तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
ब्राह्मणो दर्भेण प्रबद्धस्य हिरण्यस्य पृष्ठतो वह्निमुद्धरेत् । अत एव
तैत्तिरीयब्राह्मणम् (१.४.४) १८१ ब्राह्मणो दर्भेण प्रबद्धस्य हिरण्यस्य पृष्ठतो वह्निमुद्धरेत् । अत एव सूत्रकारेणोक्तम्- “अन्वङ्ङार्षेयो ब्राह्मणो बहुविदग्निमुद्धरेत्” इति । “यावतीर्वै देवतास्ताः सर्वा वेदविदि ब्राह्मणे वसन्ति”, इति श्रुत्यन्तरात्सर्वदेवताकर्तृकमिदमुद्धरणं भवति । अत्रैवापरं विशेषं विधत्ते- अ॒ग्नि॒हो॒त्रमु॑पसाद्यातमि॑तोरासीत् । व्र॒तमे॒व हु॒तम॑नुं प्रियते, इति । आर्षेयस्य ब्राह्मणस्य पृष्ठतोऽग्निहोत्रहविर्नीत्वा तदधस्तादुपसाद्य श्वासं निरुध्य ग्लानिपर्यन्तमवतिष्ठेत् । एवं सति सूर्यास्तमयेन विनाशितं व्रतमनु स्वयमपि मरणोपचारं नाटयति । लोकेऽपि हि प्रियमन् स्निग्धमनुम्रियन्ते । पुनरपि विशेषान्तरं विधत्ते- अन्तं॒ वा ए॒ष आ॒त्मनो॑ गच्छति॑ । यस्ताम्य॑ति । अन्त॑मे॒ष य॒ज्ञस्य॑ गच्छति । यस्या॒ग्निम॑नु॒द्धत॒ꣳ सूर्यो॑ऽभिनिम्रोच॑ति (२) । पुनः॑ स॒मन्य॑ जुहोति । अन्तै॑नै॒वान्तं॑ य॒ज्ञस्य॒ · निष्क॑रोति, इति । यो ग्लानिं प्राप्नोति, एष विनाशमिव प्राप्नोति । यस्य चाग्न्युद्धरणात्पुरा सूर्योऽस्तमेति, एष यज्ञस्य विनाशं प्राप्नोति । अतो दोषद्वयनिवृत्यर्थं पुनः श्वासं कृत्वा जुहुयात् । तथा सति स्वकीयेन विनाशेन सह यज्ञस्य विनाशं समादधाति । पुनरप्यपरं विशेषं विधत्ते- वरु॑णो॒ वा ए॒तस्य॑ य॒ज्ञं गृ॑ह्णाति । यस्या॒ग्निम॑नु॒द्धत॒ꣳ सूर्यो॑ऽभिनिम्रोच॑ति । वा॒रु॒णं च॒रुं निर्व॑पेत् । तेनै॒व य॒ज्ञं निष्क्री॑णीते, इति । वरुणेनापहतो यज्ञश्चरुणा मूल्येन पुनः क्रीतो भवति । हिरण्यबन्धनमारभ्य चरुपर्यन्तमेकमिदं प्रायश्चित्तम् । अस्तमयनिमित्तं प्रायश्चित्तमभिधायोदयनिमित्तं प्रायश्चित्तं विधत्ते- नि वा ए॒तस्या॑ऽऽहव॒नीयो॒ गार्ह॑पत्यं कामयते । नि गार्ह॑पत्य आहव॒नीय॑म् । यस्या॒ग्निम॑नु॒द्धत॒ꣳ सूर्यो॑ऽभ्युदेति॑ ।
१८२ (१.४.४) तैत्तिरीयब्राह्मणम् चतु॑र्गृही॒तमाज्यं॑ पुर॒स्ता॑द्धरेत् (३) । अथा॒ग्निम् । अथा॑ग्निहो॒त्रम् । यदाज्यं॑ पुर॒स्ता॑द्ध॒रति॑ । ए॒तद्वा अ॒ग्नेः प्रि॒यं धाम॑ । यदाज्य॑म् । प्रि॒येणै॒वैनं॒ धाम्ना॒ सम॑र्धयति । यद॒ग्नि- पूर्व॒ ँहर॑त्यथा॑ग्निहो॒त्रम् । भा॒ग॒धेये॑नै॒वैनं॑ प्रणयति । ब्राह्म॒ण आ॒र्षेय॒ उद्ध॑रेत् । ब्राह्म॒णो वै सर्वा॒ दे॒वता॑: (४) । सर्वा॑भिरे॒वैनं॑ दे॒वता॑भि॒रुद्ध॑रति, इति । पूर्ववद्व्याख्येयम् । अत्र पूर्वस्मादधिकं कंचिद्विशेषं विधत्ते- परा॑ची॒ वा ए॒तस्मै॒ व्युच्छ॑न्ती॒ व्यु॑च्छति । यस्या॒ग्निम॑नु॒द्धृत॒ सूर्यो॒ऽभ्युदेति॑ । उषाः॑ के॒तुना॑ जुषताम् । य॒ज्ञं दे॒वेभि॑रि॒न्वितम्॑ । दे॒वेभ्यो॒ मधु॑मत्त॒म ँ स्वाहेति॑ प्रत्यङ्ङुप॑नि॒षद्या॒ऽऽज्येन॑ जुहुयात् । प्र॒तीची॑मे॒वास्मै॒ विवा॑सयति, इति । यस्य पुरुषस्याग्न्युद्धरणात्प्राक्सूर्योदयो भवेदेतस्मै पुरुषायोषः कालदेवता व्युच्छन्ती प्रभातं कुर्वती पराची वै पुनरावृत्तिरहितैव व्युच्छति प्रभातं करोति । एकस्मिन्दिने प्रभातं कृत्वा विनश्यति दिनान्तरेषु प्रभातं कर्तुं न तिष्ठतीत्यर्थः । एतद्दोषपरिहाराय प्रत्युङ्मुख उपविश्य"उषाः" इत्यादि मन्त्रमुच्चार्याऽऽज्येन जुहुयात् । ततोऽस्मै यजमानार्थं प्रतीचीं पुनरावृत्तियुक्तां स्वाकृतिं कृत्वा विवासयति । दैनंदिनं प्रभातं संभावयति । मन्त्रस्यायमर्थः-इयमुषः कालदेवता केतुना दिवसचिह्नभूतेनाऽऽदित्येन सह देवेभिरन्वितमन्यैर्देवैः प्रीतिपूर्वकं स्वीकृतमिमं यज्ञं जुषताम् । देवेभ्योऽन्तमाधुर्योपेतमाज्यं स्वादुतममस्त्विति । होमानन्तरकर्तव्यं विधत्ते- अ॒ग्नि॒हो॒त्रमु॑प॒साद्यात॑मि॒तोरासी॑त् । व्र॒तमे॒व हु॒तमनु॑प्रियते । अन्तं॒ वा ए॒ष आ॒त्मनो॑ गच्छति (४) । यस्ताम्य॑ति । अन्त॑मे॒ष य॒ज्ञस्य॑ गच्छति । यस्या॒ग्निम॑नु॒द्धृ॒त ँ सूर्यो॒ऽभ्युदेति॑ । पुन॒ः संम॑न्य जुहोति । अन्ते॑नै॒वान्तं॑ य॒ज्ञस्य॑
तैत्तिरीयब्राह्मणम् (१.४.४) १८३ निष्क॑रोति । मि॒त्रो वा ए॒तस्य॑ य॒ज्ञं गृ॑ह्णाति । यस्या॒ग्निम॑नु॒द्धृत॒ꣳ॒ सूर्यो॑ऽभ्यु॒देति॑ । मै॒त्रं च॒रुं निर्व॑पेत् । तेनै॒व य॒ज्ञं निष्क्री॑णीते, इति । पूर्ववत्सर्वं व्याख्येयम् । आज्योद्धरणमारभ्य मैत्रचरुपर्यन्तमेकं प्रायश्चित्तम् । अथाग्न्युद्वाननिमित्तं प्रायश्चित्तं विधत्ते- यस्या॑ऽहव॒नीये॑ऽनु॒द्द्वाते॒ गार्ह॑पत्य॒ उद्वाये॑त् (६) । यदा॑हव॒नीय॒मनु॑द्द्वाप्य॒ गार्ह॑पत्यं॒ मन्थे॑त् । विच्छि॑न्द्यात् । भ्रातृ॑व्यमस्मै जनयेत् । यद्वै य॒ज्ञस्य॑ वा॒स्त्व्यं॑ क्रि॒यते । तद॑नु॒ रु॒द्रोऽव॑चरति । यत्पूर्वं॒मन्वव॑सृ॒जेत् । वा॒स्त्व्य॑म॒ग्निमुपा॑- सीत । रु॒द्रोऽस्य॑ प॒शून्घातु॑कः स्यात् । आ॒ह॒व॒नीय॑मुद्द्वाप्य॑ । गार्ह॑पत्यं॒ मन्थे॑त् (७), इति । यस्य पुरुषस्याऽऽहवनीयाग्नौ विद्यमाने सति गार्हपत्याग्निर्नश्येत्तदानीमयं पुरुषस्तं विद्यमानमाहवनीयमविनाश्य यदि गार्हपत्यार्थं मन्थनं कुर्यात्तदानीमाहवनीयजनकस्य गार्हपत्यस्याभावाद्यज्ञो विच्छिद्येत । पूर्वा ह्याहवनीयजनको गार्हपत्यो विनष्टः । इत ऊर्ध्वं मन्थनीयस्तु नैतस्याऽऽहवनीयस्य जनकः । किंच तन्मन्थनेन यजमानस्य भ्रातृव्यमुत्पादयेत् । मन्थनीयस्य पूर्वाहवनीयविरोधित्वात् । एवं तर्हि शास्त्रीयो गार्हपत्याहवनीयौ मा भूताम् । लौकिकमेवाग्निहोत्रं क्रियतामिति चेत् । तदप्यनुपपन्नम् । यज्ञस्य संबन्धि यदङ्गं वास्तव्यं लौकिकं क्रियते । वास्तवे लोकव्यवहारे भवं वास्तव्यम् । तल्लौकिकमङ्गमनु रुद्रः क्रूरो देवो यज्ञशालायां प्रविशति । एवं सति यदि पूर्वं विद्यमानमाहवनीयमनु कर्म समापयेत्तदानीं लौकिकमेवाग्निमुपासितवान्भवति । ततो रुद्रोऽस्य पशून्विनाशयेत् तस्मात्पूर्वसिद्धमाहवनीयं विनाशय पश्चाद्गार्हपत्यार्थमग्निं मन्थेत् । तत्र मन्थनमन्त्रं विधत्ते- इ॒तः प्र॑थ॒मं ज॑ज्ञे अ॒ग्निः । स्वाद्योने॒रधि॑ जा॒तवे॑दाः । स गाय॒त्रिया त्रि॒ष्टुभा॒ जग॑त्या । दे॒वेभ्यो॑ ह॒व्यं व॑हतु प्रजा॒नन्नि॑ति । छन्दो॑भिरे॒वैनं॒ ꣳ॒स्वाद्योने॑: प्रज॑नयति, इति ।
१८४ (१.४:४) तैत्तिरीयब्राह्मणम् जातवेदा उत्पन्नसर्वजगदभिज्ञोऽग्निः स्वाद्योनेः स्वकीयात्कारणादितोऽरणेः प्रथममुत्पन्नः । स च गायत्र्यादिच्छन्दस्त्रयेण सहकारिणा देवान्हविश्च प्रकर्षेण जानन्नस्मदीयं हव्यं देवेभ्यो वहत्वित्यनेन मन्त्रेण मन्थनं कुर्यात् । तथा सति गायत्र्यादिच्छन्दोभिरेवानुगृहीतः स्वकीयात्कारणादुत्पादितो भवति । यथोक्तं मन्थनविधिमनूद्यानुमन्त्रणं विधत्ते- गा॒र्हप॑त्यं मन्थति । गा॒र्हप॑त्यं वा अन्वहि॑ताग्नेः प॒शव॒ उप॑तिष्ठन्ते । स यदु॒द्वास॑यति । तदनु॑ प॒शवोऽप॑क्रामन्ति . इ॒षे र॒य्यै रम॑स्व (८), इति । सह॑से द्यु॒म्नाय॑ । ऊ॒र्जे पत्या॒येत्या॑ह । प॒शवो॒ वै र॒यिः । प॒शुने॒वास्मै॑ रमयति, इति । मन्थनेन निष्पन्नो यो गार्हपत्यस्तदनु पशवोऽस्य संपद्यन्ते । तदुद्वासने तु पशवो नश्यन्ति । अतस्तदुद्वासनं वारयितुमिष इत्यादिमन्त्रेणाभिमन्त्रयेत् । मन्त्रस्य चायमर्थः-हेऽग्ने इषऽन्नार्थं रय्यै धनार्थं सहसे बलार्थं द्युम्नाय यशोर्थमूर्जे क्षीरादिरसार्थं पत्याय स्वामित्वार्थं च रमस्व त्वामत्र क्रीडां कुरु । अस्मिन्मन्त्रे धनवाचिना रयिशब्देन पशूनामप्यभिमतत्वात्पशूनस्मै संपादयति । अथ मन्त्रेण समिन्धनविधिमभिप्रेत्य तस्य भागमनूद्य व्याचष्टे- सार॑स्व॒तौ त्वो॒त्सौ स॒मि॑न्धाता॒मित्या॑ह । ऋ॒क्सामे॒ वै सार॑स्व॒तावु॒त्सौ । ऋ॒क्सा॒माभ्या॑मे॒वैनं॒ ँस॒मि॑न्धे, इति । हेऽग्न उत्सावत्युत्सुकौ सारस्वतौ सरस्वतिसंबन्धिनावृग्वेदसामवेदौ त्वां समिन्धातां सम्यग्दीपयताम् । भागान्तरमुदाहृत्य व्याचष्टे- स॒म्राड॑सि वि॒राड॑सीत्या॑ह । र॒थ॒न्तरं॒ वै स॒म्राट् । बृ॒हद्वि॒राट् (९) । ताभ्या॑मे॒वैनं॒ ँस॒मि॑न्धे, इति । सम्यग्राजत इति सम्राट् । विविधं राजत इति विराट् । हेऽग्ने सामद्वयरूपस्त्वमसि । अथ निमित्तान्तरकृतं प्रायश्चित्तं विधत्ते-
तैत्तिरीयब्राह्मणम् (१.४.४) १८५ वज्रो॒ वै च॒क्रम् । वज्रो॒ वा ए॒तस्य॑ य॒ज्ञं विच्छि॑न्दन्ति । यस्या॒नौ- वा॒ रथो॑ वा॒न्तराग्नी॒ याति॑ । आ॒ह॒व॒नीय॑मुद्वाप्य॑ । गार्ह॑पत्या॒दुद्ध॑रेत् । यद॑ग्ने॒ पूर्वं॒ प्रभृ॑तं प॒द ँहि ते॑ । सूर्य॑स्य र॒श्मीनन्वात॑तान॑ । तत्र॑ र॒यिष्ठामनु॒सम्भ॑रैतम् । सं नः॑ सृज सु॒म॒त्या वाज॑व॒त्येति॑ । पूर्वे॑णै॒वास्य॑ य॒ज्ञेन॑ य॒ज्ञमनु॒संत॑नोति, इति । शकटस्य रथस्य वा यच्चक्रं तल्लोहबद्धतया वज्रसमानम् । “रथतृतीयम्” इति वज्रांशत्वश्रुतेश्च । तथा सत्याहवनीयगार्हपत्ययोर्मध्ये रथस्य शकटस्य वा गमने सति वज्रेण यज्ञो विच्छिद्येत् । अतस्तत्परिहारार्थमाहवनीयं विनाशय यदग्नय इत्यादिकमन्त्रेण गार्हपत्यात्पुनरुद्धरेत् । मन्त्रस्य चायमर्थः-हेऽग्ने तव प्रभृतं प्रकर्षेण पुष्टं यत्पदं स्वरूपं सूर्यस्य रश्मीनन्वनुक्रमेण सर्वतः प्रसारयामास । तत्र यद्रयिष्ठां धनसमृद्धाववस्थितमेतमाहवनीयमनुक्रमेण संभर सम्यक्पोषय । नोऽस्मान्वाजवत्यान्नेनोपेतया सुमत्याशोभनबुद्ध्या संसृज संयोजय । अनेन मन्त्रेणाऽऽहवनीयोद्धरणे सति पूर्वसिद्धेनैव यज्ञेनास्य यजमानस्य करिष्यमाणं यज्ञमनुक्रमेण संततं करोति । अस्मिन्नेवोद्धरणे मन्त्रान्तरं विधत्ते - त्वम॑ग्ने स॒प्रथा॑ अ॒सीत्या॑ह अ॒ग्निः सर्वा॒ दे॒वताः॑ । दे॒वता॑भिरे॒व य॒ज्ञ ँसंत॑नोति, इति । हेऽग्ने त्वं सप्रथाः कीर्तियुक्तोऽसि । अस्य मन्त्रस्योत्तरभाग उपहोमकाण्डे समाम्नास्यते । अस्मिन्पादे प्रशस्यमानोऽग्निः सर्वदेवतात्मकः । ते देवा बिभ्यतोऽग्निं प्राविशंस्तस्मादाहुराग्निः सर्वदेवता इत्यन्यत्राऽऽम्नानात् । अतो देवताभिरेव सहायभूताभिर्यज्ञं संततं करोति । अत्रैव कर्तव्यशेषं विधत्ते- अ॒ग्नये॑ पथि॒कृते॑ पुरोडाश॑म॒ष्टाक॑पालं॒ निर्व॑पेत् । अ॒ग्निमे॒व प॑थि॒कृत् ँस्वेन॑ भाग॒धेये॒नोप॑धावति । स ए॒वैनं॑ य॒ज्ञियं॑ पन्था॑मपि॑ नयति । अ॒न॒ड्वा न्द॑क्षिणा । वृ॒ही ह्ये॑ष समृ॑द्ध्यै (१०), इति ।
१८६ (१.४.५) तैत्तिरीयब्राह्मणम् हर॒त्यथा॑ग्निहो॒त्रं निम्रो॑चति हरे॒द्देव॑ता गच्छ॒त्युद्वाये॑न्मन्थे॑द्रमस्व बृ॒हद्वि॒राडेति॑, नव॑ च । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके चतुर्थाध्याये चतुर्थोऽनुवाकः ॥ ४ ॥ (नि वै पूर्वं त्रीणि निम्नो (म्रो)र्चति दर्भेण यद्धिरण्यमग्निहोत्रम् । पुनर्वरुणोवारुणं नि वा एतस्यावाभ्युदेति चतुर्गृहीतमाज्यं यदाज्यं यदग्निं परोच्युषाः । पुनर्मित्रो मैत्रं यस्याऽऽहवनीयेऽनुद्गाते गार्हपत्ये यद्वै मन्थेदुद्धरेत ॥ (१) पन्थानं करोतीति पथिकृत्तादृशोग्निर्निरुप्तेन स्वकीयेन भागधेयेन सेवित एनं यजमानं यज्ञयोग्यं पन्थानं प्रापयति । तत्र चानड्वान्दक्षिणा देया । स च भारवाहित्वात्समृद्धयै संपद्यते । अत्र विनियोगसंग्रहः- उषामन्त्रेण होमः स्यात्पुरा सूर्योदये सति । इतः प्रथेति मन्त्रेण पश्चिमानलमन्थनम् ॥ इषे रय्यै तु मथितं मन्त्रयेतानलं तदा । सारस्वतौ त्वेति मन्त्राद्देतमग्निं समिन्धयेत् ॥ यदग्न इत्यन्तराये रथेनाग्निं समुद्धरेत् । त्वमग्न इत्यपि तथा षण्मन्त्रा इति कीर्तिताः ॥ इति श्रीमत्सायणाचार्यविरचिते वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे चतुर्थप्रपाठके चतुर्थोऽनुवाकः ॥ ४ ॥ अथ चतुर्थप्रपाठके पञ्चमोऽनुवाकः । चतुर्थेऽग्निविषयं प्रायश्चित्तमुक्तम् । पञ्चमे सोमविषयं प्रायश्चित्तमुच्यते । तत्र प्रातः सवनविषयं प्रायश्चित्तं विधत्ते- यस्य॑ प्रातः स॒वने॒ सोमो॑ऽति॒रिच्य॑ते । माध्यं॑दिन॒ꣳ सव॑नं का॒मय॑मानो॒ऽभ्य॑ति॒रिच्य॑ते । गोध॑यति म॒रुता॒मिति॑ धर्य॑द्वतीषु कुर्वन्ति॑ ॥ हि॒नस्ति॒ वै सं॒ध्यधी॑तम् । सं॒धीव॒ खलु॒ वा ए॒तत् । यत्स॑वनस्याति॒रिच्य॑ते । यद्धर्य॑द्वतीषु कु॒र्वन्ति॑ । सं॒धेः शान्त्यै॑, इति ।
तैत्तिरीयब्राह्मणम् (१.४.५) १८७ यस्य यजमानस्य प्रातः सवनेऽनुष्ठिते सति तत्राभिषुतः सोमः कियानप्यवशिष्यते तस्यासौ सोमो माध्यंदिनसवनेऽपि स्वस्योपयोगमपेक्ष्यातिरिक्तो भवति । तस्यातिरेकदोषस्य परिहाराय धयच्छब्दोपेतास्वृक्षु गौर्धयति मरुतामित्यादिषु स्तोत्रं कुर्वन्ति । यद्वेद- वाक्यमहोरात्रयोः संघावधीतं तदध्येतारं हिनस्ति । तथा चाध्ययननिषेधेषु प्रस्तुतेष्वापस्तम्बः स्मरति-“तावन्तं कालं नाधीयीताध्यापयेद्वा संध्योस्तथा” इति प्रातः सवनस्य सोमातिरेको यत्तदेतत्संधीव । यथा संध्याकालोऽहोरात्रोभयस्पर्शैंवमतिरिक्तसोमोऽपि प्रातःसवने संपादितत्वान्माध्यंदिनसवनकामित्वाच्चोभयस्य स्पर्शी । ततः संध्याकालाध्ययनसमानो दोषः प्राप्नुयात् । तत्र धयद्वतीषु स्तोत्रे क्रियमाणे सत्यतिरिक्तस्य सोमस्यापि प्रातःसवनान्तःपातित्वसंधित्वं शाम्यति । तदेतत्सूत्रकारेणापि स्पष्टमुक्तम्-“यदि प्रातःसवने प्राग्धोमात्सोममतिरिक्तं पश्येत्तं चमसेष्वभ्युन्नयदुपाजुहुयाद्वां हुते दृष्ट्वा स्तुतशस्त्रवन्तं कुर्यात् ” इति । एवं सति प्रातःसवनस्यैतदन्तत्वादनन्तरभाविनो माध्यंदिनसवनत्वादुभयव्यतिरिक्तः संधिर्नाम कश्चिन्न भविष्यति । अतिरिक्तसोमस्य स्तोमार्थं धयद्वतीषु यत्स्तोत्रे क्रियते तत्र सामस्तोमविशेषौ विधत्ते- गा॒य॒त्र ँसाम॑ भवति पञ्चद॒शः स्तोम॑ः । तेने॑व प्रा॒तः सव॒नान्नय॑न्ति (१) , इति । प्रातः सवने हि बहिष्पवमानस्तोत्रं गायत्रसाम्ना निष्पाद्यते । आज्य- स्तोत्राणि पञ्चदशस्तोमेन । तस्योभयस्यात्र क्रियमाणत्वेन प्रातः सवनलक्षणसद्भावादतिरिक्तसोमस्यानुष्ठातारः प्रातःसवनान्नाप गच्छन्ति । धयद्वतीष्वृक्षु मरुच्छब्दस्य विद्यमानत्वात्तत्प्रयुक्तं गुणं दर्शयति- म॒रुत्व॑तीषु कुर्वन्ति । तेनै॑व माध्यंदि॒नात्सव॑ना॒न्नय॑न्ति, इति । मरुतो हि माध्यंदिनसवनसंबन्धिनः । तत्र हि दतीया ग्रहा आम्नाताः “यन्माध्यंदिने सवने मरुत्वतीया गृह्यन्ते” इति श्रुतेः । अतो मरुत्वतीषु स्तोत्रकरणेनमाध्यंदिनसवनलक्षणसद्भावादतिरिक्तसोमेन कामित- माध्यंदिनसवनं नापगच्छन्ति । अतिरिक्तसोमानुष्ठानप्रकारं विधत्ते-
१८८ (१.४.५) तैत्तिरीयब्राह्मणम् होतु॑श्च॒म॒सम॒नून्न॑यन्ते । होता॑ऽनु॒शँस॑ति । म॒ध्य॒त ए॒व य॒ज्ञ ँ स॒माद॑धाति, इति । दशसु चमसेषु मध्ये योऽयं होतुश्चमसस्तमादावतिरिक्तसोमेन पूरयित्वा पश्चादन्यान्पूरयेत् । अत्र होतैव शस्रं पठेत् । अत एव सूत्रकार आह- “ऐन्द्रावैष्णवं होताऽनुशंसति” इति एवं कुर्वन्यज्ञं मध्यतः समादधाति । अन्यूनातिरिक्तं सवनद्वयं समी करोति । यथा संधिदोषो न भवति तथा करोतीत्यर्थः । अथ माध्यंदिनसवनविषयं प्रायश्चित्तं विधत्ते- यस्य॑ माध्यंदि॒ने सव॑ने॒ सोमो॑ऽति॒रिच्य॑ते । आ॒दि॒त्यं तृ॑तीयस॒वनं॒ काम॑यमानोऽभ्य॑ति॒रिच्य॑ते । गौ॒रि॒वी॒तं ॅसाम॑ भवति । अ॒ति॒रि॒क्तं वै गौ॑रिवी॒तम् । अ॒ति॒रि॒क्तं यत्सव॑नस्याति॒रिच्य॑ते (२) । अति॑रिक्तस्य शा॒न्त्यै, इति । यद्गौरिवीताख्यं साम तत्राक्षरातिरेकस्य विद्यमानत्वात्तेनायमतिरिक्तदोषः शाम्यति । इतरत्पूर्ववद्व्याख्येयम् । अत्र सामाधारमृग्विशेषं विधत्ते- ब॒ण्म॒हा ॅअ॑सि सूर्य्येति॑ कुर्वन्ति । यस्यै॒वाऽऽदि॒त्यस्य॑ सव॑नस्य॒ कामै॒नाति॒रिच्य॑ते । तेनै॒वैनं॒ कामे॑न॒ समर्ध॑यन्ति, इति । बडित्यादिकमृक्प्रतीकम् । तत्र चाऽऽदित्यवाचकः सूर्यशब्द आम्नातः । तृतीयसवनं चाऽऽदित्यसंबन्धि । आदित्यग्रहस्य तत्र विहितत्वात् । अत एव सूत्रकारेणोक्तम् -“आदित्यारम्भणं तृतीयसवनम्” इति । एवं सत्यतिरिक्तेन सोमेन काम्यमानदित्यसंबन्धि तृतीयसवनं सूर्यशब्दघटितेन मन्त्रेण लब्धमिति कृत्वा तेन कामनातिरिक्तसोमं समृद्धं करोति । ऋचं विधाय सामविशेषं विधत्ते- गौ॒रि॒वी॒तं ॅसाम॑ भवति । तेनै॒व माध्यं॑दि॒नात्सव॑ना॒न्नय॑न्ति, इति ।
तैत्तिरीयब्राह्मणम् (१.४.५) १८९ माध्यंदिनसवने गौरिवीतसाम्नः पृष्ठस्तोत्रे विहितत्वात्तत्साम तत्सवनलक्षणम् । अतस्तेन साम्ना माध्यंदिनसवनान्नापगच्छन्ति । स्तोमविशेषं विधत्ते- स॒प्त॒द॒शः स्तोम॑ः । तेनै॒व तृ॑तीयसव॒नान्नर्य॑न्ति, इति । तृतीयसवनगतस्याऽऽर्भैवपवमानस्य सप्तदशस्तोमयुक्तत्वादसौ स्तोमस्तत्सवनलक्षणम् । तेन तृतीयसवनान्नापगच्छन्ति । अनुष्ठानप्रकारं विधत्ते- होतृ॑श्चम॒समनून्न॑यन्ते । होता॑ऽनुशँस॑ति (३) । म॒ध्य॒त ए॒व य॒ज्ञ ꣳ॒समाद॑धति, इति । पूर्ववद्व्याख्येयम् । अथ तृतीयसवने प्रायश्चित्तविशेषं विधत्ते- यस्य॑ तृती॒यस॑वने सोमो॑ऽति॒रिच्ये॑त । उ॒क्थ्यं॑ कुर्वीत । यस्यो॒क्थ्ये॑ऽति॒रिच्ये॑त । अ॒ति॒रा॒त्रं कु॑र्वीत । यस्या॑तिरा॒त्रेऽ ति॒रिच्ये॑त । तत्त्वै दु॑ष्प्र॒ज्ञान॒म् । यज॑मानं॒ वा ए॒तत्प॒शव॑ आ॒साह्य॑ यन्ति । बृ॒हत्सा॒मं भ॑वति । बृ॒हद्वा इ॒माँल्लो॒कान्दा॑धार । बा॑र्ह॒ताः प॒शव॑ः । बृ॒हतै॒वास्मै॑ प॒शून्दा॑धार, इति । द्वादशस्तोत्रयुक्तेऽग्निष्टोमे प्रयुक्ते सति तृतीयसवने यदि सोमातिरेकस्तदानीं तस्योपयोगाय द्वादशभ्य उपरि स्तोत्रत्रयोपेतमुक्थ्यं कुर्वीत । तत्रापि सोमातिरेके सत्येकोनत्रिंशत्स्तोत्रयुक्तमतिरात्रं कुर्वीत । तत्रापि सोमातिरेके ततोऽधिकस्तोत्रयुक्तस्य क्रतोरभावादतिरेकसमाधानं ज्ञातुं दुःशकं तर्हि मा भूत्ससमाधानमिति चेत् । न । पशुहानिप्रसङ्गात् । तेनातिरेकेण पशवो यजमानमासाह्य सर्वतोऽभिभूय यत्र क्वापि यन्ति । तस्मात्कार्यमेतत्समाधानम् । बृहत्सामगानेन तत्समाहितं भवति । बृहतः सर्वलोकधारणसमर्थत्वात्पशूनां च तत्सामलभ्यत्वेना ऽऽहृतत्वात्पलायमानान्पशून्यजमानार्थं तेन साम्नाधारयति । तस्य साम्न आधारभूता ऋचो विधत्ते-
पञ्चमोऽनुवाकः ॥ ५ ॥
१९० (१.४.६) तैत्तिरीयब्राह्मणम् शि॒पि॒वि॒ष्टव॑तीषु कुर्वन्ति । शि॒पि॒वि॒ष्टो वै दे॒वानां॒ पुष्टम्॑ । पुष्ट्यै॒वैन॑ ँसम॑र्धयन्ति, इति । शिपिविष्टशब्दो यास्वृक्षु विद्यते ताः शिपिविष्टवत्यः । शिपिविष्टशब्दो विष्णुवाची । “यः पशोर्भूमा या पुष्टिस्तद्विष्णुः शिपिष्टः” इति श्रुत्यन्तरात् । स च देवानां पुष्टिहेतुः। अतः शिपिविष्टवतीषु कुर्वतीषु गायन्तीषु गाने सति पुष्ट्यैव यजमानं समृद्धं कुर्वन्ति । अनुष्ठानप्रकारं विधत्ते- होतु॑श्चम॒समनून्न॑यन्ते । होताऽनु॑श ँस॑ति । मध्य॑त एव य॒ज्ञ ँ समा॒र्दधा॑ति, इति । य॒न्ति सर्व॑नस्याति॒रिच्य॑ते शासति दाधाराष्टौ च॑ । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके चतुर्थाध्याये पञ्चमोऽनुवाकः ॥ ५ ॥ पूर्ववत् । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे चतुर्थप्रपाठके पञ्चमोऽनुवाकः ॥ ५ ॥ अथ चतुर्थप्रपाठके षष्ठोऽनुवाकः । पञ्चमे सोमातिरेकप्रायश्चित्तमुक्तम् । षष्ठे त्वेकग्राम- वर्तिबहुसोमयागविषयविशेषोऽभिधीयते । तत्रैकं विशेषं विधत्ते- एकै॑को वै ज॒नता॑या॒मिन्द्र॑ः । एकं॒ वा ए॒ता विन्द्र॑म॒भिस ँसु॑नुतः । यौ द्वौ स 'सु॑नुतः । प्र॒जाप॑ति॒र्वा ए॒ष विता॑यते । यद्य॒ज्ञः । तस्य॒ ग्रावा॑णो॒ दन्ता॑ः । अ॒न्य॒तरं॒ वा ए॒ते स 'सु॑न्व॒तोर्निर्ब॑प्सति । पूर्वे॑णोप॒सृत्या॒ देव॑ता॒ इत्या॑हुः । पूर्वो॑प॒सृत॑स्य॒ वै श्रेया॑न्भवति । ए॒तैर्वन्त्याज्या॑नि भवन्त्य॒भिजित्यै॑ (१), इति ।
तैत्तिरीयब्राह्मणम् (१.४.६) १९१ सत्येकग्रामवर्तिन्यामेकस्यां जनतायां मध्य यौ द्वौ यजमानौ संसुनुतः संभूय सोमयागं कुरुतः । एकस्मिन्काले कुरुत इत्यर्थः । तावेतावुभौ यजमानावेकमेवेन्द्रमभिलक्ष्य संभूयैकस्मिन्कालेऽनुतिष्ठतः । तथा सति ममायमिन्द्रोऽस्त्वित्येवं तयोर्विप्रतिपत्तिर्भवेत् । अत एवाऽ ऽश्वलायनेनोक्तम्-“विमतानां प्रसवसंनिपातेऽशंवः” इति । तत्र यो यज्ञः स एष प्रजापतिरूप एव भूत्वा विस्तार्यते । तस्य प्रजापति रूपस्य यज्ञस्योपांशुसवनादयो ग्रावाणस्तीक्ष्णदन्तस्थानीयाः । एते ग्रावाणः संभूय सोममभिषुण्वतोर्द्वयोर्यजमानयोर्मध्येऽन्तरं यजमानं निर्वप्सति निःशेषेण भर्त्सयन्ति । एकेन यजमानेनेन्द्रस्य परिगृहीतत्वादितरस्येन्द्रभावेन यागाभाव एव भर्त्सनम् । अत एवाभिज्ञाः पूर्वेण प्रथमप्रवृत्तेन यजमानेन देवता उपसृत्याः प्राप्या इत्याहुः । लोकेऽपि हि प्रथमं सेवमाने भृत्ये स्वामी पक्षपातं करोति । तस्मात्पश्चादुपगच्छन्तं निर्देवतं यजमानं ग्रावरूपा दन्ता दशन्ति । अतस्तत्परिहारायाऽऽज्यस्तोत्राण्येतिवन्ति कर्तव्यानि । इण् गतावित्यस्य धातोरर्थमतिशब्दो ब्रूते । क्तिन्प्रत्ययान्तस्यास्य धातोराङ्पूर्वेत्वे सत्यतिशब्दनिष्पत्तेस्तदर्थवाचिनः शब्दा येषु स्तोत्रेषु विद्यन्ते तादृशानि स्तोत्राणि प्रातःसवने कर्तव्यानि । तथा सतीन्द्राभावदोषपरिहारेणास्याभिजयो भवति । तत्रापरं विशेषं विधत्ते- म॒रुत्व॑तीः प्रति॒पदः॑। म॒रुतो॒ वै दे॒वाना॑मप॑राजितमा॒ यत॑नम्। दे॒वाना॑मे॒वाप॑राजित आ॒यत॑ने यतते, इति । मरुच्छब्दो यास्वृक्ष्वस्ति ता मरुत्वत्यः । तथाविधा ऋच आज्यस्तोत्रे प्रतिपदः प्रथमभाविनीः कुर्यात् । देवानां मध्ये मरुतो बलवत्त्वेन पराजय- रहितं स्थानम् । ततो देवसंबन्धिन्यपराजिते स्थाने प्रयत्नं करोति । ऋग्विशेषं विधाय सामविशेषं विधत्ते- उ॒भे बृ॑हद्रथंत॒रे भ॑वतः । इ॒यं वाव र॑थंत॒रम् । अ॒सौ बृ॒हत् । आ॒भ्यामे॒वैन॑मन्त॒रैति॑ । वा॒चश्च॒ म॒न॑सश्च । प्रा॒णाच्चा॑पा॒नाच्च॑ । दि॒वश्च॑ पृथि॒व्यश्च॑ (२)। सर्व॑स्माद्वि॒त्ता द्वेद्या॑त्, इति । एकस्मिन्स्तोत्रे बृहतसामान्यस्मिन्न्रथंतरमित्येवं चतुर्ष्वाज्यस्तोत्रेषु पर्यायेणोभे सामनी भवतः । रथंतरस्य भूलोकरूपत्वात् । बृहतो द्युलोकरूपत्वात् । एतद्रूपाभ्यां सामभ्यामेवैनं यजमानं संसवदोषादन्तरितं
१९२ (१.४.६) तैत्तिरीयब्राह्मणम् व्यवहितं करोति । किंच सामद्वयस्य वागादियुग्मरूपत्वाद्रागादिभिरपि व्यवधानं करोति । वित्तं पूर्वं लब्धं वेद्यमितः परं लब्धव्यम् । आज्यस्तोत्रेषु सामविशेषं विधाय तृतीये पृष्ठस्तोत्रे सामविशेषं विधत्ते- अ॒भि॒व॒र्त्तो ब्र॑ह्मसा॒मं भ॑वति । सु॒व॒र्गस्य॑ लो॒कस्या॑भि॒वृत्त्यै॑, इति । ब्रह्मसंबन्धिनि पृष्ठस्तोत्रेऽभिवर्ताख्यं सामोद्गाता गायेत् । यामृचं ब्रह्मा शंसति तस्यामृच्युद्गात्रा गातव्यं साम ब्रह्मसाम्न् । अभिवर्तसाम्ना स्वर्गोऽभिमुखत्वेन वर्तते । अथाहर्विशेषं विधत्ते- अ॒भि॒जिद्भव॑ति । सु॒व॒र्गस्य॑ लो॒कस्या॒भि जि॑त्यै । वि॒श्व॒जिद्भव॑ति वि॒श्वस्य॑ जित्यै॑, इति । अभिजिद्विश्वजिताख्ययोरेकहयोरन्यतरं कुर्यात् । उभयोरपि जयहेतु त्वात् । अथापरं विशेषं विधत्त- यस्य॒ भूया॑ँसो य॒ज्ञक्रत॑व इत्या॑हुः ।। स दे॒वता॑ वृङ्क्त॒ इति॑ । यद्य॑ग्निष्टो॒मः सोम॑ः पु॒रस्ता॑त्स्यात् (३) । उ॒क्थ्यं॑ कुर्वीत ।। यद्यु॒क्थ्य॑ः स्यात् । अ॒ति॒रा॒त्रं कु॑र्वीत । य॒ज्ञक्रतु॑भिरे॒वास्य॑ दे॒वता॑ वृङ्क्त, इति । उभयोर्मध्ये यस्य यजमानस्य यज्ञक्रतवो भूयांसोऽङ्गभूतैर्यज्ञैर्युक्ताः प्रधानक्रतवोऽनुष्ठेयधर्मबहुला भवन्ति स तादृशो यजमानोऽल्पध- र्मानुष्ठायिनोऽन्यस्य यजमानस्य देवता विनाशयति । अतः परस्तादन्यस्य यजमानस्य गृहे यद्यग्निष्टोमाख्यः सोमः स्यात्तदा स्वयं ततोऽधिकमुक्थ्यं कुर्वीत । यद्युक्थ्यस्तदा स्वयं ततोऽधिकमतिरात्रं कुर्वीत । एवं स्वकीयैरधिकयज्ञक्रतुभिरेवेतरस्य देवता विनाशयति । तस्य फलाधिक्याभाव एव विनाश इत्युच्यते । विशेषान्तरं विधत्ते-
तैत्तिरीयब्राह्मणम् (१.४.६) १९३ यो वै छन्दो॑भिरभि॒भव॑ति । स सं॑ ॅ सुन्व॒तोर॒भिभ॑वति । सं॒वेशा॑य त्वोपवे॒शाय॑ त्वेत्या॑ह । छन्दा॑ ॅ सि॒ वै सं॒वेश॑ उ॑पवे॒शः । छन्दो॑भिरे॒वास्य॒ छन्दा॑ ॅ स्य॒भिभ॑वति, इति । यो यजमानः स्वकीयैश्छन्दोभिरितरस्य च्छन्दांस्यभिभवितुमुद्युङ्क्ते स एवं संसुन्वतौर्मात्सर्य्येण सोममभिषुण्वतोर्मध्ये परकीयाणि च्छन्दांस्याभिभवितुं समर्थो भवति । तस्मात्तत्सामर्थ्याय संवेशादिमन्त्रहोमं कुर्यात् । संप्राप्यावस्थितिः संवेशः । तत्रैवाऽऽसनमुपवेशः । हे देव मम संवेशाय त्वां भजे तथोपवेशाय च त्वां इत्येवं मन्त्रं होमकाले ब्रूयात् ।। एतन्मन्त्रशेषश्चसंहितायां तृतीयकाण्डे समाम्नातो व्याख्यातश्च । स्वकीयानि च्छन्दांस्येव संवेशोपवेशौ । तत्साधनत्वात् । अतः स्वकीयैश्छन्दोभिरेव होमतुष्टैरन्यस्यच्छन्दांस्यभिभवति । पुनरप्यन्यं विशेषं विधत्ते- इ॒ष्ट॒र्गो वा ऋ॒त्विजा॑म॒ध्व॒र्युः (४) । इ॒ष्ट॒र्गः खलु॒ वै पूर्वो॑ऽर्त्तुः क्षी॑यते । प्रा॒णा॒पा॒नौ मृ॒त्योर्मा॑ पा॒तमित्या॑ह । प्रा॒णा॒पा॒नयो॑रेव॒ श्रय॑ते । प्रा॒णा॒पा॒नौ मा॒ मा हा॑सिष्ट॒मित्या॑ह । नैनं॑ पुराऽऽयु॑षः प्राणापा॒नौ ज॑हितः, इति । इष्टं वृङ्क्ते विनाशयतीतीष्टर्गोऽध्वर्युः सर्वेषामृत्विजामिष्टं विनाशयति । तस्यानुष्ठानबाहुल्येन प्रमादसंभवात् । अर्त्तुरातिं गच्छत ऋत्विक्संघात्पूर्वः प्रथमभावी सन्नयमिष्टर्गोऽध्वर्युः क्षीणो भवति । ततः क्षयव्यावृत्तये प्राणपानावित्यादिमन्त्रं होमकाले ब्रूयात् । हे प्राणापानौ मृत्योः सकाशान्मा पातं मां रक्षतम् । अनेन अपूर्वभागेन प्राणापानयोरेवाऽऽश्रितो भवति । हे प्राणापानौ मां मा हासिष्टं मा कदाचिदपि मा परित्यजतम् । अनेन मन्त्रस्योत्तरभागेन शतसंवत्सरादायुषः पुरा प्राणापानावेनं न परित्यजतः । इत्येवमेकदेशवर्तिनोः सोमयाजिनोः संशये प्राप्ते विशेषोऽभिहितः । अथ सत्रविषये कंचिद्विशेषं विधत्ते- आ॒र्तिं वा ए॒ते नि॒यन्ति॑ । येषां॑ दी॒क्षिता॑नां॒ प्रमीय॑ते । तं यद॑वव॒र्जये॑युः । क्रू॒र॒कृ॒तामि॑वैषां लो॒कः स्या॑त् । आर्ह॑र
१९४ (१.४.६) तैत्तिरीयब्राह्मणम् दृ॒हेति॑ ब्रूयात् (५) । तं दक्षि॑ण॒तो वेद्यै॑ नि॒धाय॑ । स॒र्प॒रा॒ज्ञिया॑ ऋ॒ग्भिः स्तुयुः॑ । इ॒यं वै स॑र्प॒तो राज्ञी॑ । अ॒स्या ए॒वैनं॒ परि॑ददति, इति । सत्राय दीक्षितानां येषां मध्ये कश्चिन्म्रियेत तदानीमेते सर्वे सत्रिण आर्ति यज्ञविनाशरूपां बाधां निरन्तरं प्राप्नुवन्ति । तं मृतमन्ये दीक्षिता यद्यवज्ञाय दूरतो वर्जयेयुस्तदानीमेषां वर्जयतृणां क्रूरंकृतमिव ब्रह्महत्यादिरूपं पापं कृतवतामिव नरकलोकः स्यात् । अतोऽवज्ञामकृत्वा तं मृतमिहाऽऽनीय दाहादिसंस्कारं च कुर्विति तदीयपुत्रादिकं प्रत्यादरेण ब्रूयात् । अथ तं प्रेतं वेद्या दक्षिणभागे निधाय सर्पराज्ञीदेवताका- भिर्भूमिर्भूम्नेत्यादिभिर्ऋग्भिः स्तोत्रं कुर्युः । इयमेव भूमिः सर्पतः संचरतः प्राणिजातस्य राज्ञी । अतोऽस्यै भूम्या एवैनं मृतं समर्पयन्ति । अथ स्तुतेरूर्ध्वं शंसनं विधत्ते- व्यृ॑द्धं॒ तदित्या॑हुः । यत्स्तु॒तम॑ननु॒शस्त॒मिति॑ । होता॑ प्रथ॒मः प्रा॑चीनावी॒ती मा॑र्जाली॒यं परी॑यात् । या॒मीर॑नु॒ब्रुवन्॑ । स॒र्प॒रा॒ज्ञीनां॑ कीर्तयेत् । उ॒भयो॑रे॒वैनं॑ लो॒कयोः॒ परि॑ददति (६) । अथो॑ धुवन्त्ये॒वैन॑म् । अथो॒ऽन्यै वा॒ऽस्मै॑ हुवत, इति । यद्देवतारूपं स्तोत्रेण विषयीकृतं तदनन्तरमेव शस्त्रेण विषयीकृतं न स्यात् । तत्समृद्धिहीनं भवतीत्यभिज्ञा आहुः ।। अतः सर्पराज्ञीभिः स्तोत्रे कृते सत्यनन्तरमेव होता प्रथमः पुरोगामी सन्प्राचीनावीती भूत्वा मार्जालीयं धिष्ण्यं परितो गच्छेत् । किं कुर्वन्त्योऽस्य कौष्ट्येत्यादिका यामीर्ऋचोऽनुब्रुवन् । ततोभूमिर्भूम्नेत्यादिकाः सर्पराज्ञीर्ब्रूयात् । तथा सति यमविषयाभिर्भूमिविषयाभिश्च लोकद्वयेऽप्येनं प्रतिष्ठापयन्ति । अपि चैनं मृतं सत्रिणं धुवन्त्येव वस्त्रधूननादिभिरितरशवोपचारैरुपचरन्त्येव । अपि चास्मै मृतयजमानाय निह्नुवत एव वियोगासहिष्णुत्व- प्रलापादिभिरपलन्त्येव ।। मार्जालीयपरिभ्रमणस्याऽऽवृत्तिं विधत्ते-
षष्ठोऽनुवाकः ॥ ६ ॥
तैत्तिरीयब्राह्मणम् (१.४.६) १९५ त्रिः परि॑यन्ति । त्रय॑ इ॒मे लौकाः॑ । ए॒भ्य ए॒वैनं॑ लो॒केभ्यो॑ धुवते । त्रिः पुनः॑ परि॑यन्ति । षट् संप॑द्यन्ते । षड् वा ऋ॒तवः॑ । ऋ॒तुभि॑रे॒वैनं॑ धुवते, इति । त्रिवारं प्रादक्षिण्येन लोकत्रयप्राप्त्यर्थमेनमुपचरन्ति पुनस्त्रिवारमप्रदक्षिणावृत्तौ सत्यां षट्संख्ययर्तुभिरेवैनमुपचरन्ति । अथ बहिष्पवमानार्थमृक्सामविशेषं विधत्ते- अग्न॒ आयू॑ꣳषि पवस॒ इति॑ प्रति॒ पदं॑ कुर्वीरन् । र॒थं॒त॒रसामैषा ꣳसोम॑: स्यात् । आयु॑रे॒वाऽऽत्मन्द॑धते । अथो॑ पा॒प्मान॑मेव वि॒जह॑तो यन्ति (७), इति । अभिजि॑त्यै पृथि॒व्याश्च॒ स्याद॑ध्व॒र्युर्ब्रूया॑ल्लो॒कयोः॑ परिददति कुर्वीर॒ꣳ स्त्रीणि॑ च । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके चतुर्थाध्याये षष्ठोऽनुवाकः ॥ ६ ॥ बहिष्पवमानस्तोत्रस्याऽऽदौ पूर्वप्राप्तामृचं बाधित्वाऽग्न आयूंषीत्यृचं पठेत् । तथा गायत्रं साम बाधित्वा रथंतरं साम गायेत् । तथा प्रतिपत्पाठे- नात्मन्यायुष्यं धारयन्ति । रथंतरसाम्ना यत्क्रूरकृत्समानलोकप्राप्तिपापं त्यजन्तः पुण्यलोकं प्राप्नुवन्ति । अत्र मीमांसा । षष्ठाध्यायस्य तृतीयपादे चिन्तितम्- मृते सत्रणि नान्यः स्यात्स्याद्वा नात्रापि पूर्ववत् । स्यादस्वाम्येऽपि कर्त्रंशे साप्तदश्यस्य सिद्धये ॥ (इति) । सत्रिषु बहुषु यजमानेष्वेकस्मिन्मृते प्रतिनिधिर्नास्ति । पूर्वाधिकरणे यजमानप्रतिनिधेर्निराकृतत्वादिति चेत् । मैवम् । भङ्ग्यन्तरेण तत्सिद्धेः । सत्रिणां हि कार्यद्वयं फलभोक्तृत्वं यागकर्तृत्वं च । तत्र प्रतिनिधेः फलित्वाभावेऽपि कर्तृत्वं संभवति । ऋत्विक्कार्यं कर्तृत्वे प्रतिनिधिमन्तरेण सप्तदशस्याभावात्षोडशैव कार्याणि निष्पद्येरन् । एकं कार्यं लुप्येत । तस्माद्यजमानस्य प्रतिनिध्यभावेऽपि ऋत्विजः प्रतिनिधिसंभवात्पुरुषान्तरं प्रतिनिधातव्यम् । तत्रैवान्यच्चिन्तितम् -
१९६ (१.४.७) तैत्तिरीयब्राह्मणम् स स्वाम्यप्युत कर्तैव स्वामी तत्स्थानगत्वतः । अनारब्धुः फलाभावादस्वामी कर्तृमात्रता ॥ (इति) । यः सत्रिणः प्रतिनिधिस्तस्य यजमानस्थाने स्वीकृतत्वेन यजमानत्वमप्यस्तीति चेत् । मैवम् । आरभ्य समाप्तिपर्यन्तमनुष्ठातुः फलं युक्तम् । प्रतिनिधिस्तु नाऽऽरब्धवान् । अतः फलाभावाद्यजमानत्वं नास्ति । किंतु कर्तृत्वमेव । मृतस्य तु समाप्त्यभावेऽपि फलमाम्नायते-“यो दीक्षितानां प्रमीयेतापि तत्र फलम्” इति । तत्रैवान्यच्चिन्तितम्- नास्य स्युः फलिसंस्काराः कार्या वा नाफलित्वतः । अन्येषां सादृश्यार्थमफलिन्यपि ते मताः ॥ (इति) । सत्रे योऽयं प्रतिनिधिस्तस्य फलित्वाभावात्फलयोग्यताहेतवो वपनादिसंस्कारा न कर्तव्या इति चेत् । मैवम् । अस्य फलाभावेऽप्यस्मिन्संस्कृते सत्येषां यत्सासादृश्यं तत्संस्कृतेषु सप्तदशसु स्थितं भवति । ततः सप्तदशावराः सत्रमासीरन्नित्येतच्छास्त्रमनुगृहीतं भवति । अन्यथा संस्कृताः षोडशैवेति तच्छास्त्रं बाध्येत । यदि बहूनां यजमानानामलाभादवरा अल्पसंख्या यजमानाः स्युस्तदाऽपि सप्तदशापेक्षिताः । न तु ततोऽप्यल्पसंख्या इत्यर्थः । तस्मादफलिन्यपि तस्मिन्संस्काराः कर्तव्याः । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे चतुर्थप्रपाठके षष्ठोऽनुवाकः ॥ ६ ॥ अथ चतुर्थप्रपाठके सप्तमोऽनुवाकः । षष्ठे सवननिमित्तं प्रायश्चित्तमुक्तम् । सप्तमे यूपविरोहणादि- प्रायश्चित्तान्युच्यन्ते । तत्र यूपविरोहणप्रायश्चित्तं विधत्ते- असु॒र्यं वा ए॒तन्मा॒र्गं कृ॑त्वा । प॒शवो॑ वी॒र्य॑मपक्रामन्ति। यस्य॒ यूपो॑ वि॒रोह॑ति । त्वा॒ष्ट्रं ब॒हुरूप॒माल॑भेत । त्वष्टा॒ वै रू॒पाणा॑मीशे । य ए॒व रू॒पाणा॑मीशे । सो॑ऽस्मिन्प॒शून्वी॒र्यं॑ यच्छ॑ति । नास्मा॑त्प॒शवो॑ वी॒र्य॑मप॑क्रामन्ति, इति । यस्य यजमानस्य यूपो विरोहणादङ्कुराञ्जन-
तैत्तिरीयब्राह्मणम् (१.४.७) १९७ यत्येतस्माद्यजमानात्पशवो वीर्यं चापक्रामन्ति । किं कृत्वाऽसूर्यं वर्णमसुरेभ्यो हितं कृत्वा । तदेतदपक्रमणं निवारयितुं त्वष्टृदेवताकं बहुवर्णोपेतं पशुमालभेत । त्वष्टा हि रूपाणां स्वामी । "त्वष्टा वै पशूनां मिथुनाना ँरूपकृत्" इति श्रुत्यन्तरात् । अतः पशूनां "त्वष्टा रूपस्वामी यजमाने तान्पशून्वीर्यं च नियच्छति । ततो नास्मात्पशवो वीर्यं चापक्रामन्ति । अथाग्निविनाशप्रायश्चित्तं विधत्ते- आर्तिं॑ वा ए॒ते नि॒र्यन्ति॑ । येषां॑ दीक्षि॒ताना॑म॒ग्निरु॒द्वाय॑ति (१) । यदा॑हव॒नीय॒ उद्वाये॑त् । यत्तं म॑न्थेत् । वि॒च्छि॑न्द्यात् । भ्रातृ॑व्यमस्मै जनयेत् । यदा॑हव॒नीय॑ उद्वा॒ये॑त् । आ॒ग्नीध्रा॑दु॒द्धरे॑त् । यदा॒ग्नीध्र॒ उद्वा॒ये॑त् । गा॒र्हप॒त्यादु॒द्धरे॑त् । यद्गा॑र्हप॒त्य उद्वा॒ये॑त् । अ॒र्त ए॒व पु॒नर्म॑न्थेत् (२) । अत्र॒ वाव स नि॒र्लये॑त । यत्र॒ खलु॒ वै नि॒र्लीन॑मु॒क्तं॑ पश्य॑न्ति । तदै॑नमिच्छ॑न्ति, इति । दीक्षितानां येषां पुरुषाणामग्निर्विनश्यति ते पुरुषा विनाशमेव प्राप्नुवन्ति । तत्परिहाराय कश्चिद्भ्रान्त आहवनीयस्य नाशे यद्याहवनीयार्थमेव मन्थनं कुर्यात्तदानीं तस्य मथिताहवनीयस्य गार्हपत्यजन्यत्वाभावात्तयोरुभयोरेकमत्याभावेन यज्ञो विच्छिद्येत । मथितस्य गार्हपत्येन विरोधाद्यजमानस्य भ्रातृव्यं जनयेत् तस्मादाहवनीयनाशे सत्याग्नीध्राद्धिष्ण्यादग्निमुद्धरेत् । न तु मन्थनं कुर्यात् । आग्नीध्रस्य नाशे गार्हपत्यादग्निमुद्धरेत् । तस्य गार्हपत्यस्य नाशे तत एव गार्हपत्यादर्थदग्धकाष्ठात्पुनर्मन्थनं कुर्यात् । यस्मादत्रैवगार्हपत्ये सोऽग्निर्विलीनोऽन्तर्हितस्तस्मादत्रैव मन्थनं युक्तम् । लोकेऽपि मणिमुक्तादिकमुक्तं वस्तु यत्र भूप्रदेशे पतित्वा निलीनं भवति तत्रैव तदन्विष्य लब्धुमिच्छन्ति । तस्माद्गार्हपत्यस्थितकाष्ठे मन्थनमुचितम् । तस्मिन्मन्थने कंचिद्विशेषं विधत्ते- यस्मा॒द्दारो॑रु॒द्वायै॑त् । तस्या॑र॒णीं कु॑र्यात् । क्रु॒मु॒कम॑पि कु॒र्यात् । ए॒षा वा अ॒ग्नेः प्रि॒या त॒नूः । यत्क्रु॑मु॒कः । प्रि॒ययै॒वैनं॑ त॒नुवा॒ सम॑र्धयन्ति, इति ।
१९८ (१.४.७) तैत्तिरीयब्राह्मणम् गार्हपत्यवस्थितेष्वर्धदग्धकाष्ठेषु मध्ये चरमं वह्न्युद्वासनं यस्मिन्दारुणि पश्यतितद्दारुसंबन्धिन्यावेवारणीकुर्यात् । तयोररण्योर्मन्थनवेलायां क्रुमुकं प्रक्षिपेत् । तक्षणेननिष्पन्नोऽतिलघुः शकलः सोऽयं क्रुमुकः । सैषाऽग्नेरति प्रिया तनूः । क्रुमुकेन हि सहसा वह्निर्ज्वलति । अतः प्रियेणैव शरीरेण वहिं समृद्धं करोति । आहवनीयमन्थने यो दोष उक्तस्तदभावेन गार्हपत्यमन्थनं प्रशंसति- गा॒र्हप॑त्यं मन्थति (३)॑ । गा॒र्हप॑त्यो॒ वा अग्ने॒ योनि॑: । स्वादे॒वैनं॒ योने॑र्जनयति । नास्मै॒ भ्रातृ॑व्यं जनयति । इति । आधानकाले गार्हपत्यस्येतराग्नियोनित्वं दृष्टम् । अतोऽत्रापि गार्हपत्यमन्थने सति स्वकीयादेव योनेरुत्तरभाविनमेनमाहवनीयाद्यग्निं जनयति । अतो विरोधाभावाद्यजमानस्य भ्रातृव्यं नोत्पादयति । पूर्वं यस्य प्रातःसवन इत्यनुवाके सोमातिरेकप्रायश्चित्तमुक्तम् । इदानीं सोमोपक्षयनिमित्तं प्रायश्चित्तं विधत्ते- यस्य॒ सोम॑ उप॒दस्ये॑त् । सु॒वर्णं॒ हिर॑ण्यं द्वेधा वि॒च्छिद्य॑ । ऋ॒जीषे॑ऽन्यदा॑ धूनुयात्॑ । जु॒हुया॑द॒न्यत्॑ । सोम॑मे॒वाभि॑षुणोति । सोमं॑ जुहोति, इति । यस्य यजमानस्याभिषुतः सोम उपक्षीयते कृत्स्नानुष्ठानाय न पर्याप्त्यात्सोऽयं सम्यग्वर्णीपितं हिरण्यं द्वेधा विभज्य तदीयमेकं शकलं पूर्वं निष्पीडितरसं सोमवल्लीसंबन्धिन्यृजीष आधूनुयान्मिश्रयित्वा पुनरभिषुणूयात् । इतरच्छकलं मुख्ये चमसे निधाय रसेन सह जुहुयात् । तथा कृते सोम एवाभिषुतो हुतश्च भवति । तदेतत्सुवर्णं प्रशंसति- सोम॑स्य॒ वा अ॒भिषूय॑माणस्य प्रि॒या त॒नूरूद॑क्रामत् (४)॑ । तत्सु॒वर्णं॒ ॅहिर॑ण्यमभवत् । यत्सु॒वर्णं॒ ॅहिर॑ण्यं कु॒र्वन्ति॑ । प्रि॒ययै॒वैनं॑ त॒नुवा॒ सम॑र्धयन्ति, इति । रजतव्यावृत्त्यर्थं सुवर्णमिति विशेषणम् । उपक्षयप्रायश्चित्तमुक्त्वाऽपहारप्रायश्चित्तं विधत्ते- यस्याक्री॑तं॒ ॅसोम॑मप॒हरे॑युः । क्री॒णीया॑ दे॒व । सैव ततः॑ प्राय॑श्चित्तिः, इति ।
तैत्तिरीयब्राह्मणम् (१.४.७) १९९ दीक्षणीयेष्टेः पूर्वमेव सोमं संपाद्य क्रयपर्यन्तं क्वचिदवस्थापयेत् । अत एव सूत्रकार आह - "अत्र राजानमाहृत्य पयसौदनेन परिविवेषयन्त्याक्रयात्" इति । अत्र क्रयात्पूर्वं दीक्षादिवसेषु परिचर्यमाणं सोमं यदि केचिदपह्रेयु स्तदानीमन्यमपि कंचित्सोमं संपाद्य क्रयः कर्तव्य एव । क्रयानुष्ठितिरेव तस्यापहारस्य प्रायश्चित्तिः । अथ क्रीतस्यापहारे प्रायश्चितं विधत्ते- यस्य॑ क्री॒तमप॑हरेयुः । आ॒दा॒रा ूँश्च॑ फाल्गुना॑नि चा॒भिषु॑णुयात् । गाय॒त्री य ूँसो॑म॒माहर॑त् । तस्य॒ यो ऽ ूँशुः परा॑ऽप॑तत् (५) । त आ॑दा॒रा अ॑भवन् । इन्द्रो॑ वृ॒त्रमह॑न् । तस्य॑ व॒ल्कः परा॑ऽपतत् । तानि॑ फाल्गु॒नान्य॑भवन् । प॒शवो॒ वै फा॑ल्गु॒नानि॑ । प॒शवः॒ सोमो॒ राजा॑ । यदा॑दा॒रा ूँ श्च॑फाल्गुना॑नि चा॒भिषु॒णोति॑ । सोम॑मे॒व राजा॑नम॒भिषु॑णोति, इति । क्रीतस्य सोमस्यापहारे सोमप्रतिनिधित्वेनाऽऽ दाराणां फाल्गुनानां चाभिषवः । आद्रियन्ते सोमरहितैस्तत्पर्यैणं स्वीक्रियन्त इत्यादाराः क्षीरयुक्तवल्ली विशेषाः । लोकव्यवहारं फल्गु स्वल्पमेव प्रयोजनं येषामाद्रर्दूवार्ङ्कुरादीनां तृणानां तानि फाल्गुनानि । पुरा गायत्र्या समानीयमानस्य सोमस्य कश्चिदवयवो भूमौ पतितः स आदाररूपेणोत्पन्नः । इन्द्रेण हतस्य वृत्रस्य वल्कस्त्वक्शकलो भूमौ पतित्वा फाल्गुनरूपेणोद्भूत् । फाल्गुनानां पशुप्रियत्वात्पशुरूपत्वं सोमस्य च पशुप्रामिहेतुत्वात्पशुरूपत्वम् । एवं सत्यादारफाल्गुनाभिषवेण सोम एवाभिषुतो भवति । तत्र कर्तव्यविशेषान्विधत्ते- शृ॒तेन॑ प्रातः सव॑ने श्रीणीयात् । द॒ध्ना म॒ध्यं दिने॑ (६) नी॒त॒मिश्रे॑णं तृ॒तीयसव॑ने । अ॒ग्नि॒ष्टोमः॒ सोमः॑ स्यादृ॒तूर॒त्साम् । य ए॒वर्त्विजो॑ वृ॒ताः स्युः॑ । त ए॑नं याज- येयुः । एकां॒ गां दक्षि॑णां दद्यात्तेभ्य॑ एव॑ । पुन॑: सो॒मं क्रीणीयात् । य॒ज्ञेनै॒व तद्य॒ज्ञमि॑च्छति । सैव ततः॑ प्राय॑श्चित्तिः, इति ।
सप्तमोऽनुवाकः ॥ ७ ॥
२०० (१.४.७) तैत्तिरीयब्राह्मणम् अभिषुतमादारं फाल्गुनरसं शृतेन पक्वक्षीरेण श्रीणीयान्मिश्रयेत् । नवनीतोत्पत्तेः पूर्वावस्थमीषन्मथितं दधि नीतमिश्रम् । यद्यप्युक्थ्यषोडश्यादि रूपं क्रत्वन्तरमारब्धवांस्तथाऽपि तत्परित्यागेन प्रायश्चित्तरूपेऽस्मिन्प्रयोगे रथंतरपृष्ठोऽग्निष्टोमरूप एव सोमयागः कार्यः तत्र पूर्वं वृत्ता ऋत्विज एव याजकास्तेभ्यः सर्वेभ्य एकैव गौर्दक्षिणा । तथा नैमित्तिकं प्रयोगमनुष्ठाय पुनर्नित्यप्रयोगार्थं सोमं क्रीणीयात् । एवं सति नैमित्तिकप्रयोगरूपेणैव यज्ञेन नित्यप्रयोगरूपं प्राप्तुमिच्छति सेयमेवंविविधैवानुष्ठितिः। ततः क्रीतसोमापहारदोषात्प्रायश्चित्तिर्वि- मुक्तिहेतुः । अथ सत्रं संकल्प्य ततो निवृत्तौ प्रायश्चित्तं विधत्ते- सर्वा॑भ्यो॒ वा ए॒ष दे॒वता॑भ्यः॒ सर्व॑भ्यः पृ॒ष्ठेभ्य॑ आ॒त्मान॒मागुर॑ते । यः स॒त्राया॑ऽऽगु॒रते॑ । ए॒तावा॒न्खलु॒ वै पुरु॑षः । याव॑दस्य वि॒त्तम् । सर्व॑वेद॒सेन॑ यजेत । सर्व॑पृष्ठो॒ऽस्य॒ सोम॑: स्यात् । सर्वा॑भ्य ए॒व दे॒वता॑भ्यः॒ सर्व॑भ्यः पृ॒ष्ठेभ्य॑ आ॒त्मानं॑ निष्क्री॑णीते (७) इति । उद्दार्यति मन्थेन्मन्थत्यक्रामत्परापतन्मध्यंदिन आगु॒रते पञ्च च । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके चतुर्थाध्याये सप्तमोऽनुवाकः ॥ ७ ॥ यो यजमानः सत्रार्थं संकल्पयति स पुरुषः सर्वदेवताभ्यस्तत्प्रतिपादकस्तोत्रेभ्यश्च स्वात्मानं संकल्पयति । अस्य पुरुषस्य यावद्वित्तमस्ति तावदेवाश्य पुरुषस्य सर्वकर्मनिर्वाहकं सारभूतं स्वरूपम् । दरिद्रस्य भोगदानयोरशक्तत्वात् । तथा च संकल्पितात्मकः पुरुषः स्वरूपसारभूतसर्ववेदसदक्षिणाकं सर्वपृष्ठस्तोत्रयुक्तं स्वसंकल्पित- दोषप्रायश्चित्तभूतं सोमभागं कुर्यात् । ततश्च स्वप्रतिनिधिभूत- तादृशयागकर्मणा सर्वदेवताभ्यस्तत्प्रतिपादकपृष्ठस्तोत्रेभ्यश्च संकल्पितं स्वात्मानं निष्क्रीणीते । यज्ञस्य सर्ववेदसत्वं तु वेदःशब्दस्य धनवाचित्वेन सर्ववेदः सर्वधनं दक्षिणा यस्मिन्यज्ञ इति व्युत्पत्या बोध्यम् । सेयं सत्रेषु संकल्पभ्रष्टस्य प्रायश्चित्तिः । तदिदं सोमप्रतिनिधिरूपं प्रायश्चित्तं सूत्रकारेण स्पष्टमुदाहृतम्- “सोमभावेपूतीकानभिषुणूयात्पूतीकाभाव आदारान्फाल्गुनानि च यानि श्वेततूलानि स्युस्तदभावे याः काश्चौषधीःक्षीरिणीररुणदूर्वाः कुशान्वा हरितानिति वाजसनेयकमिति,