर्त्यम् । विष्वक्परस्परविपरीतत्वेन वर्तमानावुभौ पक्षौ यस्याहर्विशेषस्य सोऽयं विषूवान् । तदेतदहर्लौकिकदृष्टान्तेन स्पष्टी क्रियते । लोके प्रौढां शालां कुर्वन्तो मध्य उन्नतांस्तम्भांस्थापयित्वा तेषामग्रे तिर्यग्वंशं दीर्घं प्रतिष्ठाप्य तदाधारेणोभौ शालापक्षौ निर्मिमीते । यथा लौकिकी शालैवमत्रापि संवत्सरसत्ररूपां शाला । तस्याश्च विषूवानेव स्तम्भाग्रगतवंशस्थानीयः । पूर्वोत्तरमासषट्कद्वयं पक्षद्वयस्थानीयम् । तत्र पूर्वोत्तरेषु परःसामसु षडहःसुमध्यमे च विषुवति गृह्यमाणा अतिग्राह्याः पृष्ठवंशपक्षद्वयबन्धनरज्जुस्थानीयाः । एवं सति यद्येते ऽतिग्राह्याः परः सामसु विषुवति च न गृह्येरंस्तदा संवत्सरस्य पार्श्वद्वयवर्तिनौ पक्षौ विष्वग्गतौ सन्तौ विस्रस्तौ विनष्टौ भवेताम् । ततो यजमाना आर्तिं प्राप्नुयुः । यदि त्वतिग्राह्या गृह्यन्ते तदानीं यथा लोके शालायाः पक्षद्वयं मध्यमेन वंशेन सह पुरुषो रज्ज्वा दृढं बध्नात्येवमस्य संवत्सरसत्रस्य पक्षद्वयस्थानीयं मासषट्कद्वयं . वंशस्थानीयस्य दिवाकीर्त्यस्योभयोः पार्श्वयोस्तेन दिवाकीर्त्येन सह दृढं संतन्वन्ति । तस्मिंश्च सातत्ये सति यजमाना आर्तिं नाऽऽप्नुवन्ति । तस्मात्परःसामस्विव विषुवत्यपि सांतत्यायातिग्राह्याः कर्तव्या इति तात्पर्यार्थः । अथ विषुवत्यहनि स्तोमविशेषं ग्रहक्रमविशेषं च विधत्ते-
८८ (१.२.३) तैत्तिरीयब्राह्मणम् ए॒क॒विं॒शमह॑र्भवति । शुक्राग्रा॒ ग्रहा॑ गृह्यन्ते । प्रत्युत्त॑ब्ध्यै सय॒त्वाय॑, इति । त्रिवृत्पञ्चदशसप्तदशापेक्षयाऽयमेकविंशस्तोम उन्नततः । एतदनुष्ठानेन वंशस्थानीयस्य विषुवतः प्रत्युत्तब्ध्यै प्राप्तिस्विकायोन्नत- बन्धाय भवति । ग्रहाणां चैन्द्रवायव्याग्नेयत्वं परित्यज्य शुक्राग्रत्वानुष्ठानेन सयत्वं भवति । षिञ् बन्धन इत्यस्माद्धातोत्पन्नः सयशब्दः । शुक्राग्रग्रहसामर्थ्येन दृढबन्धनं भवतीति भावः । अथ तस्मिन्पशुविशेषमतिग्राह्यविशेषं च क्रमेण विधत्ते- सौ॒र्य ए॒तदह॑ः प॒शुरा॒लभ्य॑ते । सौ॒र्योऽति॑ग्राह्यो॑ गृह्यते । अह॑रेव रू॒पेण॒ समर्ध॑यन्ति । अथो॒ अह॑ ए॒वैष ब॒लिर्हि॑यते, इति । एतस्मिन्विषुवत्यह्नि सूर्यदेवताकः पशुरालम्भनीयः । अतिग्राह्यश्च सूर्यदेवताको ग्रहीतव्यः । तथा सति दिवाकीर्त्यस्याह्नः सूर्यसंबन्धेन रूपं समृद्धं भवति । अपि चैतस्याह्नः सूर्यसंबन्धरूप एव बलिः पूजा कृता भवति । विषुवद्दिनगतामतिग्राह्यसंख्यां प्रशंसति- स॒प्तैतदह॑रतिग्रा॒ह्या॑ गृह्यन्ते (२) । स॒प्त वै शी॑र्ष॒ण्या॑ः प्रा॒णाः । असा॒वादित्यः शिर॑ः प्र॒जाना॑म् । शीर्ष॒न्नेव प्र॒जानां॑ प्रा॒णान्द॑धाति । तस्मा॑त्स॒प्त शीर्ष॒न्प्राणा॑ः, इति । परःसामसंबन्धिनोऽङ्क्यस्त्वोषधीभ्य इत्यादिमन्त्रसाध्याः पराञ्चो- ऽर्वाञ्चश्चातिग्राह्याः षट्संख्या विषुवति विहिताः । तेषां मध्ये सौर्य एक एवमेते सप्तसंख्याकाः शिरोगतच्छिद्रवर्तिनश्च प्राणाः सप्त मध्यातिग्राह्यस्य देव आदित्य ऊर्ध्ववर्तित्वात्प्रजानां शिरः स्थानीयः । तथा सति प्रजानां शिरस्येव प्राणाः स्थापिता भवन्ति । तस्माल्लोके सर्वत्र शिरसि सप्त प्राणा दृश्यन्ते । अथाष्टममतिग्राह्यं विधत्ते - इन्द्रो॑ वृ॒त्र ँह॒त्वा । असु॑रान्परा॒भाव्य॑ । स इ॒माँल्लो॒- कान्॒भ्य॑जयत् । तस्या॒सौ लो॒कोऽन॑भिजित आसीत् । तं
तैत्तिरीयब्राह्मणम् (१.२.३) ८९ वि॒श्वक॑र्मा भू॒त्वाऽभ्य॑जयत् । यद्वै॑श्वक॒र्म॒णो गृ॒ह्यते॑ (३) । सु॒व॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै, इति । पुरा कदाचिदिन्द्रो वृत्रं हत्वा तदीयानसुरांश्च तिरस्कृत्य लोकान्वशीकुर्वन्स्वर्गं न वशीचकार । ततः स्वयं विश्वकर्मा भूत्वा तं स्वर्गमभ्यजयत् । अतो वैश्वकर्मणातिग्राह्येण स्वर्गाभिजयो भवति । परेद्युरदितिदेवताकमतिग्राह्यं विधत्ते- प्र वा ए॒तेऽस्माल्लो॒काच्च्य॑वन्ते । ये वै॑श्वक॒र्म॒णं गृ॒ह्वते॑ । आ॒दि॒त्यः श्वो गृ॑ह्यते । इ॒यं वा अदि॑तिः । अ॒स्यामे॒व प्रति॑तिष्ठन्ति, इति । वैश्वकर्मणस्य स्वर्गहेतुत्वात्तस्माल्लोकात्पच्यवन्ते प्रच्युता भवन्ति । तस्मादेतल्लोकप्रतिष्ठार्थमदितिदेवताकं गृह्णीयात् । योऽयं विषुवति वैश्वकर्मणोऽतिग्राह्यो यश्च परेद्युरादित्योऽतिग्राह्यस्तदुभयं प्रशंसति- अ॒न्योऽन्यो गृ॑ह्येते । विश्वा॒न्ये॒वान्ये॑न॒ कर्मा॑णि कु॒र्वाणा य॑न्ति । अ॒स्याम॒न्ये॑न॒ प्रति॑तिष्ठन्ति, इति । विषुवति वैश्वकर्मणाख्योऽन्यः परेद्युरादित्याख्योऽन्यो गृह्येते इत्येवमेकैकः पृथग्ग्रहीतव्यः । तत्र विषुवत्यनुष्ठितेनान्येन वैश्वकर्मणेन विश्वानि कर्माणि कुर्वाणा यजमानाः समाप्तिं प्राप्नुवन्ति । परेद्युरनुष्ठितादितिदेवताकेनान्येन भूमौ प्रतितिष्ठन्तीति । उत्तरेष्वपि दिनेषु पर्यायेणैतद् ग्रहद्वयं विधत्ते- तावाप॑रा॒र्धात्संवत्स॒रस्या॒न्योऽन्यो गृ॒ह्येते॑, इति । संवत्सरसत्रस्य द्वावर्धौ । तत्र यः परोऽर्ध उत्तरषण्मासात्मकस्तत्समाप्तिपर्यन्तमेकस्मिन्दिने वैश्वकर्मणः परेद्युरादित्यग्रहद्वयमनुष्ठेयम् । उत्तरमासषट्कस्योपान्त्ये दिने तयोरुभयोः प्रयोगं विधत्ते -
९० (१.२.४) तैत्तिरीयब्राह्मणम् तावु॒भौ स॒ह म॑हाव्र॒ते गृ॑ह्येते । य॒ज्ञस्यै॒वान्तं॑ ग॒त्वा । उ॒भयो॑र्लोकयो॒: प्रति॑तिष्ठन्ति, इति । महाव्रतदिवसो यज्ञस्यान्तः । परेद्युरेव सत्रसमाप्तेस्तत्र ग्रहणे सति यज्ञसमाप्तौ लोकद्वये प्रतिष्ठा भवति । सोऽयं ग्रहग्रहणप्रकारः सूत्रे स्पष्टमभिहितः- “तानूर्ध्वानिवृत्तांश्च तेषां मध्ये सौर्य उदुत्यं जातवेदसमित्येतस्मिन्नेवाहनि वैश्वकर्मणमतिग्राह्याणामष्टमं गृह्णाति वाचस्पतिं विश्वकर्माणमिति । श्वोभूत आदित्यं महीमूषुमातरमिति तावेवमेव व्यत्यासं गृह्णात्यामहाव्रतात्तौ सह महाव्रत” इति । अथ विषुवति शस्त्रविशेषं विधत्ते- अ॒र्क्य॑मु॒क्थं भ॑वति । अन्ना॒द्यस्याव॑रुद्ध्यै, (४) इति । स॒मा॒यच्छ॑त्यतिग्रा॒ह्या गृ॒ह्यते॑ गृह्य॒ते सं॑वत्स॒रस्या॒न्योऽन्यो गृ॒ह्येते॑ प॒ञ्च च । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके द्वितीयाध्याये तृतीयः प्रपाठ(योऽनुवा)कः ॥ ३ ॥ अर्चनीयो देवोऽर्कस्तत्संबद्धमुक्थं शस्त्रमर्क्यं तच्छंसनीयम् । “अर्को वै देवानामन्नम्” इति श्रुत्यन्तरादन्नप्राप्तिर्युक्ता । इति श्रुत्यन्तरादन्नप्राप्तिर्युक्ता । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे द्वितीयप्रपाठके तृतीयोऽनुवाकः ॥ ३ ॥ अथ द्वितीय प्रपाठके चतुर्थोऽनुवाकः । तृतीयेऽनुवाके विषुवद्दिनेऽतिग्राह्यविशेषाः उक्ताः । अथ चतुर्थे तस्मिन्नेव दिने दिवाकीर्त्यनामानि सामान्युच्यन्ते । यद्विहितं पूर्वानुवाक एकविंशमहर्भवतीति तदिह तावदादौ प्रशंसति- ए॒क॒वि॒ꣳ॒श ए॒ष भ॑वति । ए॒तेन॒ वै दे॒वा एक॑वि॒ꣳ॒शेन॑ । आ॒दि॒त्यामि॑त ऊ॒र्ध्वꣳ सु॑व॒र्गं लो॒कमरो॑हयन् । स वा ए॒ष
इत॒ एक॑वि॒ꣳ॒शः । तस्य॒ दशा॒वस्ता॒दहा॑नि । दश परस्ता॑त् । स वा ए॒ष वि॒राज्युभयतः॒ प्रति॑ष्ठितः । वि॒राट्झि॒ हि वा ए॒ष उ॒भयतः॒ प्रति॑ष्ठितः । तस्मा॑दन्त॒रेमौ यन् । सर्वे॑षु सुव॒र्गेषु॑ लो॒केष्व॒भित॑पन्नेति (१), इति । एष विषुवानेकविंशस्तोमको भवति । एतेनैकविंशस्तोमेन पुरा देवा इतो भूलोकादुत्कृष्टतमं स्वर्गलोकं प्रत्यादित्यमारोहयन् । न केवलमेकविंशस्तोमयोगेनाह्न एकविंशत्वम् । किंत्वितोऽपि कारणात्स एष विषुवानेकविंशः। किं तत्कारणमिति तदुच्यते । तस्य ऽधोभागेऽभिप्लवषडहव्यतिरिक्तानि दशाहानि विद्यन्ते । तद्यथा-पृष्ठ्यः षडहः, अभिजिदेकाहः त्रयः परः सामानोऽ हविर्शेषाः, इत्येवं दशाहानि । तथा विषुवत ऊर्ध्वमपि । तथा हि- आवृत्त्या त्रयः परःसामानः, अभिजिदेकाहः पृष्ठ्यः षडहः, इत्येवं दशाहानि । सोऽयं विषुवानुभयतो दशसंख्यायुक्तत्वेन विराड्रूपेऽहः संघे प्रतिष्ठितः। यस्मादेष विषुवानुभयतो विराजि प्रतिष्ठितस्तस्मादेतदीयेनैकविंशेन स्वर्गमारूढ आदित्योऽप्युभयतोऽस्मिन्संधरारूपे विराजि प्रतिष्ठितः । अधस्तात्पञ्च शतानि रश्मयः । उपरिष्टात्पञ्च शतानि । यद्वा प्रधानभूता रश्मयोऽधस्ताद्दशोपरिष्टाद्दश । तस्माद्विराजि प्रतिष्ठितत्वादन- योर्लोकयोर्मध्ये संचरन्नादित्य ऊर्ध्वस्थितेषु द्युलोकादिषु स्वर्गेष्वधःस्थितेषु भौमेषु पातालवर्तिषु च स्वर्गेषु स्वकीय- रश्मिभिरभितपन्संचरति । एवमादित्यसदृशत्वादयं विषुवान्प्रशस्तः । अथ विषुवति दिवाकीर्त्यसामानि विधत्ते- दे॒वा वा आ॑दि॒त्यस्य॑ सुव॒र्गस्य॑ लो॒कस्य॑ । परा॑चोऽ- तिपा॒दाद॑बिभयुः । तं छन्दो॑भिरदृ॒ꣳ॒हन्दृ॒त्यै॑ । दे॒वा वा आ॒दि॒त्यस्य॑ सुव॒र्गस्य॑ लो॒कस्य॑ । अवा॑चोऽवपा॒दाद॑बिभयुः । तं प॒ञ्चभी॑ र॒श्मिभि॑रुद॑वयन् । तस्मा॑देकवि॒ꣳ॒शेऽह॒न्पञ्च॑ दिवाकी॒र्त्या॑नि क्रियन्ते । र॒श्मयो॒ वै दि॑वाकी॒र्त्या॑नि, इति । स्वर्गलोकंगतो योऽयमादित्यस्तस्य पराचोऽ तिपादात्पुनरावृत्तिरहितादूर्ध्वभाविनोऽतिगमनाद्देवा भीता आदित्यो निरवधिकमूर्ध्वं गच्छति न तु स्वर्गे स्थास्यतीति भीतास्तत्परिहाराय