तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 110, कुल 345 में से
संदर्भ में पढ़ेंतैत्तिरीयब्राह्मणम् (१.२.१) ८१ प॒ञ्च॒धाऽग्नीन्व्य॑क्रामत् । वि॒राट्सृ॒ष्टा प्र॒जाप॑तेः । ऊ॒र्ध्वाऽऽरौ॑हद्रोहि॒णी । योनि॑र॒ग्नेः प्र॒ति॑ष्ठितिः ( २७) । विश॑न्तु नः पु॒रूची॒र्विधे॑म नि॒धाय॑ यत्ते॒ऽप्र॑दाहाय बृ॒हत्यौ ब्रह्म॑णा दुवस्यत वि॒श्ववा॑र इ॒ममृ॑ञ्जते पुरो॒गां प्र॑ज॑नयि॒ष्यथौ॑ जनिष्य॒तैऽस्मै॑ मर्म महिम्ना वर्च॑से दध॑त्सुव॒र्गां मा॑हि संबभूवतुरायुर॒र्त्यान॑शे चतु॑ष्पदः स॒तां प्र॒जाप॑तेर्द्धं च॑ । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके द्वितीयाध्याये प्रथमोऽनुवाकः ॥ १ ॥ कल्पः-“पञ्चधाऽग्नीन्व्यक्रामद्विराट् सृष्टा प्रजापतेरूर्ध्वाऽऽरोह- द्रोहिणी योनिरग्नेः प्रतिष्ठितिरिति सर्वान्” इति । यजमान उपतिष्ठत इत्यनुवर्तते । प्रजापतेः संबन्धिनी येयं सृष्टा विराड्विशेषेण राजमाना गोशरीरधारिणी तानेतानग्नीन्पञ्चधा व्यक्रामद्विभज्य क्रान्तवती। अस्मिन्प्रदेशे गार्हपत्योऽस्मिन्नाहवनीय इत्येवं पदेनाऽऽक्रम्य दर्शितवतीत्यर्थः । सा पुनः स्वस्याः प्रयोजनविशेषमेव पश्यन्त्यूर्ध्वाऽभिमुखी द्युलोकमारोहत् । आरुह्य च रोहिण्यभूत् । सा चाग्नेर्योनिः कारणभूता प्रतिष्ठाहेतुश्च । रोहिणीनक्षत्रेऽग्नीनामाधेयत्वात् । अत्र विनियोगसंग्रहः- उद्धन्य भूमिमुद्धन्ति शं नो देवीरवोक्षति । वैश्वेति सिकता न्युप्य यदेत्युषान्वपेत्तथा ॥ १ ॥ ऊतीराखुकरीषं चोर्जं वल्मीकवपां प्रजाम् । सूदं यस्य तु वाराहीमृदं यत्पद्यपत्रकम् ॥ २ ॥ याभिस्तु शर्करा अग्नेः स्वर्णमश्वेति पिप्पलम् । ऊर्ज औदुम्बरं गायद्द्वाभ्यां पर्ण यया शमीम् ॥ ३ ॥ यत्ते विकङ्कतं यत्तेऽशनिदग्धं तरुं तथा । चित्रीयश्वत्थसमिधोऽश्वत्थादरणिमन्त्रणम् ॥ ४ ॥ यो अश्वावरण्युपादानं यं त्वां संभारसादनम् । प्रवे ब्रह्मौदने होमस्तत्रिभिः समिध क्षिपेत् ॥ ५ ॥ समित्रिभिस्तु राजन्यस्त्वां त्रयेण च वैश्यकः । प्रजा अजं प्रबध्नाति मही अरणीवीक्षणम् ॥ ६ ॥