तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 208, कुल 345 में से
संदर्भ में पढ़ेंतैत्तिरीयब्राह्मणम् (१.४.३) १७९ अतस्तत्परिहाराय यस्मिन्देशे स्कन्नं तस्मिन्नेव देशे स्वयमुपविश्य तत्पतितं पुनः पात्रे गृह्णीयात् । तथा सति यस्मिन्नेव देशे स्कन्नं तस्मिन्देशे पुनर्गृहीतत्वात्तेन दुग्धान्तरं न भवेत् । तदेव पुनर्गृहीतेन सहितं पात्रस्थं नित्यार्थं हुत्वा प्राय श्चित्तार्थमन्यां दुग्ध्वा जुहुयात् । पुनरपि प्रायश्चित्तान्तरं विधत्ते- वि वा॑ ए॒तस्य॑ य॒ज्ञश्छि॑द्यते । य॒स्या॒ग्नि॒हो॒त्रेऽधि॑श्रिते श्वाऽन्त॒रा धाव॑ति । रु॒द्रः खलु॒ वा ए॒षः । यद॒ग्निः । यद्गाम॑न्व॒त्याव॑र्तये॑त् । रु॒द्राय॑ प॒शूनपि॑ दध्यात् । अ॒प॑शु॒र्यज॑मानः स्यात् । यद॒पोऽन्व॑तिषि॒ञ्चेत् १ अ॒ना॒द्यम॒ग्नेराप॑: । अ॒ना॒द्याभ्या॑मपि॑ दध्यात् । गार्ह॑पत्या॒द्भस्मा॒ऽऽदाय॑ । इ॒दं विष्णुर्विच॑क्र॒म॒ इति॑ वैष्ण॒व्यर्चाऽऽह॑व॒नीया॒दध्व॒ ँस॑यन्नु॒द्रवे॑द्य॒ज्ञो वै विष्णु॑: य॒ज्ञेनै॒व य॒ज्ञ ँसं॑तनोति । भस्म॑ना प॒दमपि॑ वपति॒ शान्त्यै॑ (६), इति । वै दे॒व्यर्दिति॑र्मुञ्चति सृजति करोति करोत्याभ्या॒मपि॑ दध्यात्प॒ञ्च च । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके चतुर्थाध्याये तृतीयोऽनुवाकः ॥ ३ ॥ यस्य यजमानस्याग्निहोत्रहविषि पाकार्थं गार्हपत्येऽधिश्रिते सत्याहवनीयगार्हपत्योर्मध्ये यदि श्वा धावेत्तदानीमेतस्य यज्ञो विच्छिद्येत । अतस्तत्परिहाराय यदि तेन शुनो मार्गेण गामतिनीय पुनरावर्तयेत्तदानीमग्नेः क्रूरत्वेन रुद्ररूपत्वात्तस्मै रुद्राय पशून्समर्पयेत् । ततो यजमानः पशुरहितः स्यात् । यदि तु शुनः पदे जलमनुक्रमेणातिशयेन निषिञ्चेत्तदानीमग्नेरनाद्यभूता आपः संपन्नाः तादृशमनाद्यं वस्तु द्वाभ्यामग्निभ्यां समर्पयेत्ततो गोर्नयनमुदकस्य निषेचनं न कुर्यात् । किन्तु गार्हपत्यात्किञ्चिद्भस्माऽऽदाय “इदं विष्णुः” इति मन्त्रेणाऽऽहवनीयपर्यन्तं भस्म प्रसारयंस्तस्योपरि स्वयं गच्छेत् । ततो यज्ञस्य विष्णुत्वाद्विष्णुरूपेणेव यज्ञेन वर्तमानं यज्ञं संततं करोति । तेन भस्मना शुनः पदमाच्छादयेत् । तच्च दोषस्य शान्त्यै भवति । अत्र विनियोगसंग्रहः-