भारतकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 210, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 210

तैत्तिरीयब्राह्मणम् (१.४.४) १८१ ब्राह्मणो दर्भेण प्रबद्धस्य हिरण्यस्य पृष्ठतो वह्निमुद्धरेत् । अत एव सूत्रकारेणोक्तम्- “अन्वङ्ङार्षेयो ब्राह्मणो बहुविदग्निमुद्धरेत्” इति । “यावतीर्वै देवतास्ताः सर्वा वेदविदि ब्राह्मणे वसन्ति”, इति श्रुत्यन्तरात्सर्वदेवताकर्तृकमिदमुद्धरणं भवति । अत्रैवापरं विशेषं विधत्ते- अ॒ग्नि॒हो॒त्रमु॑पसाद्यातमि॑तोरासीत् । व्र॒तमे॒व हु॒तम॑नुं प्रियते, इति । आर्षेयस्य ब्राह्मणस्य पृष्ठतोऽग्निहोत्रहविर्नीत्वा तदधस्तादुपसाद्य श्वासं निरुध्य ग्लानिपर्यन्तमवतिष्ठेत् । एवं सति सूर्यास्तमयेन विनाशितं व्रतमनु स्वयमपि मरणोपचारं नाटयति । लोकेऽपि हि प्रियमन् स्निग्धमनुम्रियन्ते । पुनरपि विशेषान्तरं विधत्ते- अन्तं॒ वा ए॒ष आ॒त्मनो॑ गच्छति॑ । यस्ताम्य॑ति । अन्त॑मे॒ष य॒ज्ञस्य॑ गच्छति । यस्या॒ग्निम॑नु॒द्धत॒ꣳ सूर्यो॑ऽभिनिम्रोच॑ति (२) । पुनः॑ स॒मन्य॑ जुहोति । अन्तै॑नै॒वान्तं॑ य॒ज्ञस्य॒ · निष्क॑रोति, इति । यो ग्लानिं प्राप्नोति, एष विनाशमिव प्राप्नोति । यस्य चाग्न्युद्धरणात्पुरा सूर्योऽस्तमेति, एष यज्ञस्य विनाशं प्राप्नोति । अतो दोषद्वयनिवृत्यर्थं पुनः श्वासं कृत्वा जुहुयात् । तथा सति स्वकीयेन विनाशेन सह यज्ञस्य विनाशं समादधाति । पुनरप्यपरं विशेषं विधत्ते- वरु॑णो॒ वा ए॒तस्य॑ य॒ज्ञं गृ॑ह्णाति । यस्या॒ग्निम॑नु॒द्धत॒ꣳ सूर्यो॑ऽभिनिम्रोच॑ति । वा॒रु॒णं च॒रुं निर्व॑पेत् । तेनै॒व य॒ज्ञं निष्क्री॑णीते, इति । वरुणेनापहतो यज्ञश्चरुणा मूल्येन पुनः क्रीतो भवति । हिरण्यबन्धनमारभ्य चरुपर्यन्तमेकमिदं प्रायश्चित्तम् । अस्तमयनिमित्तं प्रायश्चित्तमभिधायोदयनिमित्तं प्रायश्चित्तं विधत्ते- नि वा ए॒तस्या॑ऽऽहव॒नीयो॒ गार्ह॑पत्यं कामयते । नि गार्ह॑पत्य आहव॒नीय॑म् । यस्या॒ग्निम॑नु॒द्धत॒ꣳ सूर्यो॑ऽभ्युदेति॑ ।