भारतकोश
संग्रह पर लौटें

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

८० (१.२.१) तैत्तिरीयब्राह्मणम् मन्त्रविशेषा ऋगादयः । गृहक्षेत्रादिपालनं परित्यज्य मन्त्रपालनप्रार्थने कारयेत्युच्यते । सतां सन्मार्गवर्तिनामृगादिरूपा सा खल्वमृता श्रीः । धनादिरूपायाः श्रियो बहुधा विनाशः संभावितः ऋगादिरूपायास्तु पुनः पुनरभ्यासेनाभिवृद्धिरेव न तूपक्षयः । चतुः॑शिखण्डा युव॒तिः सु॒पेशा॑: । घृ॒तप्र॑तीका॒ भुव॑नस्य मध्यै॑ । म॒मृ॒ज्यमा॑ना मह॒ते सौभ॑गाय । मह्यं॑ धुक्ष्व॒ यज॑मानाय॒ कामा॑न् । कल्पः-“चतुःशिखण्डा युवतिः सुपेशा घृतप्रतीका भुवनस्य मध्ये मर्मृज्यमाना महते सौभागाय मह्यं धुक्ष्व यजमानाय कामानिति वेदिं संमृज्यमानाम्” इति । अनुमन्त्रयत इति शेषः । अस्य च दर्शपूर्णमासगतयाजमानत्वात्तस्याङ्ग एवायं मन्त्र उत्तरे द्रष्टव्यः । बालानां मूर्धगताः शिखण्डाश्चत्वारः । शिखण्डवदुन्नताः श्रोणिद्वयांसद्वयप्रदेश यस्या वेदेः सा चतुःशिखण्डा युवतिर्मिश्रयित्री । सर्वाणि हवींषि वेद्यां मिश्री भवन्ति । तत्राऽऽहितत्वात् । सुपेशाः सुपर्णं तद्वच्छोभमानं यस्याः सा सुपेशाः । घृतप्रतीका घृतमेव प्रतीके मुखे यस्याः सा घृतप्रतीका आदावाज्यमेव वेद्यामासद्यते । तादृशी वेदिर्भुवनस्य मध्येऽस्माकं महते सौभागाय मर्मृज्यमानाऽतिशयेन शोध्यमाना वर्तते । हे वेदे यजमानाय मह्यं कामान्धुक्ष्व संपादय । इ॒हैव सन्तंत्र॒ सतो॑ वो अग्नयः । प्रा॒णेन॑ वा॒चा मन॑सा बिभर्मि । तिरो मा॒ सन्त॒मायु॒र्मा प्रहा॑सीत् । ज्योति॑षा वो वैश्वान॒रेणोप॑तिष्ठे । कल्पः-“इहैव सन्तत्र सतो वो अग्नयः प्राणेन वाचा मनसा बिभर्मि तिरो मा संतमायुर्मा प्रहासीज्ज्योतिषा वो वैश्वानरेणोपतिष्ठ इति यद्यनुपस्थाय प्रवसेदेतयैवोपत्तिष्ठेत” इति । अग्निहोत्रिणो ग्रामान्तरगमने प्राप्ते सत्यग्न्युपस्थानं कृत्वा पश्चाद्गन्तव्यम् । यदि कदाचिन्महत उपस्थानस्यावसरो न स्यात्तदानीमेतयैवैकयोपतिष्ठेत । हेऽग्नय इहैव देशे सन्नहं तत्र तत्र गृहविशेषे सतो वर्तमानान्युष्मान्प्राणेन वाचा मनसा बिभर्मि धारयामि । ग्रामान्तरे गतस्यापि मम प्राणादयो भवद्विषयदेशवर्तित्वेन तिरोभूय सन्तमवस्थितं मामायुर्मा प्रहासीन्मा परित्यजतु । वैश्वानरेण सर्वमनुष्यहितेन ज्योतिषा युक्तान्वो युष्मानुपतिष्ठे यत्र तत्र स्थितोऽप्यहं सेवे । अयं मन्त्रोऽग्न्युपस्थानप्रकरणेऽग्निहोत्रविषये नेतव्यः ।

तैत्तिरीयब्राह्मणम् (१.२.१) ८१ प॒ञ्च॒धाऽग्नीन्व्य॑क्रामत् । वि॒राट्सृ॒ष्टा प्र॒जाप॑तेः । ऊ॒र्ध्वाऽऽरौ॑हद्रोहि॒णी । योनि॑र॒ग्नेः प्र॒ति॑ष्ठितिः ( २७) । विश॑न्तु नः पु॒रूची॒र्विधे॑म नि॒धाय॑ यत्ते॒ऽप्र॑दाहाय बृ॒हत्यौ ब्रह्म॑णा दुवस्यत वि॒श्ववा॑र इ॒ममृ॑ञ्जते पुरो॒गां प्र॑ज॑नयि॒ष्यथौ॑ जनिष्य॒तैऽस्मै॑ मर्म महिम्ना वर्च॑से दध॑त्सुव॒र्गां मा॑हि संबभूवतुरायुर॒र्त्यान॑शे चतु॑ष्पदः स॒तां प्र॒जाप॑तेर्द्धं च॑ । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके द्वितीयाध्याये प्रथमोऽनुवाकः ॥ १ ॥ कल्पः-“पञ्चधाऽग्नीन्व्यक्रामद्विराट् सृष्टा प्रजापतेरूर्ध्वाऽऽरोह- द्रोहिणी योनिरग्नेः प्रतिष्ठितिरिति सर्वान्” इति । यजमान उपतिष्ठत इत्यनुवर्तते । प्रजापतेः संबन्धिनी येयं सृष्टा विराड्विशेषेण राजमाना गोशरीरधारिणी तानेतानग्नीन्पञ्चधा व्यक्रामद्विभज्य क्रान्तवती। अस्मिन्प्रदेशे गार्हपत्योऽस्मिन्नाहवनीय इत्येवं पदेनाऽऽक्रम्य दर्शितवतीत्यर्थः । सा पुनः स्वस्याः प्रयोजनविशेषमेव पश्यन्त्यूर्ध्वाऽभिमुखी द्युलोकमारोहत् । आरुह्य च रोहिण्यभूत् । सा चाग्नेर्योनिः कारणभूता प्रतिष्ठाहेतुश्च । रोहिणीनक्षत्रेऽग्नीनामाधेयत्वात् । अत्र विनियोगसंग्रहः- उद्धन्य भूमिमुद्धन्ति शं नो देवीरवोक्षति । वैश्वेति सिकता न्युप्य यदेत्युषान्वपेत्तथा ॥ १ ॥ ऊतीराखुकरीषं चोर्जं वल्मीकवपां प्रजाम् । सूदं यस्य तु वाराहीमृदं यत्पद्यपत्रकम् ॥ २ ॥ याभिस्तु शर्करा अग्नेः स्वर्णमश्वेति पिप्पलम् । ऊर्ज औदुम्बरं गायद्द्वाभ्यां पर्ण यया शमीम् ॥ ३ ॥ यत्ते विकङ्कतं यत्तेऽशनिदग्धं तरुं तथा । चित्रीयश्वत्थसमिधोऽश्वत्थादरणिमन्त्रणम् ॥ ४ ॥ यो अश्वावरण्युपादानं यं त्वां संभारसादनम् । प्रवे ब्रह्मौदने होमस्तत्रिभिः समिध क्षिपेत् ॥ ५ ॥ समित्रिभिस्तु राजन्यस्त्वां त्रयेण च वैश्यकः । प्रजा अजं प्रबध्नाति मही अरणीवीक्षणम् ॥ ६ ॥

(१.२.२) तैत्तिरीयब्राह्मणम् आगोऽरणी प्रगृह्णाति ऋत्विग्द्वाभ्यां तु मन्त्रणम् । अनु वाचं नियम्याथ शल्कै रात्रौ समिध्यते ।। ७ ।। जात द्वाभ्यां प्रातरग्नावरणी निष्पेत्तथा । अपेति स्थानमुद्धन्यादग्नेस्तु सिकता वपेत् ।। ८ ।। सं वो द्वाभ्यां तु संभारान्वानस्पत्यान्संसृजेत् । ऋग्द्वाभ्यामग्न्युपस्थानं दिवस्त्वापोश्वमानलम् ।। ९ ।। आधातेजीजनन्नाग्निमञ्जलौ धारयेत्तृजाः । जातं प्राणित्यहं पूर्वानिलाधानेऽभिमन्त्रयेत् ।। १० ।। प्राणे त्वा पश्चिमाधा नं सुगार्हेत्यभिमन्त्रणम् । इमाः प्राञ्चोऽभियान्त्योजस्त्रिभिरुद्यम्यतेऽनलः ।। ११ ।। प्राची त्रिभिः पूर्वयानं यदि वह्न्यभिमन्त्रणम् । प्राणं द्वाभ्या पूर्ववह्नेस्स्थानं ह्यनुमन्त्रयेत् ।। १२ ।। उपस्थितिर्नयं पञ्च चतुर्वेदिं समीक्षते । इह गन्तुरुपस्थानं पञ्च सर्वाग्निमन्त्रणम् ।। अत्राऽऽधानगता मन्त्रा द्वासप्ततिरुदीरिताः ।। १३ ।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे द्वितीयप्रपाठके प्रथमोऽनुवाकः ।। १ ।। अथ द्वितीयप्रपाठके द्वितीयोऽनुवाकः । प्रथमेऽनुवाक आधानमन्त्रा उक्ताः । तावताऽऽ धानं समाप्तम् । अथ पञ्चस्वनुवाकेषु गवामयने केचिद्विशेषा उच्यन्ते । तत्रास्मिन्ननुवाके विषुवन्नामकं मुख्यमहः । तदुभयपार्श्ववर्त्तीनि चत्वार्यहान्युच्यन्ते । तदेतद्विधत्ते - नवै॒तान्यहा॑नि भवन्ति । नव॒ वै सु॑व॒र्गा लो॒काः । यदे॒तान्यहा॑न्यु॒पयन्ति॑ । नव॑स्वे॒व तत्सु॑व॒र्गेषु॑ लो॒केषु॑ स॒त्रिणः॑ प्र॒तिति॑ष्ठन्तो यन्ति, इति । षष्ठे मासि षड्विंशतिसंख्याकेष्वहस्सु गतेष्ववशिष्टानि चत्वार्यहानि तत ऊर्ध्वं विषुवन्नामकमेकं मुख्यमहः । ततोऽप्यूर्ध्वमुत्तर- मासषट्कस्याऽऽदौ चत्वार्यहानीत्येवमेतानि नवसंख्याकान्य-

तैत्तिरीयब्राह्मणम् (१.२.२) ८३ हान्त्यनुष्ठेयानि । अष्टाभिर्लोकपालैःपरिपालिता अष्टसंख्याकाः स्वर्गा लोकास्तेषां मध्ये कश्चिदूर्ध्वदिग्वर्ती स्वर्ग इत्येवं नवसंख्याकाः स्वर्गाः । तेषु नवस्वपि तेन यथोक्तानुष्ठानेन प्रतिष्ठां प्राप्नुवन्तो गच्छन्ति । अत्र कंचिच्छाखान्तरीयं पक्षमुपन्यस्यति- अ॒ग्नि॒ष्टोमाः॑ परः॒ सामा॑नः का॒र्या ३ इत्या॑हुः । अ॒ग्नि॒ष्टोम॑संमितः सुव॒र्गो लो॒क इति॑ । द्वाद॑शाग्नि॒ष्टोम॑स्य स्तोत्रा॑णि । द्वाद॑श॒ मासाः॑ संवत्स॒रः, इति । परांस्युत्कृष्टतराणि सामानि येष्वहर्विशेषेषु ते परःसामानः । तेषु विषुवतोऽह्नः त्रयस्त्रयस्ते षडप्यग्निष्टोमात्मकाः कर्तव्या इति शाखान्तराध्यायिन आहुः । तत्रायं हेतुः । अग्निष्टोमेन सदृशः स्वर्गस्तत्कथमिति तदुच्यते । अग्निष्टोमस्य द्वादशसंख्याकानि स्तोत्राणि विद्यन्ते । प्रातः सवने बहिष्पवमानाख्यमेकं स्तोत्रं चत्वार्याज्यस्तोत्राणि । माध्यंदिने सवने माध्यंदिनपवमानाख्यमेकं स्तोत्रम् । पृष्ठस्तोत्राणि चत्वारि । तृतीयसवन आर्भभवपवमानाख्यमेकं स्तोत्रं यज्ञायज्ञियं द्वितीयम् । तदेवं द्वादश स्तोत्राणि । संख्यासाम्यन्मासद्वारा संवत्सरसंपत्तौ सत्यां स्वर्गवासिना संवत्सरदेवेनाग्निष्टोमः समो भवति । तमेतं शाखान्तरपक्षं दूषयित्वा स्वपक्षं विधत्ते- तत्तन्न सूर्क्ष्य॑म् । उ॒क्थ्या॑ ए॒व सं॑स॒दृशाः परः॑सामा॒नः का॒र्याः (१) । प॒शवो॒ वा उ॒क्थानि॑ । प॒शूना॒मव॑रुद्ध्यै, इति । परःसामारख्या अहर्विशेषा अग्निष्टोमरूपा इति यदन्यैरुक्तं तत्तथा न सूर्क्ष्यं न द्रष्टव्यम् । सूर्क्ष दर्शन इति धातुः । कथं तर्हीति तदुच्यते । उक्थ्यनामकानि द्वादशेभ्यःस्तोत्रेभ्य उपरितनानि त्रीणि स्तोत्राणि यस्मिन्क्रतौ सोऽयमुक्थ्यः । तादृश एव परःसामारख्या अहर्विशेषाः सप्तदशस्तोमयुक्ताः कर्तव्याः। यानि त्रीण्युक्थ्यस्तोत्राणि तानि पशुप्तिहेतुत्वात्पशव एव। तस्मादुक्थ्यानुष्ठानं पशुप्तये भवति । उभयपार्श्ववर्तिभ्यः परःसामारव्येभ्योऽहर्विशेषेभ्यः पुरस्तादु- परिष्टाच्च द्वे अहनी विधत्ते- वि॒श्व॒जि॒द॒भि॒जिता॑व॒ग्नि॒ष्टोमौ॒, इति ।

८४ (१.२.२) तैत्तिरीयब्राह्मणम् विश्वजिदाख्यो योऽयमेकाहः स उक्थ्येभ्यः पुरस्तात्कर्तव्यः स च षष्ठे मासि सप्तविंशे दिने प्राप्नोति । अभिजिदाख्योऽपर एकाहः स च पुरःसामभ्य उपरिष्टात्कर्तव्यः । तथा सति विषुवत उपरितने मासि चतुर्थदिने प्राप्नोति । तावेतावग्निष्टोमौ द्वादशस्तोत्रयुक्तावेव कार्यौ । अथ पूर्वोक्तान्यहानि प्रशंसति- उ॒क्थ्या॑: स॒प्तद॒शाः प॒रः सामा॑नः । ते सँस्तु॑ना वि॒राज॑म॒भिसंप॑द्यन्ते । द्वे च॒र्चौवि॑ति॒रिच्ये॑ते । एक॑या॒ गौर॑ति॒रिक्त॑: । एक॑याऽऽयु॒रून॑: । सु॒व॒र्गो वै लो॒को ज्योति॑: । ऊर्ध्वि॒राट् (२) । सु॒व॒र्गमे॒व तेन॑ लो॒कम॒भिज॑यन्ति, इति । विषुवतः पुरस्तादुपरिष्टाच्च सप्तदशस्तोमयुक्ताः परःसामाख्या अहर्विशेषा उक्थ्यरूपा ये पूर्वं विहिताः सन्ति तेषु विद्यमानाः स्तोत्रविशेषा विराजं दशसंख्यां संपद्यन्ते । तत्प्रकारस्तु सामवेदविहितप्रकारेण गणयित्वा द्रष्टव्यः । ते च परःसामानः पूर्वस्मिन्पक्षे ज्योतिर्गौरायुुरित्येवमनुक्रमेण कर्तव्याः । उत्तरस्मिन्पक्ष आयुर्गौर्ज्योतिरित्येवं व्युत्क्रमेण कर्तव्याः । तत्र तत्र सामवेदोक्तप्रकारेण गोनामकः क्रतुरेकया स्तोतृतया दशसंख्यातोऽतिरिच्यते । आयुर्नामकः क्रतुरेकया न्यूनः । तयोरुभयोर्मेलनेन पुनरपि षट् संख्या पूर्यते । किंचैतेषु योऽयं ज्योति राख्योऽहर्विशेषः स स्वर्गप्रकाशकत्वात्स्वर्ग एव । या च विराड्रूपा लक्षणभूता दशसंख्या सेयमूर्ध्वस्वरूपा । तेन तादृशेन परःसामानुष्ठानेन स्वर्गं लोकमभिजयनन्तीति । अथैतेषु षट्सु परःसामसु पृष्ठस्तोत्रगतानि क्रमेण विधत्ते- यत्पृ॒ ँरा॑थंतरम्॑ । तत्प्र॑थ॒मेऽह॑न्कार्यम्॑ । बृ॒हद्द्वि॒तीये॑ । वै॒रू॒पं तृ॒तीये॑ । वै॒राजं॑ च॑तु॒र्थे । शा॒क्व॒रं प॑ञ्च॒मे । रै॒वत॑ ँ षष्ठे॒ । त दु॑ पृ॒ष्ठेभ्यो॒ नय॑न्ति, इति । पूर्वपक्षवर्तिनि प्रथमे परः साम्नि ज्योतिराख्ये रथंतरेण निष्पाद्यं राथंतरं यत्पृष्ठस्तोत्रं तत्कर्तव्यम् । द्वितीयेऽह्नि गोनामके बृहत्साम्नि निष्पाद्यं पृष्ठस्तोत्रं कार्यम् । आयुर्नामके तृतीये वैरूपसामयुक्तं पृष्ठस्तोत्रं कार्यम् । विषुवत ऊर्ध्वभाविन्यायुर्नाम्नि चतुर्थे परः साम्नि वैराजसामयुक्तं पृष्ठस्तोत्रम् । पञ्चमे गोनाम्नि शाक्वरसामयुक्तं पृष्ठस्तोत्रम् । ज्योतिर्नाम्नि षष्ठे रैवतकसामयुक्तं पृष्ठस्तोत्रम् । तद् तेनैव प्रकारेणानुतिष्ठन्त एतान्यहानि

तैत्तिरीयब्राह्मणम् (१.२.२) ८५ पृष्ठेभ्यः पृष्ठ (ष्ठ्य) षडहगतेभ्योऽहोभ्य उपरि नयन्ति । यद्यप्येतानि ज्योतिरादीन्यभिप्लवषडहगतान्यहानि तथाऽपि रथंतरादिपृष्ठस्तो- त्रयोगात्पृष्ठ (ष्ठ्य) षडहगतान्येव संपद्यन्त इत्यर्थः । अथैतेष्वहःस्वतिग्राह्यविशेषान्विधत्ते- सं॒तन॑य ए॒ते ग्रहा॑ गृह्यन्ते (३) । अ॒ति॒ग्रा॒ह्याः॑ परः सामसु इ॒माने॒वैतैर्लो॒कान्त्संत॑न्वन्ति, इति । संहितायां तृतीयकाण्डे तृतीयप्रपाठके -“देवा वै यद्यज्ञेन नावारुन्धत" इत्यस्मिन्षष्ठेऽनुवाके परः शब्दाभियेयास्त्रयोऽतिग्राह्या विहिताः। तत्र" अद्भ्यस्त्वौषधीभ्यो गृह्णामि " इति प्रथमस्य मन्त्र । " ओषधीभ्यस्त्वा प्रजाभ्यो गृह्णामि " इति द्वितीयस्य मन्त्रः । “प्रजाभ्यस्त्वा प्रजापतये गृह्णामि" इति तृतीयस्य मन्त्रः । एभिर्मन्त्रैः परःसामसु ज्योतिर्गौरायुुरित्येतेष्वहःसु अतिग्राह्यनामकाः ग्रहाः संतनयः संतता ग्रहीतव्याः । प्रथमेऽह्नि प्रथमो द्वितीयेऽह्नि द्वितीयस्तृतीयेऽह्नि तृतीय इत्येवं सांतत्यम् । एतैः संततं गृहीतैरिमान्भूरादींस्त्रींल्लोकान्संततान्कुर्वन्ति । अथ विषुवत ऊर्ध्वभाविषु परः सामसु व्युत्क्रमेण तानेव ग्रहान्विधत्ते - मि॒थु॒ना ए॒ते ग्रहा॑ गृह्यन्ते । अ॒ति॒ग्रा॒ह्याः॑ प॒रःसाम॑सु । मि॒थु॒नमे॒व तैर्यज॑माना॒ अवरु॑न्धते, इति । एते ग्रहाः पूर्वेष्वहःस्वनुक्रमगता उत्तरेष्वहःसु व्युत्क्रमगताः । एतच्च संहितायामेव स्पष्टमाम्नातम्-“पूर्वेष्वहःस्वितः पराञ्चो गृह्यन्त उत्तरेष्वहः- स्वमुतोऽर्वाञ्चो गृह्यन्ते" इति । उत्तरगतान्यहान्यप्यायुर्गौर्ज्योतिरित्युेवं व्युत्क्रमगतानि । एवं च सति प्रथमषष्ठयोर्ज्योतिराख्ययोरह्लोरब्भ्य त्यादिमन्त्रयुक्तोऽतिग्राह्यो द्विरावृत्तः । गोनाम्नोर्द्वितीयपञ्चमयोरोषधीभ्य इतिमन्त्रयुक्तोऽ तिग्राह्यो द्विरावृत्तः । आयुर्नाम्नोस्तृतीयचतुर्थयोः प्रजाभ्य इतिमन्त्रयुक्तोऽतिग्राह्यो द्विरावृत्तः । एवं सत्येते मिथुनरूपाः संपद्यन्ते। तैर्यजमाना मिथुनं प्राप्नुवन्ति । अथ विषुवद्दिने पृष्ठस्तोत्रगतं साम विधत्ते- बृ॒हत्पृ॒ष्ठं भ॑वति । बृ॒हद्वै सु॑व॒र्गो लो॒कः । बृ॒हतै॒व सु॑व॒र्गं लो॒कं य॑न्ति, इति । बृहत्साम्नः स्वर्गप्राप्तिहेतुत्वात्तद्रूपत्वम् ।

८६ (१.२.२) तैत्तिरीयब्राह्मणम् पृष्ठस्तोत्रे सामविशेषं विधाय पवमानस्तोत्रे सामविशेषं विधत्ते- त्र॒यस्त्रिँ॑शी॒ नाम॒ साम॑ । मा॒ध्यं॒दि॒ने प॑व॒माने॑ भवति (४) । त्र॒य॑स्त्रि ँ शद्द्वै दे॒वता॑: । दे॒वता॑ ए॒वाव॑रुन्धते, इति । त्रयस्त्रिंशीति कस्यचित्साम्नो नामधेयम् । तच्च साम माध्यंदिने पवमानाख्ये स्तोत्रे गायेत् । देवतानामियं संख्या-“त्रिंशत्त्रयश्च गणिनः” इत्यादिमन्त्रे प्रसिद्धा । इदानीं विषुवत उत्तरेषु परः सामसु पूर्वोक्तविपरीतक्रमं विधत्ते- ये वा इ॒तः परा॑ञ्च ँ संवत्स॒रमु॑प॒यन्ति॑ । न हैन॑न् ते स्व॒स्ति सम॑श्नुवते । अथ॒येऽमुतो॒ऽर्वाञ्च॑मु॒पयन्ति॑ । ते हैन॑ ँ स्व॒स्ति सम॑श्नुवते । ए॒तद्वा अ॒मुतो॒ऽर्वाञ्च॑मु॒पय॑न्ति । यदे॒वम् । यो ह॒ खलु॒ वाव प्र॒जाप॑तिः । स उ॑ वे॒वेन्द्र॑: । तदु॑ दे॒वेभ्यो॒ नय॑न्ति (५), इति । कार्या॒ विराड् गृ॑ह्यन्ते पवमाने भवतीन्द्र॒ एकं॑ च । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके द्वितीयाध्याये द्वितीयोऽनुवाकः ॥ २ ॥ ये यजमान इतो भूलोकरूपादद्भ्य इत्यादिमन्त्रयुक्ताद- तिग्राह्यादारभ्य पराञ्चमनुक्रमगतमेव संवत्सरक्रतुमनुतिष्ठन्ति ते यजमाना एनं क्रतुं स्वस्ति क्षेमेण न समश्नुवते न सम्यक्प्राप्नुवन्ति । ये तु विषुवत् ऊर्ध्वममुतो द्युलोकरूपात्प्रजाभ्यस्त्वेत्यादिमन्त्रयुक्तात्तृतीया- दतिग्राह्यादारभ्यार्वाञ्चं व्युत्क्रमगतं संवत्सरक्रतुमनुतिष्ठन्ति त एव यजमाना एनं क्रतुं क्षेमेण समापयन्ति । एवमतिग्राह्याणां व्युत्क्रमानुष्ठानं यदस्त्येतेनैव प्रकारेणामुतोऽन्तादारभ्यार्वाञ्चं व्युत्क्रमगतं संवत्सरमनुष्ठितवन्तो भवन्ति । तस्मादेवमनुतिष्ठेदित्यर्थः । यः संवत्सरसत्रात्मकः प्रजापतिः स एवेन्द्रो देवानामधिपतिः । तस्मात्कारणाद्देवेभ्यो नयन्ति । देवार्थमेवैनं क्रतुमधिष्ठितवन्तो भवन्ति । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये द्वितीयप्रपाठके द्वितीयोऽनुवाकः ॥ २ ॥

तैत्तिरीयब्राह्मणम् (१.२.३) ८७ अथ द्वितीयप्रपाके तृतीयोऽनुवाकः द्वितीयेऽनुवाके नवाहानि विहितानि । अथ तृतीयेऽनुवाके तेषां मध्यमेऽह्नि विषुवति केचिद्विशेषा उच्यन्ते । पूर्वत्र षड् दिनेषु पराञ्चोऽर्वाञ्चश्च येऽतिग्राह्या विहितास्तानुभयविधानस्मिन्र्विषुवत्यह्नि विधत्ते- सं॒त॒तिर्वा ए॒ते ग्रहाः॑ । यत्परः॑ सा॒मानः॑ । वि॒षु॒वान्दि॑वाकी॒र्त्यम् । यथा॑ शा॒लायै॑ पक्ष॑सी । ए॒व ँ सं॑वत्स॒रस्य॒ पक्ष॑सी । यदे॒ते न गृ॒ह्ये॑रन् । विषू॑ची संवत्स॒रस्य॑ पक्ष॑सी॒ व्य॑वस्रँसेयाताम् । आर्ति॒मार्छे॑युः यदे॒ते गृ॒ह्यन्ते॑ । यथा॑ शा॒लायै॑ पक्ष॑सी मध्य॒मं व ँ॑शम॒भिस॑माय॒च्छति॑ । (१) । ए॒व ँ सं॑वत्स॒रस्य॒ पक्ष॑सी दिवाकी॒र्त्य॑ म॒भिसंत॑न्वन्ति । नाऽऽर्ति॒मार्छ॑न्ति, इति । परःसामशब्देन तदर्हगताः पूर्वोक्ताः । पराञ्चोऽर्वाञ्चश्चातिग्राह्या लक्ष्यन्ते । तादृशा ये सन्ति ते संततिरूपा । अविच्छेदकररज्जुस्थानीयाः। यत्तु दिवाकीर्त्यमहः सोऽहर्विशेषो विषूवान् । दिवाैव कीर्त्यं सर्वमनुष्ठेयं न तु रात्राविति दिवाकीर्त्यम् । विष्वक्परस्परविपरीतत्वेन वर्तमानावुभौ पक्षौ यस्याहर्विशेषस्य सोऽयं विषूवान् । तदेतदहर्लौकिकदृष्टान्तेन स्पष्टी क्रियते । लोके प्रौढां शालां कुर्वन्तो मध्य उन्नतांस्तम्भांस्थापयित्वा तेषामग्रे तिर्यग्वंशं दीर्घं प्रतिष्ठाप्य तदाधारेणोभौ शालापक्षौ निर्मिमीते । यथा लौकिकी शालैवमत्रापि संवत्सरसत्ररूपां शाला । तस्याश्च विषूवानेव स्तम्भाग्रगतवंशस्थानीयः । पूर्वोत्तरमासषट्कद्वयं पक्षद्वयस्थानीयम् । तत्र पूर्वोत्तरेषु परःसामसु षडहःसुमध्यमे च विषुवति गृह्यमाणा अतिग्राह्याः पृष्ठवंशपक्षद्वयबन्धनरज्जुस्थानीयाः । एवं सति यद्येते ऽतिग्राह्याः परः सामसु विषुवति च न गृह्येरंस्तदा संवत्सरस्य पार्श्वद्वयवर्तिनौ पक्षौ विष्वग्गतौ सन्तौ विस्रस्तौ विनष्टौ भवेताम् । ततो यजमाना आर्तिं प्राप्नुयुः । यदि त्वतिग्राह्या गृह्यन्ते तदानीं यथा लोके शालायाः पक्षद्वयं मध्यमेन वंशेन सह पुरुषो रज्ज्वा दृढं बध्नात्येवमस्य संवत्सरसत्रस्य पक्षद्वयस्थानीयं मासषट्कद्वयं . वंशस्थानीयस्य दिवाकीर्त्यस्योभयोः पार्श्वयोस्तेन दिवाकीर्त्येन सह दृढं संतन्वन्ति । तस्मिंश्च सातत्ये सति यजमाना आर्तिं नाऽऽप्नुवन्ति । तस्मात्परःसामस्विव विषुवत्यपि सांतत्यायातिग्राह्याः कर्तव्या इति तात्पर्यार्थः । अथ विषुवत्यहनि स्तोमविशेषं ग्रहक्रमविशेषं च विधत्ते-

८८ (१.२.३) तैत्तिरीयब्राह्मणम् ए॒क॒विं॒शमह॑र्भवति । शुक्राग्रा॒ ग्रहा॑ गृह्यन्ते । प्रत्युत्त॑ब्ध्यै सय॒त्वाय॑, इति । त्रिवृत्पञ्चदशसप्तदशापेक्षयाऽयमेकविंशस्तोम उन्नततः । एतदनुष्ठानेन वंशस्थानीयस्य विषुवतः प्रत्युत्तब्ध्यै प्राप्तिस्विकायोन्नत- बन्धाय भवति । ग्रहाणां चैन्द्रवायव्याग्नेयत्वं परित्यज्य शुक्राग्रत्वानुष्ठानेन सयत्वं भवति । षिञ् बन्धन इत्यस्माद्धातोत्पन्नः सयशब्दः । शुक्राग्रग्रहसामर्थ्येन दृढबन्धनं भवतीति भावः । अथ तस्मिन्पशुविशेषमतिग्राह्यविशेषं च क्रमेण विधत्ते- सौ॒र्य ए॒तदह॑ः प॒शुरा॒लभ्य॑ते । सौ॒र्योऽति॑ग्राह्यो॑ गृह्यते । अह॑रेव रू॒पेण॒ समर्ध॑यन्ति । अथो॒ अह॑ ए॒वैष ब॒लिर्हि॑यते, इति । एतस्मिन्विषुवत्यह्नि सूर्यदेवताकः पशुरालम्भनीयः । अतिग्राह्यश्च सूर्यदेवताको ग्रहीतव्यः । तथा सति दिवाकीर्त्यस्याह्नः सूर्यसंबन्धेन रूपं समृद्धं भवति । अपि चैतस्याह्नः सूर्यसंबन्धरूप एव बलिः पूजा कृता भवति । विषुवद्दिनगतामतिग्राह्यसंख्यां प्रशंसति- स॒प्तैतदह॑रतिग्रा॒ह्या॑ गृह्यन्ते (२) । स॒प्त वै शी॑र्ष॒ण्या॑ः प्रा॒णाः । असा॒वादित्यः शिर॑ः प्र॒जाना॑म् । शीर्ष॒न्नेव प्र॒जानां॑ प्रा॒णान्द॑धाति । तस्मा॑त्स॒प्त शीर्ष॒न्प्राणा॑ः, इति । परःसामसंबन्धिनोऽङ्क्यस्त्वोषधीभ्य इत्यादिमन्त्रसाध्याः पराञ्चो- ऽर्वाञ्चश्चातिग्राह्याः षट्संख्या विषुवति विहिताः । तेषां मध्ये सौर्य एक एवमेते सप्तसंख्याकाः शिरोगतच्छिद्रवर्तिनश्च प्राणाः सप्त मध्यातिग्राह्यस्य देव आदित्य ऊर्ध्ववर्तित्वात्प्रजानां शिरः स्थानीयः । तथा सति प्रजानां शिरस्येव प्राणाः स्थापिता भवन्ति । तस्माल्लोके सर्वत्र शिरसि सप्त प्राणा दृश्यन्ते । अथाष्टममतिग्राह्यं विधत्ते - इन्द्रो॑ वृ॒त्र ँह॒त्वा । असु॑रान्परा॒भाव्य॑ । स इ॒माँल्लो॒- कान्॒भ्य॑जयत् । तस्या॒सौ लो॒कोऽन॑भिजित आसीत् । तं

तैत्तिरीयब्राह्मणम् (१.२.३) ८९ वि॒श्वक॑र्मा भू॒त्वाऽभ्य॑जयत् । यद्वै॑श्वक॒र्म॒णो गृ॒ह्यते॑ (३) । सु॒व॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै, इति । पुरा कदाचिदिन्द्रो वृत्रं हत्वा तदीयानसुरांश्च तिरस्कृत्य लोकान्वशीकुर्वन्स्वर्गं न वशीचकार । ततः स्वयं विश्वकर्मा भूत्वा तं स्वर्गमभ्यजयत् । अतो वैश्वकर्मणातिग्राह्येण स्वर्गाभिजयो भवति । परेद्युरदितिदेवताकमतिग्राह्यं विधत्ते- प्र वा ए॒तेऽस्माल्लो॒काच्च्य॑वन्ते । ये वै॑श्वक॒र्म॒णं गृ॒ह्वते॑ । आ॒दि॒त्यः श्वो गृ॑ह्यते । इ॒यं वा अदि॑तिः । अ॒स्यामे॒व प्रति॑तिष्ठन्ति, इति । वैश्वकर्मणस्य स्वर्गहेतुत्वात्तस्माल्लोकात्पच्यवन्ते प्रच्युता भवन्ति । तस्मादेतल्लोकप्रतिष्ठार्थमदितिदेवताकं गृह्णीयात् । योऽयं विषुवति वैश्वकर्मणोऽतिग्राह्यो यश्च परेद्युरादित्योऽतिग्राह्यस्तदुभयं प्रशंसति- अ॒न्योऽन्यो गृ॑ह्येते । विश्वा॒न्ये॒वान्ये॑न॒ कर्मा॑णि कु॒र्वाणा य॑न्ति । अ॒स्याम॒न्ये॑न॒ प्रति॑तिष्ठन्ति, इति । विषुवति वैश्वकर्मणाख्योऽन्यः परेद्युरादित्याख्योऽन्यो गृह्येते इत्येवमेकैकः पृथग्ग्रहीतव्यः । तत्र विषुवत्यनुष्ठितेनान्येन वैश्वकर्मणेन विश्वानि कर्माणि कुर्वाणा यजमानाः समाप्तिं प्राप्नुवन्ति । परेद्युरनुष्ठितादितिदेवताकेनान्येन भूमौ प्रतितिष्ठन्तीति । उत्तरेष्वपि दिनेषु पर्यायेणैतद् ग्रहद्वयं विधत्ते- तावाप॑रा॒र्धात्संवत्स॒रस्या॒न्योऽन्यो गृ॒ह्येते॑, इति । संवत्सरसत्रस्य द्वावर्धौ । तत्र यः परोऽर्ध उत्तरषण्मासात्मकस्तत्समाप्तिपर्यन्तमेकस्मिन्दिने वैश्वकर्मणः परेद्युरादित्यग्रहद्वयमनुष्ठेयम् । उत्तरमासषट्कस्योपान्त्ये दिने तयोरुभयोः प्रयोगं विधत्ते -

९० (१.२.४) तैत्तिरीयब्राह्मणम् तावु॒भौ स॒ह म॑हाव्र॒ते गृ॑ह्येते । य॒ज्ञस्यै॒वान्तं॑ ग॒त्वा । उ॒भयो॑र्लोकयो॒: प्रति॑तिष्ठन्ति, इति । महाव्रतदिवसो यज्ञस्यान्तः । परेद्युरेव सत्रसमाप्तेस्तत्र ग्रहणे सति यज्ञसमाप्तौ लोकद्वये प्रतिष्ठा भवति । सोऽयं ग्रहग्रहणप्रकारः सूत्रे स्पष्टमभिहितः- “तानूर्ध्वानिवृत्तांश्च तेषां मध्ये सौर्य उदुत्यं जातवेदसमित्येतस्मिन्नेवाहनि वैश्वकर्मणमतिग्राह्याणामष्टमं गृह्णाति वाचस्पतिं विश्वकर्माणमिति । श्वोभूत आदित्यं महीमूषुमातरमिति तावेवमेव व्यत्यासं गृह्णात्यामहाव्रतात्तौ सह महाव्रत” इति । अथ विषुवति शस्त्रविशेषं विधत्ते- अ॒र्क्य॑मु॒क्थं भ॑वति । अन्ना॒द्यस्याव॑रुद्ध्यै, (४) इति । स॒मा॒यच्छ॑त्यतिग्रा॒ह्या गृ॒ह्यते॑ गृह्य॒ते सं॑वत्स॒रस्या॒न्योऽन्यो गृ॒ह्येते॑ प॒ञ्च च । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके द्वितीयाध्याये तृतीयः प्रपाठ(योऽनुवा)कः ॥ ३ ॥ अर्चनीयो देवोऽर्कस्तत्संबद्धमुक्थं शस्त्रमर्क्यं तच्छंसनीयम् । “अर्को वै देवानामन्नम्” इति श्रुत्यन्तरादन्नप्राप्तिर्युक्ता । इति श्रुत्यन्तरादन्नप्राप्तिर्युक्ता । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे द्वितीयप्रपाठके तृतीयोऽनुवाकः ॥ ३ ॥ अथ द्वितीय प्रपाठके चतुर्थोऽनुवाकः । तृतीयेऽनुवाके विषुवद्दिनेऽतिग्राह्यविशेषाः उक्ताः । अथ चतुर्थे तस्मिन्नेव दिने दिवाकीर्त्यनामानि सामान्युच्यन्ते । यद्विहितं पूर्वानुवाक एकविंशमहर्भवतीति तदिह तावदादौ प्रशंसति- ए॒क॒वि॒ꣳ॒श ए॒ष भ॑वति । ए॒तेन॒ वै दे॒वा एक॑वि॒ꣳ॒शेन॑ । आ॒दि॒त्यामि॑त ऊ॒र्ध्वꣳ सु॑व॒र्गं लो॒कमरो॑हयन् । स वा ए॒ष

इत॒ एक॑वि॒ꣳ॒शः । तस्य॒ दशा॒वस्ता॒दहा॑नि । दश परस्ता॑त् । स वा ए॒ष वि॒राज्युभयतः॒ प्रति॑ष्ठितः । वि॒राट्झि॒ हि वा ए॒ष उ॒भयतः॒ प्रति॑ष्ठितः । तस्मा॑दन्त॒रेमौ यन् । सर्वे॑षु सुव॒र्गेषु॑ लो॒केष्व॒भित॑पन्नेति (१), इति । एष विषुवानेकविंशस्तोमको भवति । एतेनैकविंशस्तोमेन पुरा देवा इतो भूलोकादुत्कृष्टतमं स्वर्गलोकं प्रत्यादित्यमारोहयन् । न केवलमेकविंशस्तोमयोगेनाह्न एकविंशत्वम् । किंत्वितोऽपि कारणात्स एष विषुवानेकविंशः। किं तत्कारणमिति तदुच्यते । तस्य ऽधोभागेऽभिप्लवषडहव्यतिरिक्तानि दशाहानि विद्यन्ते । तद्यथा-पृष्ठ्यः षडहः, अभिजिदेकाहः त्रयः परः सामानोऽ हविर्शेषाः, इत्येवं दशाहानि । तथा विषुवत ऊर्ध्वमपि । तथा हि- आवृत्त्या त्रयः परःसामानः, अभिजिदेकाहः पृष्ठ्यः षडहः, इत्येवं दशाहानि । सोऽयं विषुवानुभयतो दशसंख्यायुक्तत्वेन विराड्रूपेऽहः संघे प्रतिष्ठितः। यस्मादेष विषुवानुभयतो विराजि प्रतिष्ठितस्तस्मादेतदीयेनैकविंशेन स्वर्गमारूढ आदित्योऽप्युभयतोऽस्मिन्संधरारूपे विराजि प्रतिष्ठितः । अधस्तात्पञ्च शतानि रश्मयः । उपरिष्टात्पञ्च शतानि । यद्वा प्रधानभूता रश्मयोऽधस्ताद्दशोपरिष्टाद्दश । तस्माद्विराजि प्रतिष्ठितत्वादन- योर्लोकयोर्मध्ये संचरन्नादित्य ऊर्ध्वस्थितेषु द्युलोकादिषु स्वर्गेष्वधःस्थितेषु भौमेषु पातालवर्तिषु च स्वर्गेषु स्वकीय- रश्मिभिरभितपन्संचरति । एवमादित्यसदृशत्वादयं विषुवान्प्रशस्तः । अथ विषुवति दिवाकीर्त्यसामानि विधत्ते- दे॒वा वा आ॑दि॒त्यस्य॑ सुव॒र्गस्य॑ लो॒कस्य॑ । परा॑चोऽ- तिपा॒दाद॑बिभयुः । तं छन्दो॑भिरदृ॒ꣳ॒हन्दृ॒त्यै॑ । दे॒वा वा आ॒दि॒त्यस्य॑ सुव॒र्गस्य॑ लो॒कस्य॑ । अवा॑चोऽवपा॒दाद॑बिभयुः । तं प॒ञ्चभी॑ र॒श्मिभि॑रुद॑वयन् । तस्मा॑देकवि॒ꣳ॒शेऽह॒न्पञ्च॑ दिवाकी॒र्त्या॑नि क्रियन्ते । र॒श्मयो॒ वै दि॑वाकी॒र्त्या॑नि, इति । स्वर्गलोकंगतो योऽयमादित्यस्तस्य पराचोऽ तिपादात्पुनरावृत्तिरहितादूर्ध्वभाविनोऽतिगमनाद्देवा भीता आदित्यो निरवधिकमूर्ध्वं गच्छति न तु स्वर्गे स्थास्यतीति भीतास्तत्परिहाराय

९२ (१.२.४) तैत्तिरीयब्राह्मणम् तमादित्यं सवनगतैर्गायत्र्यादिभिश्चन्दोभिर्दृढंस्तभितवन्तः । रज्जुभिर्बद्धमिवाकुर्वन् । तस्माद्धृत्यै छन्दांसि भवन्ति । ततो देवा आदित्यस्यांवाचोऽवपादादधःपतनादबिभयुः । तत्परिहाराय पञ्चमी रश्मिभिरादित्यमुदवयन्नूर्ध्वमुत्तम्भितवन्तः । तस्मादेकविंशे विषुवत्यह्नि दिवाकीर्त्यनामकानि पञ्च सामानि कर्तव्यानि । तानि च यथोक्तपञ्चरश्मिस्थानानि । अथ सामान्यतो विहितानि पञ्च सामानि विशेषाकारेण विधत्ते- ये गा॑य॒त्रे । ते गा॑यत्री॒षूत्तर॑योः॒ पव॑मानयोः (२) । म॒हादि॑वाकी॒र्त्य ँ होतृ॑ः पृ॒ष्ठम् । वि॒क॒र्णं ब्र॑ह्मसा॒म । भा॒सौऽग्नि॒ष्टोमः॑, इति । गायत्रीछन्दोयुक्ते प्रातः सवने दिवैव कीर्तनीय भ्राजभासाख्ये ये सामनी ते एवोत्तरयोर्माध्यंदिनार्भवपवमानयोर्गायत्रीछन्दस्कास्वृक्षु गातव्ये । महादिवाकीर्त्यनामकं यत्साम तद्धोतृसंबन्धिपृष्ठस्तोत्रं कार्यम् । तथा विकर्णनामकं यत्तद्ब्रह्मसाम कार्यम् । तदेतदुभयं चतुर्षु पृष्ठस्तोत्रेषु प्रथमतृतीययोः संपद्यते । भासाख्यं यत्सामाऽग्निष्टोमसाम कार्यम् । येनाग्निष्टोमः समाप्यते तदग्निष्टोमसाम । एवं विषुवति सामानि पुनरप्युभयतः स्थितानां परःसाम्नां स्तुतिः क्रियते- अथै॒तानि॒ परा॑णि । परै॒र्वे दे॒वा आ॑दि॒त्य ँ सु॑व॒र्गं लो॒कम॑पारयन् । यदपा॑रयन् । तत्परा॑णां प॒रत्वम् । पा॒रय॑न्त्येनं॒ परा॑णि । य ए॒वं वेद॑ । अथै॒तानि॒ स्परा॑णि । स्प॒रैर्वे दे॒वा आ॑दि॒त्य ँ सु॑व॒र्गं यदस्पा॑रयन् । तत्प (त्स्प) राणा ँ स्प॒रत्वम् । स्पा॒रय॑न्त्येन ँ स्परा॑णि । य ए॒वं वेद॑ (३), इति । ए॒ति॒ पव॑मानयोः॒ स्परा॑णि॒ पञ्च॑ च । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके द्वितीयाध्याये चतुर्थोऽनुवाकः ॥ ४ ॥

तैत्तिरीयब्राह्मणम् (१.२.५) ९३ पूर्वोक्तविधिव्यवच्छेदार्थोऽथशब्दः । एतानि पुरस्तादुपरिष्टाच्च कर्तव्यानि परःसामारख्यान्यहानि पराणि परशब्दाभिधेयानि । तत्कथमिति तदुच्यते । पुरा देवाः पराख्यैरैतैरहोभिरेवाऽऽदित्यं स्वर्गं लोकमपार- यन्प्रापितवन्तः। अतः पारयन्त्येभिरिति व्युत्पत्या परत्वं संपन्नम् । य एवं परत्वं जानाति तमेनं पुरुषं पराख्याण्यान्हान्यभीष्टफलसमाप्तिं प्रापयन्ति । अपि चैतानि स्पराब्देनाप्यभिधीयन्ते । स्पारयति प्रीणयत्येभिरिति स्परत्वम् । अन्यत्पूर्ववत् । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय तैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे द्वितीयप्रपाठके चतुर्थोऽनुवाकः ॥ ४ ॥ अथ द्वितीयप्रपाठके पञ्चमोऽनुवाकः । चतुर्थे दिवाकीर्त्यनामानि सामानि विहितानि । अथ पञ्चमे पशवोऽभिधीयन्ते । यदुक्तं सूत्रकारेण-“अथ पशुक्लृप्तिराग्नेयं प्रायणीय आलभन्ते श्वोभूते सारस्वतीं मेषीमेवं विहितानेकादशिनानन्वहमारभन्ते सौर्यं विषुवत्युपालभ्यं तेषामेवेपाकुर्वतां द्वादशाहीयस्य दशरात्रस्य सप्तदश उक्थ्यो द्वात्रिंशतमेकादशिन्यो प्रवृज्यन्ते नवाहान्यतिरिच्यन्ते तेषु गव्यानतिरिक्त पशूनालभन्ते वैष्णवं वामनमेकविँशमैन्द्राग्नं त्रिणवे वैश्वदेवं त्रयस्त्रिँशे द्यावापृथिव्यां धेनुं प्रथमे छन्दोमे तस्या एव वायव्यं वत्सं मध्यम आदित्यमविं वशामुत्तमे मैत्रावरुणीमविवाक्ये प्राजापत्यमृषभं तूपरं महाव्रतमाग्नेयमुदयनीयः” इति । तत्रोक्तान्वैष्णवान्विधातुं प्रस्तौति- अप्र॑तिष्ठां॒ वा ए॒ते ग॑च्छन्ति । येषा॑ᳵसंवत्स॒रेऽना॑प्तेऽथ॑ । एका॑द॒शि॒न्याप्य॑ते॒, इति॑ । येषां यजमानानामसमाप्ते संवत्सरसत्रे सति तत्समाप्तेः प्रागेव पश्वेकादशिनी समाप्यते ते यजमानाः संवत्सरसंपूर्तिपर्यन्तं पश्वभावादप्रतिष्ठां गच्छन्ति । “आग्नेयः कृष्णग्रीवः सारस्वती मेषी बभ्रुः सौम्यः” इत्याद्यनुवाके पञ्चमकाण्डगते पश्वेकादशिनी समाम्नाता । सेयं संवत्सरगतेषु दिनेषु प्रतिदिनमेकैकः पशुरित्येवं क्रमेण पुनः पुनरावर्तनीया । तथा सति द्विपञ्चाशदधिकशतत्रयसंख्याकेष्वहःसु द्वात्रिंशदेकादशिन्यः समाप्यन्ते । इत ऊर्ध्वं पुनरप्येकादशिनी

९४ (१.२.५) तैत्तिरीयब्राह्मणम् कर्तुमशक्या । नवामामेवाहानामवशिष्टत्वात्संवत्सरपूरणाय तावदष्टाहान्यवशिष्टानि । मध्ये विषुवत एकस्याह्नोऽधिकस्य प्रविष्टत्वादत्र नवाहावशेषः । तेषु नवसु पशुभावेन येयमप्रतिष्ठा प्राप्ता तां वारयितुं क्रमेण नव पशून्वैष्णवादीन्विधत्ते- वै॒ष्ण॒वं वा॑म॒नमाल॑भन्ते । य॒ज्ञो वै विष्णु॑:। य॒ज्ञमे॒वाऽ ल॑भन्ते॒ प्रति॑ष्ठित्यै ऐन्द्रा॒ग्नमाल॑भन्ते । इ॒न्द्रा॒ग्नी वै दे॒वाना॒मया॑तयामानौ । ये ए॒व दे॒वते॒ अया॑तयाम्नी । ते ए॒वाऽऽल॑भन्ते (१) । वै॒श्व॒दे॒वमाल॑भन्ते । दे॒वता॑ ए॒वाव॑रुन्धते । द्या॒वा॒पृ॒थि॒व्यां धे॒नुमाल॑भन्ते । द्यावा॑पृथि॒व्योरे॒व प्रति॑तिष्ठन्ति । वा॒य॒व्यं॑ व॒त्समाल॑भन्ते । वा॒युरे॒वैभ्यो॒ यथा॑ऽऽय॒तना॑द्दे॒वता॒ अवरुन्धे । आ॒दि॒त्याम॑तिं व॒शामाल॑भन्ते । इ॒यं वा अदि॑तिः । अ॒स्यामे॒व प्रति॑तिष्ठन्ति । मै॒त्रा॒व॒रू॒णीमाल॑भन्ते (२) । मि॒त्रेणै॒व य॒ज्ञस्य॑ स्वि॑ष्ट ँ शमयन्ति । वरु॑णेन दु॒रिष्ट॑म् । प्रा॒जा॒प॒त्यं तूप॑रं म॑हाव्र॒त आल॑भन्ते । प्रा॒जा॒प॒त्यो॑ऽतिग्रा॒ह्यो॑ गृह्यते । अह॑रे॒व रू॒पेण॒ समर्ध॑यन्ति । अथो॒ अह॑ ए॒वैष ब॒लिर्ह्री॑यते । आ॒ग्ने॒यमाल॑भन्ते प्रति॒प्रज्ञा॑त्यै, इति । प्राजापत्याभ्यां पश्वतिग्राह्याभ्यां महाव्रताख्यमहः प्रजापतिसंबन्धात्स्वानुकूलेन रूपेण समृद्धं भवति । अपि च प्रजापतिसंबंधोऽस्याह्नोऽस्तीतीत्येवं पूजा च संपद्यते । आग्नेयेन च पशुनाऽग्निप्रकाशवद् बुद्धिप्रकाशरूपं प्रज्ञानं संपद्यते । स्पष्टमन्यत् । तानेतान्पशून्देवताद्वारा प्रत्येकं प्रशस्य जातिद्वारा पुनः प्रशंसति- अ॒ज॒पे॒त्वा॒न्वा ए॒ते पूर्वै॒र्मासै॒र्वरु॑न्धते । यदे॒ते ग॒व्याः प॒शव॑ आल॒भ्यन्तै॑ । उ॒भये॑षां प॒शूना॒मव॑रुद्ध्यै, इति । आग्नेयः कृष्णग्रीव इत्यादिकाः सर्वेऽप्यजास्तेष्वन्तिमः पेत्वो

तैत्तिरीयब्राह्मणम् (१.२.६) ९५ गालितवृषणः । अजाश्च पेत्वाश्चाजपेत्वास्तानजपेत्वानेव पशून्पूर्वमासैरेते यजमानाः प्राप्नुवन्ति । इदानीं विधीयमानपशुयुक्तदिनेभ्यः पूर्वेषु मासेषु तादृशानामेव पशूनामालब्धत्वादेतेषु तु विधीयमानेषु पशुषु धेन्वादयो गव्याः सन्ति । तदालम्भने पशूनामुभयेषां पूर्वमालब्धा- नामजानामिदानीमालभ्यमानानां गव्यानां च प्राप्तिर्भवति । पुनरपि व्यतिरेकमुखेन तानेव पशून्प्रशंसति- यद॑तिरि॒क्तामेका॑द॒शिनी॒माल॑भेरन् । अप्रि॑यं भ्रातृ॑व्य॒म॒भ्य॑तिरिच्येत । यद् द्वौद्वौ॑ प॒शू स॒मस्ये॑युः कनी॑य॒ आयुः॑ कुर्वीरन् । यदे॒त ब्रा॑ह्म॒ण वन्त॑: प॒शव॑ आ॒लभ्य॑न्ते । नाप्रि॑यं भ्रातृ॑व्य॒म॒भ्य॑ति॒रिच्य॑ते । न कनी॑य॒ आयु॑: कुर्वते (३) , इति । ते ए॒वाऽऽल॑भन्ते मैत्रावरु॒णीमाल॑भन्ते॒ऽवरु॑द्ध्यै स॒प्त च॑ । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके द्वितीयाध्याये पञ्चमोऽनुवाकः ॥ ५ ॥ अतिविशिष्टेष्वपि दिनेष्वेकादशिन्येवाऽऽलब्धव्येति दुराग्रहाद्यो मन्यते स प्रष्टव्यः किं वत्सरादूर्ध्वदिनद्वयेनातिरिक्ता सेयमेकादशिन्यालब्धव्या किंवा चरमयोर्दिनद्वयोर्द्वौ द्वौ पशू समस्याऽऽ लब्धव्याविति । नाऽऽद्यः । दिनातिरेके सत्यप्रियस्य भ्रातृव्यस्याभिवृद्धिप्रसङ्गात् । न द्वितीयः । एकादशिन्या दिनसंपूर्णा (र्त्य) · भावेनाऽऽयुःक्षयप्रसङ्गात् । अतो दोषद्वयपरिहारायानेन ब्राह्मणेनोक्ताः पशव आलम्भनीयाः । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे द्वितीयप्रपाठके पञ्चमोऽनुवाकः ॥ ५ ॥ अथ द्वितीयप्रपाठके षष्ठोऽनुवाकः । पञ्चमे वैष्णवाद्या नव पशवोऽभिहिताः । अथ षष्ठे महाव्रतमुच्यते तत्राऽऽदौ तच्छब्दनिरुक्तिद्वारेण प्रशंसति- प्र॒जाप॑तिः प्र॒जाः सृ॒ष्ट्वा वृ॑त्तोऽशयत । तं दे॒वा भू॒तानां॒ रसँ॑ तेज॑: सं॒भृत्य॑ । तेनै॑नमभिषज्यन् । म॒हान्वृ॒वती॑ति॑ ।

९६ (१.२.६) तैत्तिरीयब्राह्मणम् तन्म॒हाव्र॒तस्य॑ महाव्रत॒त्वम् । म॒हद् व्र॒तमिति॑ । तन्म॒हाव्र॒तस्य॑ महाव्रत॒त्वम् । म॒हतो॒ व्रतमिति॑ । तन्म॒हाव्र॒तस्य॑ महाव्रत॒त्वम्, इति । प्रजासृष्टिव्यापारेण श्रान्तः प्रजापतिर्यदा शयनं कृतवांस्तदा देवाः सर्वेषां भूतानां सारभूतं तेजः संपाद्य तेन तेजसा तमेनं श्रान्तं प्रजापतिं चिकित्सितवन्तः । ततोऽयं प्रजापतिर्महान्भूदित्युक्तवन्तः । यदिदं रसरूपं तेजस्तदिदं महाव्रताख्ये विद्यमानं हविः । तथा सति महानववर्तिष्ठानेन कर्मणेति व्युत्पत्या तस्य कर्मणो महाव्रतनाम संपन्नम् । यद्वा कर्मणोऽस्य महाफलहेतुत्वेन महत्वान्महच्चतद् व्रतमिति तद् व्युत्पत्तिः । अथवा महतः प्रजापतेरौषधरूपत्वान्महतो व्रतमिति व्युत्पत्तिः । तस्मिन्महाव्रताख्येऽह्नि प्रधानभूतस्तोमं विधत्ते- प॒ञ्च॒विँ॒शः स्तोमो॑ भवति (१) । च॒तुर्विंशत्यर्धमासः॒ सं॑वत्स॒रः । यद्वा ए॒तस्मि॑न्त्सवंत्सरेऽधि॒प्रजा॑यत । तदन्नं॑ पञ्चवि॒ ँशम॑भवत्, इति । एकस्मिन्सूक्ते विद्यमानानां तिसृणामृचामावृत्तिविशेषेण संपाद्यः पञ्चविंशतिसंख्यायुक्तः स्तोमः कर्तव्यः। तत्र चतुर्विंशतिसंख्यायाऽर्धमासद्वारेण संवत्सरसंपत्तिः। यच्चैतस्मिन्संवत्सरे- ऽधिकमन्नमुत्पन्नं तत्पञ्चविंशतिसंख्यापूरकमभवत् । एवं प्रशस्तेन पञ्चविंशतिस्तोमेन युक्तस्याह्नः स्थानविशेषं विधत्ते- म॒ध्य॒तः क्रि॑यते । म॒ध्य॒तो ह्यन्न॑मशि॒तं धि॒नोति॑ । अथो॑ मध्य॑त ए॒व प्र॒जाना॒मूर्ध॑ध्रियते, इति । संवत्सरस्य समाप्तिहेतोरतिरात्ररूपादन्तिमादह्नः पूर्वभावित्वेन संवत्सरमध्ये तदनुष्ठानम् । लोकेऽपि यदन्नमशितं सन्नात्यधिकं नात्यल्पं भवति तदेव मध्यमप्रमाणयुक्तं भोक्तारं प्रीणयति । अति च भुक्तोरसः शरीरमध्य एव स्थाप्यते । तस्मात्संवत्सरमध्येऽनुष्ठानं प्रशस्तम् । तस्मिन्नपि मध्ये पुनर्विशेषेण स्थापनं विधत्ते- अथ॒ यद्वा इ॒दम॑न्त॒तः क्रि॒यतै॑ । तस्मा॑दु॒दन्ते॑ प्र॒जाः समै॑धन्ते । अ॒न्त॒तः क्रि॑यते प्र॒जन॑नायै॒व, इति॑ ।

तैत्तिरीयब्राह्मणम् (१.२.६) ९७ अन्तिमादतिरात्रात्पूर्वश्वःसु योऽन्तः संवत्सरस्योपान्तरूपो देशस्तत्रैतदहः कर्तव्यम् । यद्यस्मादिदमेव महाव्रतमन्ते क्रियते तस्माल्लोकेषूत्कृष्टस्य कृष्यादिव्यापारस्यान्ते फलदशायां प्रजाः सम्यग्वर्धन्ते । तस्मात्प्रजावृद्ध्यर्थमितरेषामह्नामन्त एवैतत्कर्तव्यम् । अस्याह्नः पक्षिरूपत्वं परिकल्प्य तदवयवरूपेण स्तोमं विधत्ते- त्रि॒वृच्छिरो॑ भवति (२)। त्रे॒धा विहि॑तं॒ हि शिर॑: । लोम॑ छ॒वीरस्थि॑, इति । ऋक्त्रयात्मकमेकं सूक्तं तादृशानि त्रीणि सूक्तानि त्रिवृतोऽवयवा यस्य स्तोमस्य सोऽयं स्तोमस्त्रिवृत् । स च पक्ष्याकारस्य शिरः स्थानीयः । लोकेऽपि शिरस्त्रिधा निर्मितम् । लोम केशः । छवीस्त्वक् । अस्थि प्रसिद्धम् । तदिदं शिरसस्त्रैविध्यम् । तस्य त्रिवृत्स्तोमस्य पञ्चदशादिस्तोमवदावृत्तगानशङ्कां वारयितुमूर्ध्वगानं विधत्ते- परा॑चा स्तुवन्ति । तस्मा॑त्स॒दृगे॒व । न मेद्य॑तो॒ऽनुमेद्यति॑ । न कृ॒श्य॒तोऽनु॑ कृश्यति, इति । आवृत्तिराहित्यं पराक्त्वं तादृशेन त्रिवृता स्तुतिं कुर्युः। यस्माच्छिरःस्थानीयस्य त्रिवृत आवृत्तिर्नास्ति तस्माल्लोकेऽपि त्रिवृत्स्थानीयं तच्छिर एक रूपमेव मेद्यतः स्थौल्यं गच्छतः शरीरस्यापि संबन्धि भूत्वा स्वयं न मेद्यति न स्थूली भवति । तथा कृश्यतः कृशीभवतः शरीरस्य संबन्धि भूत्वा स्वयं न कृशी भवति । अथ पक्षद्वयस्थानीयं स्तोमद्वयं विधत्ते- प॒ञ्च॒द॒शौऽन्यः प॒क्षो भ॑वति । स॒प्त॒द॒शौऽन्यः॑ । तस्मा॑द्वया॑ '५ स्यन्यत॑र॒मर्ध॑म॒भिप॒र्याव॑र्तन्तै । अ॒न्य॒त॒रतो॒ हि तद्गरीयः क्रियते॑ (३), इति । यस्मांद्रान्तरत एकस्मिन्पक्षरूपे सप्तदशाख्ये स्तोमे तत्स्तोत्रं गरीयोऽधिकावृत्तिरूपम् । यस्माल्लोकेऽपि पक्षिण आकाशे गच्छन्तः पर्यावर्तमाना दक्षिणं वामं वाऽन्यतरमर्धमभिलक्ष्य प्रवृद्धमिव कृत्वा पर्यावर्तन्ते ।

९८ (१.२.६) तैत्तिरीयब्राह्मणम् योऽयं पूर्वत्र विहितः पञ्चविंशः स्तोमो भवतीति तं मध्यशरीरत्वकल्पनया प्रशंसति- प॒ञ्च॒वि॒ꣳ॒श आ॒त्मा भ॑वति । तस्मा॑न्मध्य॒तः प॒शवो॒ वरि॑ष्ठाः, इति । आत्मा पक्ष्याकारस्य महाव्रतस्य मध्यशरीरम् । तस्मादयं पञ्चविंशस्तोम इतरेभ्यस्त्रिवृदादिस्तोमेभ्यो भूयांस्तस्मात्पशवो मध्यशरीरभागे वरिष्ठाः स्थौल्ययुक्ता दृश्यन्ते । अथ पुच्छस्थानीयं स्तोमन्तरं विधत्ते- ए॒क॒वि॒ꣳ॒शं पु॒च्छम् । द्वि॒पदा॑सु स्तुवन्ति॒ प्रति॑ष्ठित्यै, इति । योऽयमेकविंशस्त्र्यावृत्तिरूपः स्तोमस्तत्पक्षिरूपस्य महाव्रतस्य पुच्छम् । तंचित्स्तोमं द्विपदास्वृक्षु स्तुवन्ति । पादद्वयेन हि मनुष्याः प्रतितिष्ठन्ति । त्रिवृदादिस्तोमानामृतविजां च समुच्चयं विधत्ते- सर्वे॑ण स॒ह स्तु॑वन्ति । सर्वे॑ण॒ ह्यात्मना॑ऽऽत्म॒न्वी । स॒होत्प॑तन्ति, इति । योऽयं त्रिवृदादिकः पञ्चविंशान्तः स्तोमसंघस्तेन सर्वेणापि स्तुतिं कुर्यु ऋत्विजश्च सर्वे सहैव स्तुतिं कुर्युः । यस्माल्लोके सर्वेणाऽऽत्मना कृत्स्नेनावयववर्गसंघेन पक्षपुच्छादिना पतङ्ग आत्मन्यवयवी भवति न त्वेकेकेनावयवेन । तस्मादत्रापि सर्वे स्तोमाः यस्माच्च लोके सर्वे पक्षिणः सहोत्पतन्ति तस्मादत्र सर्वेऽप्यृत्विजः सहैव स्तुतिं कुर्युः । अत एव च्छन्दोगा आमनन्ति- “सर्वे सहर्त्विजो महाव्रतेन स्तुवीरन् । अध्वर्युशिरसोद्गायेत्” इत्यादिना । तत्र कंचिद्विशेषं विधत्ते- एकै॑कामुच्छि॑षन्ति । आ॒त्मन्ह्यङ्गा॑नि ब॒द्धानि॑, इति । अध्वर्युप्रभृतयः स्वस्वस्तोत्रेण गानं कुर्वन्तः स्वकीयामन्तिमां स्तोत्रीयामुच्छिषेयुः, न तु तया स्तुतिं कुर्युः । यतो लोके कस्मिंश्चिदात्मन्मध्यशरीरे सर्वाण्यवयवान्तराणि बद्धानि भवन्त्यतोऽत्रापि मध्यशरीरस्थानीयायामेकैकस्यां स्तोत्रीयायामवशेषितायामङ्गान्तराणि तत्राऽऽ पादयितुं शक्यानि । अन्यथा निराधाराण्यङ्गानि स्युः । तां च तत्र तत्रावशिष्टां स्तोत्रीयामुद्गाता गायेत् । अत एव च्छन्दोगैराम्नायते-“एवं

तैत्तिरीयब्राह्मणम् (१.२.६) ९९ कु॒र्यु॒रेकै॑कया स्तोत्री॑ययाऽ स्तु॒तयोद्गा॒तार॑म॒भिसमे॑युः” इत्यादिना । संहितायामप्यस्तुतायां गानमुद्गातृराम्नायते-“एकैकयाऽ स्तुतया समायन्ति दिग्भ्य एवान्नाद्य ँसंभरन्ति ताभिरुद्गातोद्गायनि दिग्भ्य एवान्नाद्यं संभृत्य तेज आत्मन्धत्ते ” इति । अथ हर्षहेतुव्यापारविशेषान्विधत्ते- न वा ए॒तेन॒ सर्वः॒ पुरु॑षः (४) । यदि॑त इ॒तो लोमा॑नि द॒तो न॒खान् . प॒रिमा॒र्दः क्रि॑यन्ते । ता॒न्येव तेन॒ प्रत्यु॑प्यन्ते, इति । इयत्पूर्वमुक्तमेकैकस्तोत्रीयोच्छेषणेन सर्वाण्यङ्गानिस्वात्मनि बद्धानि भवन्तीति । तत्रायं पुरुषो लोमानीतः प्राप्तवान् । दतो दन्तानितः प्राप्तवान् । नखानितः प्राप्तवानिति । यदेतेन लोमदन्तादिप्राप्तिमात्रेण पुरुषः सर्वो नैव भवति । पुरुषस्य भोगसंपूर्णत्वं नास्ति । अतो भोगः परिपूर्यते । परिमादः परितो हर्षहेतवो विनोदव्यापाराः कर्तव्याः । तैर्व्यापारैस्तान्यङ्गानि भोगपरिपूर्णानि प्रत्युप्यन्ते स्थाप्यन्ते । सामान्यतो व्यापारविशेषा उक्ताः । अथ विशेषाकारेणैकं विधत्ते- औदु॑म्बर॒स्तल्पो॑ भवति । ऊर्जा अन्न॑मुदु॒म्बरः॑ । ऊर्ज॒ ए॒वान्नाद्य॒स्याव॑रुद्ध्यै, इति । आसंदी चौदुम्बरी कार्या । उदुम्बरस्यान्नरस- रूपत्वात्तत्प्राप्तिर्भवति । एतच्च संहितायामप्याम्नातम्- “आसन्दीमुद्गा- ताऽऽरोहति साम्राज्यमेव गच्छति” इति । अथ तल्पे कर्तव्यं विधत्ते- यस्य॑ तल्प॒सद्य॒मन॑भिजित् ँस्यात् । स दे॒वाना॒ ँसाम्य॑क्षे । तल्प॒सद्य॑म॒भिज॑या॒नीति॑ तल्प॑मा॒रुह्योद्गा॑येत् । तल्प॒सद्य॑मे॒वाभि॒जय॑ति (५) । यस्य॑ तल्प॒सद्य॑म॒भिजित् ँ स्यात् । स दे॒वाना॒ ँसाम्य॑क्षे । तल्प॒सद्यं॒ मा परा॑जेषी॒दि॑ तल्प॑मा॒रुह्योद्गा॑येत् । न तल्प॒सद्यं॒ परा॑जयते, इति । तल्पे मञ्चके सद्यं सदनमुपवेशनं तल्पसद्यम् । यद्युद्गातापूर्वं दरिद्रः स्यात्तदा राजादियोग्येतल्पे ऽवस्थानं न प्राप्तं तादृशमुद्गाता यज्ञभूमौ देवानां समक्षे देशेऽवस्थाय तल्पेत्यादिमन्त्रं गायेत् । तस्यायमर्थः ।