भारतकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 207, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 207

तथा तत्पयो मयि स्थितमस्तु . तमेतं मन्त्रं पठेत् । तेन स्कन्नं पय आत्मनि गृहेषु पशुषु च स्थापितं भवति । एतदभिमन्त्रणानन्तरमुदकस्पर्शं विधत्ते- अप॒ उप॑सृजति (३) । अ॒द्भिरे॒वैन॑दाप्नोति, इति । स्वेनोपसृष्टाभिरद्भिरेव स्कन्नमेतत्पयः पुनः प्राप्नोति । प्रायश्चित्तान्तरं विधत्ते- यो वै य॒ज्ञस्याऽऽर्त्तेनानार्तं ॅस ॅ सृज॑ति । उ॒भे वै ते त॒र्ह्यृ॑र्च्छतः । आ॒ऽर्च्छति॒ खलु॒ वा ए॒तद॒ग्निहो॒त्रम् । यद्दु॒ह्यमा॑नं ॅ स्कन्द॑ति । यद॑भिदु॒ह्यात् । आर्त्तेनानार्तं य॒ज्ञस्य॒ स ॅ सृ॑जेत् । तदे॒व या॒दृक्की॒दृक् च॑ होत॒व्य॑म् । अथा॒न्यां दु॒ग्ध्वा पुन॑र्होत॒व्य॑म् । अना॑र्तेनै॒वाऽऽर्त्तं य॒ज्ञस्य॒ निष्क॑रोति (४), इति । यज्ञस्य संबन्धि हविर्द्विविधम् । आर्त्तमनार्तं चेति । दुह्यमानस्य स्कन्दने सति तदार्तं भवति । इतः परं धोक्ष्यमाणमनार्तं भवति । तथा सति स्कन्दनादूर्ध्वं तदेव पात्रस्थमभिलक्ष्य यदि पुनर्दुह्यात्तदानी- मार्तस्योपर्यनार्तस्य स्थापनादुभयमपि पयः संसृजेत् । तत्संसर्गे च द्वितीयमप्यार्तमेव भवेत् । तस्मादार्तस्योपरि दोहनं न कुर्यात् । किंतु तदेवाऽऽर्तं यादृशं पर्याप्तमपर्याप्तं वा होतव्यम् । तावता नित्यानुष्ठानसिद्धिः । अथाऽऽर्तपरिहारा र्थमन्यां दुग्ध्वा पुनर्होतव्यम् । तेन पुनर्होमेनैव यज्ञस्य यत्पूर्वमार्तं तत्समादधति । प्रायश्चित्तान्तरं विधत्ते- यद्युद्द्रु॑तस्य॒ स्कन्दे॑त् । यत्ततो हु॒त्वा पुन॑रिया॒त् । य॒ज्ञं विच्छि॑न्द्यात् । यत्र॒ स्कन्दे॑त् । तन्नि॒षद्य॒ पुन॑र्गृह्णीया॒त् । यत्रै॒व स्कन्दे॑ति । तत॑ ए॒वैन॒त्पुन॑र्गृह्णाति । तदे॒व या॒दृक्की॒दृक्च॑ होत॒व्य॑म् । अथा॒न्यां दु॒ग्ध्वा पुन॑र्होत॒व्य॑म् । अना॑र्तेनै॒वाऽऽ र्तं य॒ज्ञस्य॒ निष्क॑रोति (४), इति । दोहनादूर्ध्वमुद्द्रुतस्याऽऽहवनीयं प्रत्युन्नीतस्य लेशो यदि भूमौ पतेत्तदा नीमहुत्वा यदि ततो देशात्पुनरागच्छेत्तदानीं यज्ञो विच्छिद्येत् ।