तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 209, कुल 345 में से
संदर्भ में पढ़ें१८० (१.४.४) तैत्तिरीयब्राह्मणम् उदस्थादित्यग्निहोत्रीमुत्थापयति दोहने । यदद्य दुग्धमित्येतत्स्कन्नक्षीराभिमन्त्रणे ॥ इदं विष्णुश्चान्तराये ध्वंसयेद्बस्म वह्निगम् । अनुवाके तृतीयेऽस्मिन्मन्त्रास्त्रयं उदीरिताः ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीयवेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे चतुर्थप्रपाठके तृतीयोऽनुवाकः । ३ । अथ चतुर्थप्रपाठके चतुर्थोऽनुवाकः । तृतीये दोहविषयं प्रायश्चित्तमुक्तम् । चतुर्थे वह्निविषयं प्रायश्चित्तमुच्यते । तत्रैकं प्रायश्चित्तं विधत्ते- नि वा ए॒तस्या॑ऽऽहव॒नीयो॒ गार्ह॑पत्यं कामयते । नि गार्ह॑पत्यं आहव॒नीय॑म् । यस्या॒ग्निमनु॑द्धृत॒ ँ॒ सूर्यो॑ऽभिनि॒म्रोच॑ति । दर्भे॑ण हिर॑ण्यं प्र॒बध्य॑ पु॒रस्ता॑द्धरेत् । अथा॒ग्निम् । अथा॑ग्निहो॒त्रम् । यद्धिर॑ण्यं पु॒रस्ता॑द्धर॑ति । ज्योति॒र्वै हिर॑ण्यम् । ज्योति॑रे॒वैनं॑ पश्य॒न्नुद्ध॑रति । यद॒ग्नि पूर्व॑ ँ हर॑त्यथा॑ग्निहो॒त्रम् (१) । भा॒ग॒धेये॑नै॒वैनं॑ प्रण॑यति, इति । यस्य पुरुषस्यानुद्धतमग्निमुपलक्ष्य सूर्योऽस्तमेति सायंकालीनाग्नि- होत्रार्थादाहवनीयं प्रत्यग्निप्रणयनात्प्रागेव यद्यस्तमियात्तदानीमेतस्य पुरुषस्याऽऽहवनीयो गार्हपत्यं न्यक्कर्तुं कामयते । गार्हपत्यश्चैनं न्यक्कामयते । ततोऽग्निद्वयमपि फलप्रदं न भवति । ततोऽस्तमयादूर्ध्वं प्रणयन्पुरुषः केनचिद्दर्भेण हिरण्यं प्रकर्षेण बद्ध्वा तत्पुरस्तान्नयेत् । तस्य पृष्ठतोऽग्निं नयेत् । तस्यापि पृष्ठतोऽग्निहोत्रहविर्नयेत् । तत्रहिरण्यनयनेन ज्योतिरूपं हिरण्यं पुरतः पश्यन्पृष्ठतोऽग्नेरुद्धारादस्तमयदोषं न प्राप्नोति । पुरतोऽग्निं पश्चाद्धविर्नयनं तदीयेन भागधेयेन युक्तमेवाग्निं प्रणयति । अस्मिन्नुद्धरणे कंचिद्विशेषं विधत्ते- ब्राह्म॒ण आ॑र्षे॒य उद्ध॑रेत् । ब्राह्म॒णो वै सर्वा॒ देवा॑ताः । सर्वा॑भिरे॒वैनं॑ दे॒वता॑भिरुद्ध॑रति, इति । स्वकीयानृषीन्यो वेत्ति स आर्षेयः प्रचऱाभिज्ञ इत्यर्थः । तादृशो