तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 109, कुल 345 में से
संदर्भ में पढ़ें८० (१.२.१) तैत्तिरीयब्राह्मणम् मन्त्रविशेषा ऋगादयः । गृहक्षेत्रादिपालनं परित्यज्य मन्त्रपालनप्रार्थने कारयेत्युच्यते । सतां सन्मार्गवर्तिनामृगादिरूपा सा खल्वमृता श्रीः । धनादिरूपायाः श्रियो बहुधा विनाशः संभावितः ऋगादिरूपायास्तु पुनः पुनरभ्यासेनाभिवृद्धिरेव न तूपक्षयः । चतुः॑शिखण्डा युव॒तिः सु॒पेशा॑: । घृ॒तप्र॑तीका॒ भुव॑नस्य मध्यै॑ । म॒मृ॒ज्यमा॑ना मह॒ते सौभ॑गाय । मह्यं॑ धुक्ष्व॒ यज॑मानाय॒ कामा॑न् । कल्पः-“चतुःशिखण्डा युवतिः सुपेशा घृतप्रतीका भुवनस्य मध्ये मर्मृज्यमाना महते सौभागाय मह्यं धुक्ष्व यजमानाय कामानिति वेदिं संमृज्यमानाम्” इति । अनुमन्त्रयत इति शेषः । अस्य च दर्शपूर्णमासगतयाजमानत्वात्तस्याङ्ग एवायं मन्त्र उत्तरे द्रष्टव्यः । बालानां मूर्धगताः शिखण्डाश्चत्वारः । शिखण्डवदुन्नताः श्रोणिद्वयांसद्वयप्रदेश यस्या वेदेः सा चतुःशिखण्डा युवतिर्मिश्रयित्री । सर्वाणि हवींषि वेद्यां मिश्री भवन्ति । तत्राऽऽहितत्वात् । सुपेशाः सुपर्णं तद्वच्छोभमानं यस्याः सा सुपेशाः । घृतप्रतीका घृतमेव प्रतीके मुखे यस्याः सा घृतप्रतीका आदावाज्यमेव वेद्यामासद्यते । तादृशी वेदिर्भुवनस्य मध्येऽस्माकं महते सौभागाय मर्मृज्यमानाऽतिशयेन शोध्यमाना वर्तते । हे वेदे यजमानाय मह्यं कामान्धुक्ष्व संपादय । इ॒हैव सन्तंत्र॒ सतो॑ वो अग्नयः । प्रा॒णेन॑ वा॒चा मन॑सा बिभर्मि । तिरो मा॒ सन्त॒मायु॒र्मा प्रहा॑सीत् । ज्योति॑षा वो वैश्वान॒रेणोप॑तिष्ठे । कल्पः-“इहैव सन्तत्र सतो वो अग्नयः प्राणेन वाचा मनसा बिभर्मि तिरो मा संतमायुर्मा प्रहासीज्ज्योतिषा वो वैश्वानरेणोपतिष्ठ इति यद्यनुपस्थाय प्रवसेदेतयैवोपत्तिष्ठेत” इति । अग्निहोत्रिणो ग्रामान्तरगमने प्राप्ते सत्यग्न्युपस्थानं कृत्वा पश्चाद्गन्तव्यम् । यदि कदाचिन्महत उपस्थानस्यावसरो न स्यात्तदानीमेतयैवैकयोपतिष्ठेत । हेऽग्नय इहैव देशे सन्नहं तत्र तत्र गृहविशेषे सतो वर्तमानान्युष्मान्प्राणेन वाचा मनसा बिभर्मि धारयामि । ग्रामान्तरे गतस्यापि मम प्राणादयो भवद्विषयदेशवर्तित्वेन तिरोभूय सन्तमवस्थितं मामायुर्मा प्रहासीन्मा परित्यजतु । वैश्वानरेण सर्वमनुष्यहितेन ज्योतिषा युक्तान्वो युष्मानुपतिष्ठे यत्र तत्र स्थितोऽप्यहं सेवे । अयं मन्त्रोऽग्न्युपस्थानप्रकरणेऽग्निहोत्रविषये नेतव्यः ।